231

धर्माधर्मलक्षणगुणदूषणमाह—मन इत्यादि ।


मनोयोगात्मनां पूर्वं विस्तरेण निबन्धनात् ।

परोक्तलक्षणोपेतं नादृष्टमुपपद्यते ॥ ६९१ ॥

गुणपदार्थपरीक्षा ।

कर्तृफलदाय्यात्मगुण आत्ममनःसंयोगजः स्वकार्यविरोध्यदृष्टम् । तच्च द्विविध
धर्माधर्मभेदात् । तत्र धर्मः कर्तुः प्रियहितमोक्षहेतुः । अधर्मस्त्वप्रियाहितप्रत्यवायहे
तुरिति परोक्तादृष्टलक्षणम् । तदेतदात्मनो मनसस्तद्योगस्य च तत्कारणत्वेनाभिमतस्य
पूर्वं निषिद्धत्वात्कारणाभावादेवासदिति सिद्धम् । शब्दस्त्वाकाशगुणतयाऽभीष्टः स
प्रागेव निरस्तोऽक्रमाद्यापतित इत्यादिनेति न पुनरस्य दूषणमुच्यते ॥ ६९१ ॥


इति गुणपदार्थपरीक्षा ।

कर्मपदार्थपरीक्षा ।

कर्मपदार्थदूषणार्थमाह—क्षणेत्यादि ।


क्षणक्षयिषु भावेषु कर्मोत्क्षेपाद्यसम्भवि ।

जातदेशे च्युतेरेव तदन्यप्राप्त्यसम्भवात् ॥ ६९२ ॥

उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणीति सूत्रम् । तत्रोत्क्षेपण
मूर्ध्वाधःप्रदेशाभ्यां संयोगविभागकारणं यत्कर्मोत्पद्यते । यथा—शरीरावयवे तत्सं
बद्धे वा मूर्त्तिमति द्रव्ये लोष्टादावूर्ध्वदिग्भागोपाधिभिराकाशप्रदेशाद्यैः संयोगकारण
मधोदिग्भागावच्छिन्नैश्च विभागकारणं प्रयत्नादिवशाद्यत्कर्मोपजायते तदुत्क्षेपणमु
च्यते । एतद्विपरीतं संयोगविभागकारणं कर्मावक्षेपणं । ऋजुद्रव्यस्य कुटिलत्वहेतु
राकुञ्चनम्, यथोक्तम्—ऋजुनो बाह्वादिद्रव्यस्य येऽग्रावयवा अङ्गुल्यादयस्तेषां स्व
संयोगिभिराकाशाद्यैर्विभागे सति मूलप्रदेशैश्चांशादिभिः संयोगे सति येन कर्मणा
ऽवयवी बाह्वादिलक्षणः कुटिलः समुत्पद्यते तदाकुञ्चनमिति । एतद्विपर्ययेण तु सं
योगविभागोत्पत्तौ येन कर्मणाऽवयवी ऋजुः संपद्यते तत्प्रसारणम् । यदनियतदि
क्प्रदेशैर्घटादिभिः संयोगविभागकारणं तद्गमनम् । उत्क्षेपणादिकं चतुःप्रकारं कर्म
नियतदिग्देशैराकाशैराशादिभिः संयोगविभागकारणम् । गमनं तु—अनियतदिग्भिः
सर्वतोदिक्कैः प्रदेशैः संयोगविभागौ करोति । अत एव पञ्चैव कर्माणि संभवन्ति ।
भ्रमणस्यन्दनरेचनादीनां गमन एवान्तर्भावात् । एतच्च पंचविधमपि कर्म मूर्त्तिमद्द्र
व्यवृत्तिसंयोगविभागकार्योन्नीतसत्त्वतया सिद्धम् । सर्वस्यैव संयोगविभागविशेषः