मनोयोगात्मनां पूर्वं विस्तरेण निबन्धनात् ।

परोक्तलक्षणोपेतं नादृष्टमुपपद्यते ॥ ६९१ ॥

गुणपदार्थपरीक्षा ।

कर्तृफलदाय्यात्मगुण आत्ममनःसंयोगजः स्वकार्यविरोध्यदृष्टम् । तच्च द्विविध
धर्माधर्मभेदात् । तत्र धर्मः कर्तुः प्रियहितमोक्षहेतुः । अधर्मस्त्वप्रियाहितप्रत्यवायहे
तुरिति परोक्तादृष्टलक्षणम् । तदेतदात्मनो मनसस्तद्योगस्य च तत्कारणत्वेनाभिमतस्य
पूर्वं निषिद्धत्वात्कारणाभावादेवासदिति सिद्धम् । शब्दस्त्वाकाशगुणतयाऽभीष्टः स
प्रागेव निरस्तोऽक्रमाद्यापतित इत्यादिनेति न पुनरस्य दूषणमुच्यते ॥ ६९१ ॥