यद्येवं कथं तर्हि गतिव्यवहारो लोके भवतीत्याह—देशान्तरेत्यादि ।


देशान्तरोपलब्धेस्तु नैरन्तर्येण जन्मनः ।

समानापरवस्तूनां गतिभ्रान्तिः प्रदीपवत् ॥ ७०७ ॥

इति कर्मपदार्थपरीक्षा ।

समानापरवस्तूनामिति । समानानि च तान्यपराणि चेति समस्य तानि च व
स्तूनि चेति विग्रहः कार्यः । तेषां समानापरवस्तूनां यन्नैरन्तर्येण—स्वोपादानकार
णदेशपरिहारेण जन्म—सद्भावः, तस्य जन्मन उपलब्धेः कारणात्स एवायं गच्छ
तीति, यथा प्रदीपस्य केनचिन्नीयमानस्य देशान्तरं गच्छतीति बुद्धिहेतुत्वं भवति ।
नहि प्रदीपः स एव देशान्तरमाक्रामति । तस्य षट्क्षणस्थायित्वेनाभिमतत्वात् ।
भावस्वभाव एव हि पूर्वापरकोटिशून्यो जन्मेत्यभिधीयते । तेन तस्योपलब्धिर्युज्यत
एव । अथवा जन्मन इति पञ्चम्यन्तमेतत् । नैरन्तर्येणोत्पादात्समानापरवस्तूनां दे
शान्तरोपलब्धेरिति सम्बन्धः ॥ ७०७ ॥