262 द्धधर्माध्यासात् । न ह्यन्योन्यप्रत्यनीकग्रहणाग्रहणधर्माध्यासितमपि सदेकमिति युक्त
मभिधातुं स्वच्छचेतसः, अतिप्रसङ्गात् । एवं हि विश्वमेकमेव द्रव्यं स्यात्, ततश्च
सहोत्पादविनाशादिप्रसङ्गः, अन्यथैकमिति नाममात्रमेव स्यात्, नच नाम्नि विवादः
॥ ८०९ ॥


तदेवं सर्वप्रकारेण जातिमभिदूष्य प्रयोगं रचयन्नाह—नान्येत्यादि ।


नान्यकल्पितजातिभ्यो वृक्षादिप्रत्यया इमे ।

क्रमित्वानुगमादिभ्यः पाचकादिधियो यथा ॥ ८१० ॥

नित्यस्याजनकत्वं च बाधकं संप्रतीयते ।

संयोगदूषणे सर्वं यदेवोक्तं प्रबाधकम् ॥ ८११ ॥

ये क्रमित्वानुगामित्ववस्तुत्वोत्पत्तिमत्त्वादिधर्मोपेतास्ते परपरिकल्पितनित्यैकसर्वग
तसामान्यतो न भवन्ति, यथा पाचकादिप्रत्ययाः, तथाचामी वृक्षादिप्रत्यया इति
विरुद्धव्याप्तोपलब्धिः । नित्यताभावविरुद्धानित्यताभावेन क्रमित्वादेर्व्याप्तत्वात् । नि
त्यस्य च क्रमाक्रमाभ्यामर्थक्रियाविरोधान्नानैकान्तिकता हेतोः । दृष्टान्तस्य च साध्या
विकलतायाः पूर्वं विस्तरेण प्रसाधितत्वान्नासिद्धो दृष्टान्तः । बाधकान्तरमप्याह-सं
योगे
त्यादि । तत्र संयोगदूषणे बाधकमुक्तम्, एकस्यानेकवृत्तिश्च न युक्तेति प्रबा
धक
मित्यनेन । यथाचानेकत्रैकस्य वृत्तिर्न युक्ता, तथाऽवयविदूषणे तद्ध्येकवृत्ति
भाजे
त्यादिना प्रदर्शिता ॥ ८१० ॥ ८११ ॥


एवमित्यादिनोपसंहरति ।


एवमेकान्ततो भिन्नजातिरेषा निराकृता ।

जैमिनीयाभ्युपेता तु स्याद्वादे प्रतिषेत्स्यते ॥ ८१२ ॥

इति सामान्यपरीक्षा ।

यैर्वैशेषिकादिभिर्व्यक्तितो जातिरेकान्तभिन्नेष्टा तेषामिदं दूषणमुक्तम् । ये पुनर
भिन्नामुभयरूपां च जातिमिच्छन्ति जैनजैमिनीयसाङ्ख्यादयः, तदुपवर्णिता जातिः
प्रस्तावात्स्याद्वादे निषेत्स्यते । इह तु वैशेषिकनैयायिकोपकल्पिताया जातेः प्रस्तुतत्वान्न
दूष्यते प्रस्तावाभावादिति भावः ॥ ८१२ ॥


इति सामान्यपरीक्षा ।

विशेषपरीक्षा ।