यदपि योगिनां विशेषप्रत्ययबलात्सत्त्वमेषां साध्यते, तत्राप्यनैकान्तिकतेति दर्श
यति-अण्वाकाशदिगादीनामित्यादि ।


अण्वाकाशदिगादीनामसङ्कीर्णं यदा स्थितम् ।

स्वरूपं च तदैतस्माद्वैलक्षण्योपलक्षणम् ॥ ८१४ ॥

मिश्रीभूतापरात्मानो भवेयुर्यदि ते पुनः ।

नान्यभावेऽप्यविभ्रान्तं वैलक्षण्योपलक्षणम् ॥ ८१५ ॥

कथं तेषु विशेषेषु वैलक्षण्योपलक्षणम् ।

स्वत एवेति चेन्नैवमण्वादावपि किं मतम् ॥ ८१६ ॥

तथा—अण्वादीनां रूपं स्वस्वभावावस्थानात्परस्परमसङ्कीर्णं वा भवेत्, मिश्रीभूतं
वा । यद्याद्यः कल्पस्तदा स्वत एवासङ्कीर्णवस्तूपलम्भात्तेषु योगिनां परस्परवैलक्षण्य
बुद्धिर्भविष्यतीति व्यर्था विशेषान्तरकल्पना । अथ द्वितीयः पक्षस्तदा कथमिव विशे
षाख्यपदार्थान्तरसन्निधानेऽपि तेषु परस्पराव्यतिभिन्नस्वभावेषु विलक्षणं ज्ञानं योगि
नामभ्रान्तमुत्पद्यते, भ्रान्तमेव तत्स्यादतस्मिंस्तथावृत्तत्वात् । ततश्चायोगिन एव स्युः,
भ्रान्तज्ञानसंसर्गित्वादिति भावः । किंच—यदि विशेषाख्यपदार्थान्तरमन्तरेण विल
क्षणा धीर्न जायते तत्कथं तेष्वेव विशेषेषु विलक्षणा धीर्भवति, नहि तेष्वपरे विशेषाः
सन्त्यनवस्थाप्रसङ्गात् । नित्यद्रव्यवृत्तयोऽन्त्या इति चाभ्युपगमहानिप्रसङ्गाच्च, विशे
षेष्वपि वृत्तेः । अतः स्वत एवैषां परस्परवैलक्षण्यमतिहेतुत्वमङ्गीक्रियते तदा परमा
ण्वादीनामपि तद्धेतुत्वं स्वत एवास्तु, को ह्यत्र तेषु प्रद्वेषो येन तेषां स्वत एव पर
स्परव्यावृत्तमूर्त्तीनामपि सतां परमाण्वादीनां परस्परवैलक्षण्यज्ञानोत्पत्तिहेतुत्वं ने
ष्यते विशेषाणां त्विष्यत इति । नात्र किंचित्कारणमुत्पश्यामोऽन्यत्र जाड्यात्
॥ ८१४ ॥ ८१५ ॥ ८१६ ॥