264

स्वत एवेत्यादिना प्रशस्तमतेरत्रोत्तरमाशङ्कते ।


स्वत एवाशुचित्वं हि श्वमांसादेर्यथा स्थितम् ।

तद्योगादपरेषां तु तथेहापि यदीष्यते ॥ ८१७ ॥

यथा प्रकाशको दीपो घटादेश्च स्वतः स्थितः ।

तत्प्रकाशात्मतायां च नियतोऽयमिदं तथा ॥ ८१८ ॥

स ह्याह—यथा श्वमांसादीनां स्वत एवाशुचित्वं, तद्योगाच्चान्येषां तथेहापि तादा
त्म्यादन्त्येषु विशेषेषु स्वत एव व्यावृत्तिप्रत्ययहेतुत्वं, तद्योगात्परमाणुषु । किंचातदा
त्मकेष्वप्यन्यनिमित्तः प्रत्ययो भवत्येव, यथा घटादिषु प्रदीपात्, नतु प्रदीपेषु घटा
दिभ्य इति । नियतोऽयमिति । घटादिः । इदं तथेति । वैलक्षण्योपलक्षणं विशे
षेभ्य एवाण्वादीनां, विशेषाणां स्वत एवेत्यर्थः ॥ ८१७ ॥ ८१८ ॥