स्यादेतद्यदि नामाऽस्माभिः सिद्धान्तबलादुपकल्पितेयमिहमतिस्तथाप्यस्या भवद्भि
र्निबन्धनं वक्तव्यमित्याह—स्वेच्छेत्यादि ।


स्वेच्छया रचिते वाऽस्मिन्कल्पितेष्विव वस्तुषु ।

न कारणनियोगोऽयं परं प्रत्युपपद्यते ॥ ८३० ॥

यो हि यत्कारणमेव नेच्छति स कथं कार्यं स्वयमुपकल्प्य तत्कारणं पर्यनुयुज्यते,
आत्मैव हि भवता पर्यनुयोक्तव्यः, येनेदं कार्यमुपकल्पितमिच्छावशात्, नैवेच्छानां
वस्तुस्वभावानुरोधः, स्वातन्त्र्यवृत्तित्वादासाम्, नातो वस्तुसिद्धिरनवस्थाप्रसङ्गात् ।
तथाहि—भवदुप़कल्पितस्यापि हि वस्तुनः कैश्चिदन्यथाऽपि कल्पयितुं शक्यत्वात्
॥ ८३० ॥