नचाप्यानर्थक्यं सङ्केतस्येति दर्शयति—व्यापकत्वं चेति ।


व्यापकत्वं च तस्येदमिष्टमाध्यवसायिकम् ।

मिथ्यावभासिनो ह्येते प्रत्ययाः शब्दनिर्मिताः ॥ १२१२ ॥

इति शब्दार्थपरीक्षा ।

सङ्केतव्यवहाराप्तकालव्यापकत्वं च वक्तृश्रोतृभ्यामध्यवसितार्थप्रतिबिम्बकस्याव
सायवशादेवेष्टं, न परमार्थतः, व्यवहारकालेऽपि वक्तृश्रोत्रोः पूर्वापरकालदृष्टयोरर्थ
योरैक्याभिमानात् । अथ परमार्थतः कस्मान्नेष्टमित्याह—मिथ्यावभासिन इत्यादि
॥ १२१२ ॥