तथाह्याबालमसावितिकर्त्तव्यताहेतुतया सिद्धैवेति दर्शयति—अतीतेत्यादि ।


अतीतभवनामार्थभावनावासनान्वयात् ।

सद्योजातोऽपि यद्योगादितिकर्त्तव्यतापटुः ॥ १२१६ ॥

अतीतो भवः—अतीतं जन्म, तत्र नामार्थभावना—शब्दार्थाभ्यासः, तेना
हिता या वासना—सामर्थ्यं, तस्या अन्वयः—अनुगमो यतो बालस्याप्यस्ति,
तेनाभिलापिनी प्रतीतिस्तस्यापि भवत्येव । यस्याः—कल्पनाया योगात् इतिकर्त्तव्य
तायां स्मितरुदितस्तनपानप्रहर्षादिलक्षणायां, पटुः—चतुरो भवति । अतोऽनया का
र्यभूतया यथोक्ता कल्पना बालस्याप्यनुमीयत एव । यथोक्तम्—इतिकर्त्तव्यता
लोके सर्वशब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यत
इति । सा
पुनः सन्मूर्च्छिताक्षराकारध्वनिविशिष्टमन्तर्मात्राविपरिवर्त्तिनमर्थं बहिरिवादर्शयन्ती
तेषां समुपजायते, यया पश्चात्सङ्केतग्रहणकुशला भवन्ति ॥ १२१६ ॥


368

चिन्तेत्यादिना भूयः प्रत्यक्षतः कल्पनासिद्धिमाह ।