401

सर्वेत्यादिना प्रतिविधत्ते—


सर्वावित्तिप्रसङ्गेन सा निषेद्धुं न शक्यते ।

भिन्नार्थत्वं न चेहास्ति स्वविदप्यर्थविन्मता ॥ १३५२ ॥

अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति इति सर्वार्थाप्रत्यक्षत्वप्रसङ्गान्न श
क्यते स्वसंवित्तिर्निषेद्धुम् । नापि भिन्नविषयत्वप्रसङ्गो युक्तः, यतः स्वसंवित्तिरप्य
र्थसंवित्तिरिष्टा, तत्कार्यत्वात् । नतु तन्मयत्वेन । स्वसंवित्तिस्तु ताद्रूप्यादिति न
विरोधः ॥ १३५२ ॥


स्वातिरिक्तेत्यादिना शङ्करस्वामी प्रमाणयति ।


स्वातिरिक्तक्रियाकारि प्रमाणं कारकत्वतः ।

वास्यादिवच्चेद्वैफल्यमन्यद्ध्यपि फलं मतम् ॥ १३५३ ॥

उक्तन्यायेन वास्यादेरन्यदस्ति फलं न च ।

कारकत्वं च नो सिद्धं जनकत्वविवक्षया ॥ १३५४ ॥

स्थापकत्वविवक्षायां न विरोधोऽस्ति कश्चन ।

तेनानैकान्तिको हेतुर्विरोधाप्रतिपादनात् ॥ १३५५ ॥

आत्मव्यतिरिक्तक्रियाकारि प्रमाणं कारकत्वाद्वास्यादिवदिति । वैफल्यमित्यादिना
दूषयति । विफलं, सिद्धसाध्यतादोषात् । यतोऽन्यदपि जन्यं फलं परिच्छेदेत्यादिना
कथितम् । हिशब्दो हेतौ । वास्यादिवदिति च साध्यविकलो दृष्टान्तश्छिदया सहै
कत्वस्य प्रतिपादितत्वात् । कारकत्वादिति च जन्यजनकत्वविवक्षायामसिद्धो हेतुः,
स्थापकत्वेनैवेष्टत्वात् । साधनस्य स्थापकत्वविवक्षायामप्यनैकान्तिको विरोधाभा
वात् । सामान्यविवक्षायामनैकान्तिक एव, विरोधस्यानुपदर्शितत्वात् ॥ १३५३ ॥
॥ १३५४ ॥ १३५५ ॥


ननु च यदि विषयाकारं ज्ञानं स्यात्तदा भवेद्विषयसारूप्यस्य प्रामाण्यम्, या
वता ग्राह्यविषयसमानाकारं समानस्वभावं ज्ञानमुपपद्यते, नैव तथा, ग्राह्याज्जात्यन्त
रत्वाद्रूपरसयोरिवेत्याह—ग्राह्येत्यादि ।


ग्राह्यसाधारणाकारं तस्माज्जात्यन्तरत्वतः ।

रसरूपादिवज्ज्ञानं नैव चेदुपपद्यते ॥ १३५६ ॥

न्यायानुसरणे सर्वमस्माभिरुपवर्णितम् ।

इदमन्यच्च विस्पष्टं ग्राह्यग्रहविवेचने ॥ १३५७ ॥