402

विज्ञानवादन्यायानुसारिभिरस्माभिरेतदिष्टमेवेति न किंचित्क्षीयते । तथाहि—य
त्किंचिदिदमस्पष्टं भवता ग्राह्यदूषणमभिहितम् । इदं तु स्पष्टं ग्राह्यविवेचनाय साध
नमभिधीयतेऽस्माभिः । ग्राह्ये ग्रहोऽभिनिवेशस्तस्य विवेचनमपनयनम् ॥ १३५६ ॥
॥ १३५७ ॥


किं तत्स्पष्टं साधनमित्याह—सर्वेत्यादि ।


सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत् ।

साम्यं केनचिदंशने सर्वं स्यात्सर्ववेदकम् ॥ १३५८ ॥

यावद्भ्यो विजातीयेभ्यो व्यावृत्तस्तावद्भ्य एव ज्ञानमपीतीदं सर्वात्मना सारू
प्यम् । कतिपयपदार्थव्यावृत्तिस्त्वंशेन सारूप्यम् ॥ १३५८ ॥


कथं तर्ह्यर्थसारूप्यस्य प्रामाण्यमुक्तमित्याह—किन्त्वित्यादि ।


किन्तु बाह्यार्थसद्भाववादे सारूप्यसम्भवः ।

ध्रुवमभ्युपगन्तव्य इत्यर्थं स प्रकाशितः ॥ १३५९ ॥

निर्भासिज्ञानपक्षे हि ग्राह्याद्भेदेऽपि चेतसः ।

प्रतिबिम्बस्य ताद्रूप्याद्भाक्तं स्यादपि वेदनम् ॥ १३६० ॥

येन त्विष्टं न विज्ञानमर्थासारूप्यभाजनम् ।

तस्यायमपि नैवास्ति प्रकारो बाह्यवेदने ॥ १३६१ ॥

इति प्रत्यक्षलक्षणपरीक्षा ।

इति । सारूप्यसम्भव आकारो वा । निर्भासा—विषयसारूप्यं, तद्यस्यास्ति
तन्निर्भासि । ग्राह्यादिति । बाह्यादर्थात् । प्रतिबिम्बस्येति । ज्ञानाकारस्य । ताद्रू
प्या
दिति । विषयसारूप्यात् । भाक्तमिति । उपचरितम् । वेदनमिति । अर्थस्येति
शेषः । भाजनम्—आश्रयः । विषयविप्रतिपत्तिस्तु सामान्यस्य वस्तुभूतस्य निराक
रणाद्वस्तुविषयत्वेनेष्टस्य प्रत्यक्षस्य नान्यः स्वलक्षणाद्विषयोऽस्तीति सामर्थ्यादुपद
र्शितत्वान्न पृथङ्निराकृता । ये त्वाहुरयुक्तमेवेदं प्रत्यक्षलक्षणम्, लक्षणं हि प्रमाणस्य
प्रणीयते, अपि नाम तेन रूपेणोपलक्ष्य प्रमाणं ततः परेषां प्रवृत्तिः स्यादिति, न
तु व्यसनितया, न च कल्पनापोढत्वादिनोपलक्षितस्यापि प्रवर्त्तकत्वं निवर्त्तकत्वं
वा समस्ति लोक इति । तदसम्यक् । नहि स्वेच्छया वस्तूनां स्वभावव्यवस्थानां कर्तुं
लभ्यं, येनान्यथा प्रणीयेत लक्षणम्, अपि तु यथावस्थितमेव वस्तुस्वरूपमनूद्य प्रसि