कथं तर्ह्यर्थसारूप्यस्य प्रामाण्यमुक्तमित्याह—किन्त्वित्यादि ।


किन्तु बाह्यार्थसद्भाववादे सारूप्यसम्भवः ।

ध्रुवमभ्युपगन्तव्य इत्यर्थं स प्रकाशितः ॥ १३५९ ॥

निर्भासिज्ञानपक्षे हि ग्राह्याद्भेदेऽपि चेतसः ।

प्रतिबिम्बस्य ताद्रूप्याद्भाक्तं स्यादपि वेदनम् ॥ १३६० ॥

येन त्विष्टं न विज्ञानमर्थासारूप्यभाजनम् ।

तस्यायमपि नैवास्ति प्रकारो बाह्यवेदने ॥ १३६१ ॥

इति प्रत्यक्षलक्षणपरीक्षा ।

इति । सारूप्यसम्भव आकारो वा । निर्भासा—विषयसारूप्यं, तद्यस्यास्ति
तन्निर्भासि । ग्राह्यादिति । बाह्यादर्थात् । प्रतिबिम्बस्येति । ज्ञानाकारस्य । ताद्रू
प्या
दिति । विषयसारूप्यात् । भाक्तमिति । उपचरितम् । वेदनमिति । अर्थस्येति
शेषः । भाजनम्—आश्रयः । विषयविप्रतिपत्तिस्तु सामान्यस्य वस्तुभूतस्य निराक
रणाद्वस्तुविषयत्वेनेष्टस्य प्रत्यक्षस्य नान्यः स्वलक्षणाद्विषयोऽस्तीति सामर्थ्यादुपद
र्शितत्वान्न पृथङ्निराकृता । ये त्वाहुरयुक्तमेवेदं प्रत्यक्षलक्षणम्, लक्षणं हि प्रमाणस्य
प्रणीयते, अपि नाम तेन रूपेणोपलक्ष्य प्रमाणं ततः परेषां प्रवृत्तिः स्यादिति, न
तु व्यसनितया, न च कल्पनापोढत्वादिनोपलक्षितस्यापि प्रवर्त्तकत्वं निवर्त्तकत्वं
वा समस्ति लोक इति । तदसम्यक् । नहि स्वेच्छया वस्तूनां स्वभावव्यवस्थानां कर्तुं
लभ्यं, येनान्यथा प्रणीयेत लक्षणम्, अपि तु यथावस्थितमेव वस्तुस्वरूपमनूद्य प्रसि
403 द्धस्वभावविशेषप्रतिपिपादयिषया लक्षणं प्रणयन्ति तद्विदः । यथा पृथिव्याः खष्
खटस्वं (खरत्वम् ?) । अन्यथा ह्यसम्भवितादोषेण दुष्टं स्यात् । नच प्रत्यक्षस्य
कल्पनापोढाभ्रान्तत्वाभ्यामन्यल्लक्षणमुपलक्षकमस्ति । तथाहि—तदवश्यमभ्रान्तम
ङ्गीकर्त्तव्यं प्रमाणत्वात् । कल्पनापोढं च साक्षात्स्वलक्षणविषयत्वात् । स्वलक्षणस्य
चाशक्यसमयत्वेन तत्संवित्तेरनभिजल्पत्वस्य प्रसाधितत्वात् । अतो न्यायानुयात
मेव लक्षणमेव तदाचक्षते कुशलाः । न चाप्यतो लक्षणात्प्रेक्षावतां प्रवृत्तिनिवृत्ती न
भवतः । तथाहि—घटोत्क्षेपणसामान्यसङ्ख्यादिज्ञानस्य प्रत्यभिज्ञाप्रत्ययस्य च तथा
पीतशङ्खादिज्ञानस्य परैः प्रत्यक्षत्वेनोपकल्पितस्य यथायोगं सविकल्पकत्वेन भ्रान्त
त्वेन वा प्रत्यक्षत्वमवधार्य तद्विषयत्वेनोपकल्पितस्य सङ्ख्यादेर्वस्तुत्वाभिनिवेशान्निव
र्तन्ते । यच्च निर्देश्यं नीलादि स्वलक्षणं तदेव वस्त्वित्यवसाय तत्र प्रवर्त्तन्ते । यथाच
निर्विकल्पस्यापि प्रत्यक्षस्य प्रवर्त्तकत्वं तथा प्रागुक्तमेव । यद्येवं कल्पनापोढत्वमेवैकं
लक्षणं कर्तुं युक्तं नत्वभ्रान्तमिति । तथाहि—प्रवृत्तेः प्राग्यदेव सिद्धं रूपं तदेव
प्रवृत्तिकामानां लक्षणत्वेन प्रणेतुं युक्तं नाप्रसिद्धमसत्तुल्यत्वात्तस्य । नचाभ्रान्तत्वनि
श्चयोऽर्थक्रियासंवादात्प्रागस्ति, न ह्यर्वाग्दर्शनास्तत्कार्याधिगममन्तरेण यथार्थतां ज्ञा
नस्य ज्ञातुमीशते, तेषां नित्यं पदार्थशक्तेः कार्यानुमेयत्वात् । यथोपदर्शितार्थप्रापण
सामर्थ्यलक्षणत्वाच्च यथार्थतायाः । न चोत्तरकालं यथार्थतावधारणेऽपि साफल्य
मस्ति, ततः पुनरप्रवृत्तेः । तदेतदचोद्यम् । तथाहि—केशोण्ड्रकादिबुद्धीनामपि
प्रामाण्यप्रसङ्गान्माभूदतिव्यापिता लक्षणदोष इत्यतोऽवश्यकरणीयमभ्रान्तग्रहणमि
त्युक्तम् । यश्चापि प्रवृत्तेः प्रागनिश्चयहेतुरर्वाग्दर्शित्वमुच्यते, सोऽप्यनैकान्त एव ।
को ह्यत्र प्रतिबन्धो यदर्वाग्दर्शिभिर्न क्वचित्सामर्थ्यं निश्चितव्यमिति । एवं हि न
किंचित्तैर्निश्चेयमिति प्राप्तम् । ततश्चाचेतनत्वमेव तेषामायातम् । यावता पशुशिशवो
ऽप्यभ्यासबलादुद्भूतभूतज्ञानवासनावृत्तयः सुखस्य साधनमेतदेतदसुखस्येति प्रवृत्तेः
प्रागपि निश्चित्य प्रपातादि परिहरन्तः स्तनादि चोपाददानाः संदृश्यन्त एव । तथा
ह्यभूतमपि भावयतां कामशोकभयाद्युपप्लुतचेतसामनपेक्षितसाधर्म्यादिस्मृतेरभ्यासस्य
स्फुटप्रतिभासस्य ज्ञानोत्पादनसामर्थ्यमुपलभ्यत एव । यत्र तु पुनर्नाभ्यासस्तत्र तेषां
कार्यानुमेयैव शक्तिर्न तु सर्वत्र । एतेन धूमादिलिङ्गनिश्चयोऽपि व्याख्यातः । यत
स्तत्रापि तद(दे ?)तत्कार्यस्य धूमादेः प्रकृत्या परस्परमत्यन्तविविक्तस्वभावत्वात्, त
द्विवेकनिश्चयस्य चाभ्यासादिहेतुत्वाल्लिङ्गनिश्चयसम्भवादतो नानुमानप्रतिक्षेपः । न
404 न्वाद्यायां प्रवृत्तौ सत्यामभ्यासः सिध्यति, यावता सैव कथं भवतीति वक्तव्यम् ।
उच्यते । संशयात् । संशयहेतोः प्रत्यक्षस्य कथं तत्र प्रामाण्यमिति चेत् । निश्चय
हेतोरपि कथं प्रामाण्यम् । अवसायोत्पादनादर्थिनस्तत्र प्रवर्त्तनादिति चेत् । तदेत
त्संशयहेतोरपि तुल्यम् । यद्यपि तत्र प्रतीयमानार्थितार्थाकारविपरीतो व्यवसायः,
तथापि न तेनाकारेण तस्य प्रत्यक्षस्य प्रवर्त्तकत्वम्, तथाऽवसितस्यानर्थितत्वात् ।
नापि निवर्त्तकत्वं, प्रतीयमानप्रार्थितार्थाध्यवसायहेतुत्वेनार्थिनः प्रवर्त्तनात् । अन्यथा
हि संशयहेतोः प्रत्यक्षादर्थी न प्रवर्त्तेत नापि निवर्त्तेतेति प्राप्तं, न चैवं भवति, अपि
त्वर्थिनामसम्भावितानर्थोदयानामर्थितया प्रवृत्तेरेव बलीयस्त्वम् । अनेन चांशेन नि
श्चयहेतोः प्रत्यक्षादस्य न कश्चिद्विशेषः । यत्र त्वेकान्तेन प्रतीयमानार्थविपरीताका
रावसायहेतुत्वमेव, अवसायानुत्पादकत्वं वा, तत्र तस्य सर्वथार्थिनोऽप्रवर्त्तनादप्रा
माण्यमेवेति युक्तं वक्तुं, नान्यत्रेत्यलम् ॥ १३५९ ॥ १३६० ॥ १३६१ ॥