367 इति स्यात् । कल्पनाप्रतिषेधाच्च ज्ञानस्य सामर्थ्यलब्धत्वात्, अवत्सा धेनुरानीयता
मिति यथा वत्सप्रतिषेधेन गोधेनोः, इत्यतो ज्ञानमिति नोक्तम् । का पुनरत्र कल्प
नाऽभिप्रेता ? यदपोढं ज्ञानं प्रत्यक्षमित्याह—अभिलापिनी प्रतीतिः कल्पनेति ।
अथ यस्यां क्लृप्तिहेतुत्वाद्यात्मिकायां शङ्करस्वामिप्रभृतयो विस्तरेण दोषमुक्तवन्तः
सापि किं गृहीतव्या उत नेत्याह—क्लृप्तिहेतुत्वाद्यात्मिका नत्विति । गृह्यत इति
शेषः । तेन तदाश्रयेण ये दोषाः परेणोक्तास्ते तत्पक्षानङ्गीकारादेव नावतरन्तीत्युक्तं
भवति । क्लृप्तिर्व्यपदेशस्तद्धेतुत्वं जात्यादीनामिति बोद्धव्यम्, यतो जात्यादिविशेष
मन्तरेण न व्यपदेशोऽस्ति । आदिशब्देन शब्दसंसर्गचित्तौदारिकसूक्ष्मताहेतू वितर्क
विचारौ तथा ग्राह्यग्राहककल्पनेत्येवमादि ग्रहीतव्यम् । अभिलापो—वाचकः शब्दः,
स च सामान्याकारः, स विद्यते यस्याः प्रतिभासतः सा तथोक्ता ॥ १२१४ ॥


कुतः पुनरीदृशी प्रतीतिः सिद्धेत्याह—शब्दार्थेत्यादि ।


शब्दार्थघटनायोग्या वृक्ष इत्यादिरूपतः ।

या वाचामप्रयोगेऽपि साभिलापेव जायते ॥ १२१५ ॥

वृक्ष इत्यादिरूपतो या वाचामप्रयोगेऽपीति सम्बन्धः । यदि वा—पूर्वेण श
ब्दार्थघटनायोग्या वृक्ष इत्यादिरूपत इति सम्बन्धः । अनेन प्रत्यक्षत एव कल्प
नायाः सिद्धिमादर्शयति सर्वप्राणभृतामनुसिद्धत्वाद्विकल्पस्य ॥ १२१५ ॥


तथाह्याबालमसावितिकर्त्तव्यताहेतुतया सिद्धैवेति दर्शयति—अतीतेत्यादि ।


अतीतभवनामार्थभावनावासनान्वयात् ।

सद्योजातोऽपि यद्योगादितिकर्त्तव्यतापटुः ॥ १२१६ ॥

अतीतो भवः—अतीतं जन्म, तत्र नामार्थभावना—शब्दार्थाभ्यासः, तेना
हिता या वासना—सामर्थ्यं, तस्या अन्वयः—अनुगमो यतो बालस्याप्यस्ति,
तेनाभिलापिनी प्रतीतिस्तस्यापि भवत्येव । यस्याः—कल्पनाया योगात् इतिकर्त्तव्य
तायां स्मितरुदितस्तनपानप्रहर्षादिलक्षणायां, पटुः—चतुरो भवति । अतोऽनया का
र्यभूतया यथोक्ता कल्पना बालस्याप्यनुमीयत एव । यथोक्तम्—इतिकर्त्तव्यता
लोके सर्वशब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यत
इति । सा
पुनः सन्मूर्च्छिताक्षराकारध्वनिविशिष्टमन्तर्मात्राविपरिवर्त्तिनमर्थं बहिरिवादर्शयन्ती
तेषां समुपजायते, यया पश्चात्सङ्केतग्रहणकुशला भवन्ति ॥ १२१६ ॥