431 र्भावः । नच स्वभावकारणाख्येन लिङ्गिना विना तयोर्लिङ्गयोः सम्भवोऽस्ति, येन
व्यभिचारः स्यात् । कस्मान्न सम्भत्र इत्याह—भेदानिमित्तताप्राप्तेः—भेदश्चानिमित्तता
च तयोः प्राप्तिः । स्वभावहेतोर्भेदोऽस्वभावता प्राप्नोति, कार्यहेतोरनिमित्तत्वं निर्हेतु
कत्वं प्राप्नोति, नच स्वभावकार्यव्यतिरेकेणान्यल्लिङ्गमिष्टमन्यत्राप्रतिबन्धादविनाभा
वायोगात् । ते विनेति । स्वभावकार्ये । द्विवचनान्तमेतत् ॥ १४७८ ॥


यदुक्तं परार्थनुमानं तु मानमिति तत्राह—त्रिरूपलिङ्गेत्यादि ।


त्रिरूपलिङ्गवचसः सक्तसंसूचकत्वतः ।

यत्परार्थानुमानत्वमुक्तं तच्छ्रोत्रपेक्षया ॥ १४७९ ॥

गौणं साङ्केतिकं चैवमनुमानत्वमाश्रितम् ।

सक्तसंसूचकत्वेन तेन नातिप्रसज्यते ॥ १४८० ॥

नानुमानं प्रमाणं चेद्विफला व्याहतिस्तव ।

न कश्चिदपि वादो हि विवक्षां प्रतिपद्यते ॥ १४८१ ॥

वचनस्य यत्परार्थानुमानत्वमुक्तं तच्छ्रोत्रपेक्षा, तेन वक्रपेक्षाभावी दोषो न
भवति । श्रोत्रपेक्षयाऽपि त्रिरूपलिङ्गसूचनादुपचारेणानुमानकारणत्वात्समयाद्वाऽनु
मानत्वमुक्तम् । सक्तसंसूचक एवानुमानसंज्ञानिवेशात् । तेनेन्द्रियस्याविनाभावि
त्वसम्बन्धज्ञानस्य च परार्थानुमानत्वप्रसङ्गादतिप्रसङ्गो न भवति, तयोः सक्तसंसू
चकत्वाभावात् । अत एव दर्शनमूलायाःमूलयोः संविदः सकाशादस्या विशेषः । तथाहि
—दर्शनज्ञानेन साक्षाद्धूमादेर्लिङ्गस्य प्रतीतिर्न तु श्रोत्रज्ञानेन, तेन हि शब्द एव
साक्षाद्गृह्यते, नच शब्दो धूमवद्बास्यार्थस्य लिङ्गं विवक्षाप्रतिबद्धस्य बाह्येन सम्ब
न्धासिद्धेः । केवलं तस्य धूमादेर्लिङ्गस्य संसूचकत्वेन सङ्केतवशात्तथाध्यव(सा)यि
विकल्पोत्पत्तेर्बाह्यार्थापेक्षया परार्थमिति वर्ण्यते । विवक्षायां तु गम्यायां श्रोत्रपे
क्षया स्वार्थमेव भवति । तथाहि—तत्कार्यत्वाद्धूमवद्विवक्षायां गमक इष्यते । न
वाचकत्वेन । ततो ज्ञानाप्रतीतेः । विफला व्याहृतिरिति । नानुमानं प्रमाणमि
त्येषा । तथाहि न कश्चित्प्रतिपाद्यस्तद्वचनाद्विवक्षां प्रतिपद्यते । अनेन स्ववचनविरो
धमाह । एतच्च पूर्व वर्णितमेव ॥ १४७९ ॥ १४८० ॥ १४८१ ॥


पुरन्दरस्त्वाह—लोकप्रसिद्धमनुमानं चार्वाकैरपीष्यत एव, यत्तु कैश्चिल्लौकिकं
मार्गमतिक्रम्यानुमानमुच्यते तन्निषिध्यत इति । एतदाशङ्क्य दूषयन्नाह—लौकिक
मित्यादि ।