पुरन्दरस्त्वाह—लोकप्रसिद्धमनुमानं चार्वाकैरपीष्यत एव, यत्तु कैश्चिल्लौकिकं
मार्गमतिक्रम्यानुमानमुच्यते तन्निषिध्यत इति । एतदाशङ्क्य दूषयन्नाह—लौकिक
मित्यादि ।


432
लौकिकं लिङ्गमिष्टं चेन्न त्वन्यैः परिकल्पितम् ।

ननु लोकोऽपि कार्यादेर्हेत्वादीनवगच्छति ॥ १४८२ ॥

तत्त्वतस्तु तदेवोक्तं न्यायवादिभिरप्यलम् ।

तल्लौकिकाभ्यनुज्ञाते किं त्यक्तं भवति स्वयम् ॥ १४८३ ॥

ननु लोकोऽपीति । हेत्वादीनवगच्छतीति सम्बन्धः । कार्यादेरित्यादिशब्दात्स्व
भावग्रहणम् । एवं हेत्वादीनित्यत्रापि स्वभावग्रहणमेव । बहुवचनं तु व्यक्तिभेदात् ।
यदेव लिङ्गं तादात्म्यतदुत्पत्तिप्रतिबद्धाल्लोकार्थ प्रतिपद्यते तदेवोक्तं लिङ्गमस्माभिः,
तदभ्यनुज्ञाने किं त्यक्तं स्याद्यस्यानुमानत्वनिषेधो भवेत् ॥ १४८२ ॥ १४८३ ॥