486 क्रियाविरोधः, यथा रूपरसयोश्चक्षुर्विज्ञाने, तथैकस्यानेकस्मिन्, यथा रूपस्य चक्षुः
श्रोत्रविज्ञानयोः, तदर्थमेकस्यैकत्रेति चाह । तस्माद्द्विविध एवार्थः । तत्र शब्दादीनां
प्रामाण्यं भवत्प्रत्यक्षे वार्थे भवेत्परोक्षे वेति पक्षद्वयम् । न तावदाद्येऽर्थे, कस्मात्प्रत्यक्षे
न्तर्गतिप्राप्तेः, शाब्दादीनामभिन्नार्थविषयत्वात्। अथ प्रत्यक्षेणाधिगते सत्युत्तरकालं
तैः पुनरधिगमः क्रियते, अत आह—वैफल्यं वा । गृहीतग्रहणात्स्मृतिवदप्रामा
ण्यप्रसङ्गात् । द्वितीयेऽपि पक्षे स परोक्षोऽर्थो विषयो भवन्साक्षाद्वा स्याद्व्यवधानाद्वा
पराश्रयेण, तत्र तावन्न साक्षात्तस्यापरेक्षत्वप्रसङ्गात्प्रत्यक्षार्थवत् । यस्मादत एवासौ
परोक्ष उच्यते यतः साक्षान्न ज्ञानं जनयति, साक्षात्स चेज्ज्ञानं जनयेत्कथमसौ प
रोक्ष इति वचनीयमेतत् । पराश्रयेणापि परोक्षार्थप्रतिपत्तिः सम्बद्धाद्वा स्यादसम्ब
द्धाद्वा, भेदाभासा वा स्यादभेदाभासा वेति चत्वारः पक्षाः सम्भवन्ति । भेदाभासा
यथा—धूमसामान्यात्तार्णपार्णादिवह्निविशेषप्रतीतिः । अभेदाभासा यथा—धूमा
द्विजातीयपरावृत्तवह्निमात्राध्यवसायिनी । तत्रासम्बन्धात्प्रतिपत्तावव्यवस्था स्यात्,
यतः कुतश्चित्सर्वः प्रतीयेत । अथ भेदाभासा, तदा व्याप्तिः साध्येन हेतोर्न सङ्ग
च्छेत, विशेषेणान्वयायोगात् । ततश्चानैकान्तिकं स्यात् । अथाभेदाभासा तदाऽनुमान
एवान्तर्भाव इति प्रतिपादयन्नाह—परोक्षविषयेत्यादि । अपरामृष्टतद्भेदेति । भे
दप्रतिभासशून्या विजातीयपरावृत्तार्थमात्राध्यवसायिनी । यथा धूमाद्वह्निमात्रप्र
तीतिः । एवम्भूता चेत्स्पष्टमेवानुमानं, सम्बन्धदर्शनोपायत्वात्, धूमाद्वह्निप्रतीतिवत्
॥ १७०२ ॥ १७०३ ॥ १७०४ ॥ १७०५ ॥ १७०६ ॥ १७०७ ॥ १७०८ ॥


इति प्रमाणान्तरपरीक्षा ।

स्याद्वादपरीक्षा ।

अणीयसापि नांशेन मिश्रीभूतापरात्मकमित्येतत्समर्थनार्थं चोद्योपक्रमपूर्वक
माह—नन्वित्यादि ।


नन्वनेकात्मकं वस्तु यथा मेचकरत्नवत् ।

प्रकृत्यैव सदादीनां को विरोधस्तथा सति ॥ १७०९ ॥

यदुक्तम्— अर्थक्रियासमर्थं च सदन्यदसदुच्यते । समावेशो न चैकत्र तयो
र्युक्तो विरोधतः ॥
इति । तदत्राह्रीकादयश्चोदयन्ति । सर्वमेव वस्तु सामान्यविशे
षात्मकत्वेनानेकात्मकं, यथा शबलाभासं रत्नं, तत्कथं सदादीनां विरोधः, येनोच्यते
समावेशो न चैकत्रे ति । आदिशब्देन क्रियाक्रियैकत्वादयो गृह्यन्ते । यद्यपि चेदं