एतदेव दर्शयन्नाह—यत्रेत्यादि ।
यत्र धूमस्तत्रावश्यं यतो वह्निरित्यतोऽसौ वह्निरन्वेता भवति धूमस्य, नत्वेवं
शब्दस्यार्थेनान्वयः ॥ १४९५ ॥
कथं नास्तीति प्रतिपादयन्नाह—न तावदिति ।
न तावत्तत्र शब्दाक्रान्ते देशेऽर्थस्य सद्भावः । तथाहि—पिण्डखर्जुरादिशब्दोऽ
न्यत्र पाटलिपुत्रादौ श्रूयते, नच तत्र देशे पिण्डखर्जूरादिरस्ति । तथा नापि शब्द
कालेऽर्थोऽवश्यं सम्भवति, दिलीपमहासम्मतादिशब्दा वर्त्तमानास्तदर्थस्तु भूतो
भविष्यंश्चेति कुतोऽर्थैः शब्दस्यान्वेतृत्वम् । अथ मतम्—नित्यत्वाच्छब्दानां सर्वका
लमवस्थितेरर्थेन सह न भिन्नकालता, नापि भिन्नदेशता, व्यापित्वात्सर्वदेशेष्वव
स्थितेः, अतो नित्यविभुत्वाद्भवेदन्वयः शब्दानामिति । तत्र सर्वशब्देषु तन्नित्यवि
भुत्वं तुल्यमिति कृत्वा प्रतिनियतेन शब्देन प्रतिनियतार्थाभिधानं न प्राप्नोति । किं
तर्हि ? । येन केनचिच्छब्देन सर्वस्यैवार्थस्याभिधानं स्यात्, तेनार्थेन सह सर्वत्र देशे
काले वा सर्वशब्दस्य दृष्टत्वात् । व्यतिरेकः—साध्याभावे साधनाभावः, तस्य ।
अगतेरिति । अनुपलम्भात् । नित्यविभुत्वादेव ॥ १४९६ ॥ १४९७ ॥
तस्मादित्युपसंहृत्य प्रमाणं दर्शयति । अननुमानत्वं शाब्द इति साध्यनिर्देशः ।
त्रैरूप्यरहितत्वेनेति हेतुः । प्रत्यक्षवदिति दृष्टान्तः । तादृग्विषयवर्जनादिति हेतुस
मर्थनम् । यादृशो धूमादिलिङ्गजस्यानुमानस्य विषयो धर्मविशिष्टो धर्मी तेन तादृशा
विषयेण वर्जनात्—रहितत्वादिति यावत् ॥ १४९८ ॥
भवतु नाम त्रैरूप्यरहितत्वादनुमानादन्यत्वं, प्रामाण्यं त्वस्य शब्दस्य कथमित्याह
—अग्निहोत्रेत्यादि ।