वर्द्धमानकभङ्गेनेत्यादिना कुमारिलमतमाशङ्कते ।


वर्द्धमानकभङ्गेन रुचकः क्रियते यदा ।

तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ॥ १७७७ ॥

हेमार्थिनस्तु माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् ।

नोत्पादस्थितिभङ्गानामभावे स्यान्मतित्रयम् ॥ १७७८ ॥

स ह्याह—उत्पादस्थितिनाशस्वभावत्वात्सर्वमेव वस्तु त्र्यात्मकम् । एकस्मादपि प्री
त्यादिकार्यत्रयदर्शनात्, तथाहि—यदा वर्द्धमानकं भङ्क्त्वा रुचकः क्रियते, तदा
502 वर्द्धमानकार्थिनः शोक उत्पद्यते, रुचकार्थिनः प्रीतिः सुवर्णार्थिनस्तु माध्यस्थ्यम् ।
यदि च वस्त्वेकरूपमेव स्यात्, तदैकाकारैव बुद्धिः स्यात्, न त्रिप्रकारा । वर्द्धमान
करुचकौ—भाजनविशेषौ ॥ १७७७ ॥ १७७८ ॥