502 वर्द्धमानकार्थिनः शोक उत्पद्यते, रुचकार्थिनः प्रीतिः सुवर्णार्थिनस्तु माध्यस्थ्यम् ।
यदि च वस्त्वेकरूपमेव स्यात्, तदैकाकारैव बुद्धिः स्यात्, न त्रिप्रकारा । वर्द्धमान
करुचकौ—भाजनविशेषौ ॥ १७७७ ॥ १७७८ ॥


स्यादेतत्—यदि नाम त्र्यात्मकं वस्त्विति सिद्ध्यति, तथाऽपि नाशादिरूपेण
त्र्यात्मकमित्येतत्कुत इत्याह—न नाशेन विनेत्यादि ।


न नाशेन विना शोको नोत्पादेन विना सुखम् ।

स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता ॥ १७७९ ॥

तेन सामान्यनित्यतेति । यस्मात् स्थित्यादिना न माध्यस्थ्यं, तेन—माध्य
स्थ्यस्य स्थित्यविनाभावित्वेन, सामान्यस्यापि—सवर्णत्वस्य, नित्यता प्रतीयते १७७९ ॥


इत्येतदित्यादिना प्रतिविधत्ते ।


इत्येतदपि नो युक्तमसामान्याश्रयत्वतः ।

उत्पादस्थितिभङ्गानामेकार्थाश्रयता न हि ॥ १७८० ॥

समानकालताप्राप्तेः परस्परविरोधिनाम् ।

इदं तु क्षुणभङ्गित्वे सति सर्वमनाकुलम् ॥ १७८१ ॥

वर्द्धमानकभावस्य कलधौतात्मनः कथम् ।

अनन्वये विनाशे हि कस्यचिच्छोकसम्भवः ॥ १७८२ ॥

सर्वथा पूर्वरूपस्य रुचकस्य तदात्मनः ।

जन्मन्युत्पद्यते प्रीतिर्नावस्थानं तु कस्यचित् ॥ १७८३ ॥

असामान्याश्रयत्वत इत्येतद्ग्रहणकवाक्यम् । अस्य व्याख्यानमुत्पादस्थितीत्यादि ।
यदि हि वस्त्वेकमप्युत्पादादिस्वभावेन त्र्यात्मकं स्यात्तदा युगपत्परस्परविरोधिन
उत्पादस्थितिविनाशाः प्राप्नुवन्ति, नच विरोधिनामेकत्र युगपद्भावो युक्तः, अन्यथा
हि विरोधित्वमेव न स्यात् । कथं तर्हि मतित्रयस्योत्पत्तिर्युक्तेति चेत्, यथा युक्ता
तथा श्रूयतामिति दर्शयन्नाह—इदं त्विति । वर्द्धमानात्मको भावो वर्द्धमानकभावः,
स किंविशिष्टः, कलधौतात्मा—कलधौतं सुवर्णं स एवात्मा स्वभावो यस्येति विग्रहः,
तस्य स्वतः—स्वरसेन, विनाशे सति कस्यचित्तदर्थिनः शोक उत्पद्यते । अपूर्वस्य तु
रुचकाख्यभावस्य तदात्मनो—हेमात्मनः, जन्मनि—उत्पादे सति, कस्यचिद्रुचका
ध्यवसितस्य प्रीतिरुत्पद्यते । नतु कस्यचित्सुवर्णात्मनोऽवस्थानमस्ति निरन्वयत्वादु
त्पादविनाशयोः ॥ १७८० ॥ १७८१ ॥ १७८२ ॥ १७८३ ॥