शातकुम्भात्मकौ भावौ यदा पश्यति मूढधीः ।

समानापरभावेन स्थिरत्वं मन्यते तदा ॥ १७८४ ॥

हेम्नोऽवस्थितरूपत्वे तद्रूपं रुचकाद्यपि ।

पूर्वोत्तराद्यवस्थासु दृश्येतानेकताऽन्यथा ॥ १७८५ ॥

इति स्याद्वादपरीक्षा ।

शातकुम्भात्मकौ सुवर्णस्वभावौ वर्द्धमानरुचकाख्यौ भावौ क्रमेण यदा पश्यति
मूढमतिः, पश्यन्नपि स्वभावविवेकं सदृशापरोत्पत्तिविप्रलब्धो विवेचयितुमशक्त
त्वादतएव समानापरभावेन भ्रान्तिनिमित्तेन विप्रलब्धोऽवस्थाद्वयेऽपि हेम्नः स्थिरत्वं
मन्यते । समानापरभावेनेति । अहेमव्यावृत्तिमात्रसाधर्म्येण समानस्यापरस्य
भाव उत्पादः समानापरभावः । कथं पुनरवसीयते समानापरभावेन विप्रलब्धः
स्थिरत्वं मन्यते, न तु पुनर्वस्तुन एव तथाभावादित्याह—हेम्न इत्यादि । यदि हेम्नः
स्थिरत्वं स्यात्तदा तदव्यतिरिक्तं रुचकाद्यपि वर्द्धमानावस्थासु दृश्येत, उपलब्धिलक्ष
णप्राप्तत्वात् । अन्यथा—यदि रुचकस्य वर्द्धमानावस्थायां न दृष्टिर्वर्द्धमानस्य रुचका
वस्थायामुपलब्धिलक्षणप्राप्तस्य, तदानीं तयोः परस्परतो भेदः, ततश्च ताभ्याम
व्यतिरेकाच्च तत्स्वभाववद्धेम्नोऽपि भेदः सिद्धः स्यादित्यालोच्याह—अनेकताऽन्य
थे
ति । यच्चावधीकृतवस्तुभ्य इत्यादि भेदसाधनमुक्तं तत्र सिद्धसाध्यतैवेति दूषणमु
च्यते ॥ १७८४ ॥ १७८५ ॥