एतदेव द्वितीयेन श्लोकेन दर्शयति ।


अवस्थाभेदभावेऽपि यथा वर्ण्यं जहाति न ।

हेमाध्वसु तथाभावो द्रव्यत्वं त्यजत्ययम् ॥ १७८७ ॥

504
अतीताजातयोर्ज्ञानमन्यथाऽविषयं भवेत् ।

द्वयाश्रयं च विज्ञानं तायिना कथितं कथम् ॥ १७८८ ॥

कर्मातीतं च निःसत्त्वं कथं फलदमिष्यते ।

अतीतानागते ज्ञानं विभक्तं योगिनां च किम् ॥ १७८९ ॥

न द्रव्यापोहविषया अतीतानागतास्ततः ।

अध्वसङ्ग्रहरूपादिरूपाद्विभावादेर्वर्त्तमानवत् ॥ १७९० ॥

तत्र भावान्यथावादी भदन्तधर्मत्रातः, स किलाह—धर्मस्याध्वसु वर्त्तमानस्य
भावान्यथात्वमेव केवलं नतु द्रव्यस्येति । यथा सुवर्णद्रव्यस्य कटककेयूरकुण्डलाद्य
भिधाननिमित्तस्य गुणस्यान्यथात्वं न सुवर्णस्य, तथा धर्मस्यानागतादिभावादन्यथा
त्वम् । तथा हि—अनागतभावपरित्यागेन वर्त्तमानभावं प्रतिपद्यते धर्मो, वर्त्तमान
भावपरित्यागेन चातीतभावम्, नतु द्रव्यान्यथात्वं, सर्वत्र द्रव्यस्याव्यभिचारात् ।
अन्यथाऽन्य एवानागतेऽन्यो वर्त्तमानोऽन्योऽतीत इति प्रसज्यते । कः पुनर्भावस्ते
नेष्टः ? । गुणविशेषः, यतोऽतीताद्यभिधानज्ञानप्रवृत्तिः । लक्षणान्यथावादी भदन्त
घोषकः । स किलाह । धर्मोऽध्वसु वर्त्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्प
न्नाभ्यां लक्षणाभ्यामवियुक्तः, यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त एव
मनागतप्रत्युत्पन्नावपि वाच्ये । अस्य ह्यतीतादिलक्षणवृत्तिलाभापेक्षो व्यवहार इति
पूर्वकाद्भेदः । अवस्थान्यथावादी भदन्तवसुमित्रः । स किलाह—धर्मोऽध्वसु वर्त्तमा
नोऽवस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यतेऽवस्थान्तरतो, न द्रव्यतः, द्रव्यस्य त्रि
ष्वपि कालेष्वभिन्नत्वात् । यथा मृद्गुडिका एकाङ्के प्रक्षिप्ता एकमित्युच्यते, शताङ्के
शतं, सहस्राङ्के सहस्रं, तथा कारित्रेऽवस्थितो भावो वर्त्तमानस्ततः प्रच्युतोऽतीत
स्तदप्राप्तोऽनागत इति । अस्य व्यवस्थापेक्षया व्यवहारो यथा मृद्गुडिकायां, नहि
तस्याः स्वभावान्यथात्वं भवति, किं तर्हि ?, स्थानविशेषसम्बन्धात्सङ्ख्याभिद्योतकं
संज्ञान्तरमुत्पद्यते । अन्यथान्यथिको बुद्धदेवः, स किलाह—धर्मोऽध्वसु वर्त्तमानः
पूर्वापरमपेक्ष्यान्योन्य उच्यत इति । यथैका स्त्री माता चोच्यते दुहिता चेति । अस्य
पूर्वापरापेक्षो व्यवहारः, यस्य पूर्वमेवास्ति नापरः सोऽनागतः, यस्य पूर्वमस्ति अपरं
च स वर्त्तमानः, यस्यापरमेव न पूर्वं सोऽतीत, इत्येते चत्वारः सर्वेऽस्तिवादा भाव
लक्षणाऽवस्थान्यथान्यथिकसंज्ञिताः । तत्र प्रथमः परिणामवादित्वात्साङ्ख्यमतान्न भि
505 द्यते । यस्तस्य प्रतिषेधः सोऽस्यापि द्रष्टव्यः । तथाहि—पूर्वस्वभावापरित्यागेन वा
परिणामो भवेत्, परित्यागेन वा । यद्यपरित्यागेन तदाऽध्वसङ्करप्रसङ्गः । अथ परि
त्यागेन, तदा सदाऽस्तित्वविरोधः । द्वितीयस्यापि वादिनोऽयं सङ्कर एव, सर्वस्य
सर्वलक्षणयोगात् । पुरुषस्त्वर्थान्तरभूतरागसमुदाचाराद्रक्त उच्यतेऽविरक्तश्च सम
न्वागममात्रेण, नतु धर्मस्य लक्षणसमुदाचारो लक्षणसमन्वागमो वा प्राप्तिलक्षणो
ऽस्ति, अन्यत्वप्रसङ्गाल्लक्षणस्य प्राप्तिवदिति न साम्यं दृष्टान्तस्य दार्ष्ट्यान्तिकेन
तृतीयस्य कारित्रेणाध्वव्यवस्थेति तस्य विस्तरेण दूषणं वक्ष्यते । चतुर्थस्याप्येकस्मिन्ने
वाध्वनि त्रयोऽध्वानः प्राप्नुवति । तथाहि । अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीता
नागतौ मध्यमः क्षणः प्रत्युत्पन्न इति । एषा दूषणदिगेषां स्पष्टा । तृतीयमेवारभ्य
भूयस्त्रैकाल्यपरीक्षाऽऽरभ्यते । हेमदृष्टान्तेन तु सिद्धान्तोपक्षेपमात्रं कृतम्, नतु धर्म
त्रातदर्शनमेवाभिमतम् । तथाच वक्ष्यति कारित्रेण विभागोऽयमध्वनां यत्प्रक
ल्प्यत
इति । नच धर्मत्रातस्य कारित्रेणाध्वव्यवस्था, किं तर्हि ?, वसुमित्रस्य । तत्र
यद्यतीतानागतं न स्यात्, अभून्महासम्मतो भविष्यति शङ्खश्चक्रवर्त्तीत्यतीताजात
योर्विज्ञानं निरालम्बनमेव स्यात् । ततश्च विज्ञानमेव न स्यादालम्बनाभावादिति
भावः । तथाहि—प्रतिवस्तु विज्ञप्त्यात्मकं विज्ञानम्, असति च ज्ञेये न किञ्चिद
नेन ज्ञेयमित्यविज्ञानमेव स्यात् । किञ्चि—द्वयं प्रतीत्य विज्ञानमुत्पद्यत इति भगव
तोक्तम् कतमद्द्वयम्, चक्षूरूपाणि यावन्मनोधर्मा इति । असति चातीतानागते
तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यादित्यागमविरोधः । अपिचातीतं कर्म फलदं
न स्याद्यदि तन्निःसत्त्वं सत्ताशून्यं भवेत्, फलोत्पत्तिकाले विपाकहेतोरभावात् ।
नचासतः कार्योत्पादनशक्तिरस्ति, सर्वसामर्थ्यविरहलक्षणत्वादसत्त्वस्य । किंच—
आसीन्मान्धानो ब्रह्मदत्तो, भविष्यति शङ्खश्चक्रवर्त्ती मैत्रेयस्तथागत, इत्यादिना वि
भागेन योगिनामतीतादिविषयं विभक्तं विज्ञानं न स्यात् । न ह्यसतां विभागोऽस्ति ।
तस्मादतीतानागता भावाः श्रीहर्षादयो न द्रव्यप्रतिषेधरूपाः, अध्वसंगृहीतरूपादित्वे
नोपादिष्टत्वाद्वर्त्तमानवत् । उक्तं हि भगवता— अतीतं चेद्भिक्षवो रूपं नाभविष्यन्न
श्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षोऽभविष्यत् । यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छुत
वानार्यश्रावकोऽतीतरूपेऽनपेक्षो भवतीति विस्तरः तथा यत्किंचिद्रूपमतीतमना
गतादि तत्सर्वमभिसंक्षिप्य रूपस्कन्ध इति सङ्ख्यां गच्छती
त्यादि । अध्वना
सङ्ग्रहो येषां तेऽध्वसङ्ग्रहा रूपादयः । आदिशब्देन वेदनादिपरिग्रहः । तेषां भावो
506 रूपादित्वम् । अत्राप्यादिशब्देन दुःखसमुदयानित्यानात्मादित्वेनोपदिष्टत्वादिति गृ
ह्यते ॥ १७८७ ॥ १७८८ ॥ १७८९ ॥ १७९० ॥