लोकायतपरीक्षा ।
अनाद्यन्तमित्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह—यदीत्यादि ।
यदि नानुगतोभावः कश्चिदप्यत्र विद्यते ।
परलोकस्तदा न स्यादभावात्परलोकिनः ॥ १८५७ ॥
काश्चिदिति । आत्मादिः । तत्रात्मनः पूर्वं प्रतिषिद्धत्वादभावादेव नानुगामित्वं,
विज्ञानादीनां च क्षणिकत्वात्रैकाल्यपरीक्षायां चान्वयस्य निषिद्धत्वान्नान्वयः ॥ १८५७ ॥