ननु चक्षुरादीनि विषयांश्च रूपादीन्प्रतीत्य विज्ञानमुत्पद्यत इत्यतिप्रतीतमेतत्,
तत्कथमुच्यते तेभ्य एव विज्ञानमित्याह—सन्निवेशविशेष इति ।


सन्निवेशविशेषे च क्षित्यादीनां निवेश्यते ।

देहेन्द्रियादिसंज्ञेयं तत्त्वं नान्यद्धि विद्यते ॥ १८६० ॥

तथा च तेषां सूत्रम्—तत्समुदाये विषयेन्द्रियसंज्ञेति । नहि महाभूतव्यतिरे
केणेन्द्रियादीनि सन्ति, तत्संस्थानविशेष एव तत्प्रज्ञप्तेः । नच संस्थानं नामान्यत्सं
स्थानिभ्यः । इदं च महाभूतचतुष्टयं प्रत्यक्षसंसिद्धम् । न चैतद्व्यतिरेकेणान्यत्तत्व
मस्ति प्रत्यक्षसिद्धम् । नच प्रत्यक्षादन्यत्प्रमाणमस्ति, येनान्यस्य परलोकादेः सं
सिद्धिः स्यात् ॥ १८६० ॥