इहत्येत्यादिना परकीयं चोद्यमाशङ्कते ।


इहत्याभ्यासपूर्वत्वे साध्ये दृष्टेष्टबाधनम् ।

भवान्तरीयहेतुत्वे साध्यशून्यं निदर्शनम् ॥ १९६२ ॥

अविशेषेण साध्ये तु हेतोरस्य विरुद्धता ।

तथैवान्यभवाभ्यासहेतुत्वविनिवर्त्तनात् ॥ १९६३ ॥

तत्रेदं चोद्यम्—ऐहलौकिकाभ्यासपूर्वत्वं वाऽऽद्यभाविनां साध्यं, पारलौकिका
भ्यासपूर्वत्वं वा, अविशेषेण वाऽभ्यासपूर्वत्वमात्रम्, तस्मिन्सिद्धे सामर्थ्यात्पारलौ
किकाभ्यासपूर्वत्वमिष्टं सिद्धं भवतीति, पक्षत्रयम् । तत्र प्रथमे पक्षे दृष्टेष्टबाधनं
नह्याद्यभाविनां रागादीनामिहत्याभ्यासपूर्वत्वं दृष्टं, नापि चेष्टं परलोकवादिनेति दृष्टे
ष्टयोर्बाधनम् । द्वितीयेऽपि पक्षे साध्यविकलो दृष्टान्तः, नहि क्वचिल्लोकायतस्य पार
लौकिकाभ्यासपूर्वत्वसमन्वितो दृष्टान्तोऽस्ति । तृतीयेऽपि पक्षे विरुद्धता हेतोः,
तथैव—दृष्टान्तवदेव, अन्यभवाभ्यासपूर्वत्वस्येष्टस्याभावसाधनात् ॥ १९६२ ॥
॥ १९६३ ॥