550

तृतीय एवात्र पक्षोऽभिप्रेतः, न च हेतोर्विरुद्धता कस्मात् ? । नहि तेनान्यभ
वाभ्यासपूर्वत्वेनास्य रागादित्वस्य कश्चिद्विरोधोऽस्ति । येन तत्पारलौकिकाभ्यासपू
र्वत्वं निवर्त्तयेत् । अपिच—अयं लोकः परलोक इत्यवस्थाभेदकृतव्यवस्थामात्रमेतत् ।
बालयौवनादिभेदवत् । अनादित्वं त्वनेन प्रकारेण साध्यत इति नात्राभिनिवेष्टव्यम् ।
( प्रतिवादिसन्निभमित्येतत् ) (?) ॥ १९६४ ॥


इति लोकायतपरीक्षा ।

बहिरर्थपरीक्षा ।

प्रतिबिम्बादिप्रतिविवादिसन्निभमित्येतत्प्रमित्येतत् । प्रतीत्यसमुत्पादविशेषणसमर्थनार्थमिदानीं विज्ञान
वादीदमुपक्षिपति । तत्र विज्ञप्तिमात्रमेवेदं त्रैधातुकं, तच्च विज्ञानं प्रतिसत्त्वसन्तान
भेदादनन्तमविशुद्धं चानधिगततत्त्वानां विशुद्धं च प्रहीणाचरणानां प्रतिक्षणविसरारु
च सर्वप्राणभृतामोजायते, नत्वेकमेवाविकारि यथोपनिषद्वादिनामिति विज्ञानवा
दिनां बौद्धानां मतम् । तत्राभ्यां प्रकाराभ्यां विज्ञप्तिमात्रताभीष्टा, बाह्यस्य पृथिव्या
दिस्वभावस्य ग्राह्यस्याभावे ग्राहकत्वस्याप्यभावात् । सत्यपि वा सन्तानान्तरे ग्राह्य
ग्राहकलक्षणवैधुर्यात् । तत्र प्रयोगः—यद्यज्ज्ञानं तत्तत् ग्राह्यग्राहकत्वद्वयरहितं ज्ञान
त्वात्, प्रतिबिम्बज्ञानवत्, ज्ञानं चेदं स्वस्थनेत्रादिज्ञानं विवादास्पदीभूतमिति स्व
भावहेतुः । नचाव्याप्तिरस्य हेतोर्मन्तव्या । तथाहि—न तावत्पृथिव्यादिबाह्योऽर्थो
ऽस्य ग्राह्यो विद्यते, तस्यैकानेकस्वभावशून्यत्वात् । प्रयोगः—यदेकानेकस्वभावं न
भवति न तत्सत्त्वेन ग्राह्यं प्रेक्षावता, यथा व्योमोत्पलम्, एकानेकस्वभावरहिताश्च
पराभिमताः पृथिव्यादय इति व्यापकानुपलब्धिः। तृतीयराश्यन्तराभावेनैकत्वा
नेकत्वाभ्यां सत्त्वस्य व्याप्तत्वाद्व्याप्यव्यापकभावानुपपत्तिर्विपर्यये बाधकं प्रमाणमिति
नानैकान्तिकताऽनन्तरस्य हेतोः । नापि विरुद्धता, सपक्षे भावात् । अत्रास्य हेतो
रसिद्धतामुद्भावयन्, यच्चोक्तम्यथोक्तम् भूतान्येव न सन्तीति न्यायोऽयं पर इष्यतामिति
—अस्याश्च प्रतिज्ञायाः प्रत्यक्षादिविरोधमादर्शयन्, प्रथमस्य हेतोरव्याप्तिमेव
प्रतिपादयितुं पर आह—यदि ज्ञानातिरेकेणेत्यादि ।


यदि ज्ञानातिरेकेण नास्ति भूतचतुष्टयम् ।

तत्किमेतन्नु विच्छिन्नं विस्पष्टमवभासते ॥ १९६५ ॥

तस्यैवं प्रतिभासेऽपि नास्तितोपगमे सति ।

चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भवेत् ॥ १९६६ ॥