कार्यकारणता नास्ति विवादपदचेतसोः ।

विभिन्नदेहवृत्तित्वाद्गवाश्वज्ञानयोरिव ॥ १८६१ ॥

न विवक्षितविज्ञानजन्या वा मतयो मताः ।

ज्ञानत्वादन्यसन्तानसम्बद्धा इव बुद्धयः ॥ १८६२ ॥

521

अपिच—यद्यतीतदेहवर्त्तिनश्चेतसः प्रथमजन्मचित्तं प्रति कारणभावः स्यात्,
मरणचित्तस्य चागामिचित्तं प्रति, तदा चित्तप्रतिबन्धानुपरमात्परलोककल्पना स्यात्,
यावता प्रथमयोस्तावद्विवादास्पदीभूतयोश्चेतसोर्न कार्यकारणताऽस्ति भिन्नदेहवर्त्ति
त्वात्, गवाश्ववर्त्तिनोरिव ज्ञानयोः । अथवा—जन्मबुद्धयो धर्मिण्यः, तासाम
तीतदेहवर्त्तिचरमविज्ञानजन्यत्वप्रतिषेधः साध्यः, ज्ञानत्वादिति सामान्यं हेतुः,
अन्यसन्तानवर्त्तिन्यो बुद्धयो निदर्शनम् । प्रयोगस्त्वेवम्—यदि ज्ञानं, न तद्विवक्षि
तातीतदेहवर्त्तिचरमज्ञानजन्यम्, ज्ञानत्वात्, यथाऽन्यसन्तानवर्त्ति ज्ञानम् । ज्ञानरू
पाश्चेमा विवक्षितदेहवर्त्तिन्यो जन्मबुद्धय इति विरुद्धव्याप्तोपलब्धिः विवक्षितवि
ज्ञानजन्य(त्व)विरुद्धेन ज्ञानत्वस्य व्याप्तत्वात् ॥ १८६१ ॥ १८६२ ॥