अपिच—यद्यतीतदेहवर्त्तिनश्चेतसः प्रथमजन्मचित्तं प्रति कारणभावः स्यात्,
मरणचित्तस्य चागामिचित्तं प्रति, तदा चित्तप्रतिबन्धानुपरमात्परलोककल्पना स्यात्,
यावता प्रथमयोस्तावद्विवादास्पदीभूतयोश्चेतसोर्न कार्यकारणताऽस्ति भिन्नदेहवर्त्ति
त्वात्, गवाश्ववर्त्तिनोरिव ज्ञानयोः । अथवा—जन्मबुद्धयो धर्मिण्यः, तासाम
तीतदेहवर्त्तिचरमविज्ञानजन्यत्वप्रतिषेधः साध्यः, ज्ञानत्वादिति सामान्यं हेतुः,
अन्यसन्तानवर्त्तिन्यो बुद्धयो निदर्शनम् । प्रयोगस्त्वेवम्—यदि ज्ञानं, न तद्विवक्षि
तातीतदेहवर्त्तिचरमज्ञानजन्यम्, ज्ञानत्वात्, यथाऽन्यसन्तानवर्त्ति ज्ञानम् । ज्ञानरू
पाश्चेमा विवक्षितदेहवर्त्तिन्यो जन्मबुद्धय इति विरुद्धव्याप्तोपलब्धिः विवक्षितवि
ज्ञानजन्य(त्व)विरुद्धेन ज्ञानत्वस्य व्याप्तत्वात् ॥ १८६१ ॥ १८६२ ॥
एवं तावदतीतजन्मनिषेधः कृतः । साम्प्रतमनागतजन्मनिषेधायाह—सराग
स्येत्यादि ।
सरागस्य मरणचित्तं चित्तान्तरं न प्रतिसन्धत्ते, मरणचित्तत्वादर्हच्चरमचित्तव
दिति व्यापकविरुद्धोपलब्धिः । वीतक्लेशस्य तद्यथेति । मरणज्ञानम् ॥ १८६३ ॥
कुतस्तर्हि चित्तस्योत्पत्तिरित्याह—कायादेवेत्यादि ।
तथाच सूत्रम्—कायादेवेति । कम्बलाश्वतरोदितमिति ॥ १८६४ ॥
ननु च कायानिष्पत्तावपि कललाद्यवस्थायां विज्ञानमस्त्येव मूर्छितम्, तच्चातीत
देहभेदविज्ञानजन्यतया सिद्धम्, कथं कायादेवेति नियम इत्याह—कललादिष्वित्यादि ।