520

काश्चिदिति । आत्मादिः । तत्रात्मनः पूर्वं प्रतिषिद्धत्वादभावादेव नानुगामित्वं,
विज्ञानादीनां च क्षणिकत्वात्रैकाल्यपरीक्षायां चान्वयस्य निषिद्धत्वान्नान्वयः ॥ १८५७ ॥


नतु देहादयः परलोकिनो भविष्यन्तीत्याह—देहेत्यादि ।


देहबुद्धीन्द्रियादीनां प्रतिक्षणविनाशने ।

न युक्तं परलोकित्वं नान्यश्चाभ्युपगम्यते ॥ १८५८ ॥

तस्माद्भूतविशेषेभ्यो यथा शुक्तसुरादिकम् ।

तेभ्य एव तथा ज्ञानं जायते व्यज्यतेऽथवा ॥ १८५९ ॥

आदिशब्देन वेदनासंज्ञासंस्काराणां ग्रहणम् । नान्यश्चाभ्युपगम्यत इति ।
आत्मा । तल्लोकायतपक्षानुलोमनमेव ज्ञा(जा?)तम् । तथाहि तस्यैतत्सूत्रं—परलो
किनोऽभावात्परलोकाभाव
इति । तथाहि—पृथिव्यापस्तेजोवायुरिति चत्वारि
तत्त्वानि तेभ्यश्चैतन्यमिति । तत्र केचिद्वृत्तिकारा व्याचक्षते-उत्पद्यते तेभ्यश्चैतन्यम्,
अन्येऽभिव्यज्यत इत्याहुः, अतः पक्षद्वयमाह—जायते व्यज्यतेऽथवेति । शुक्त
माम्लत्वम् । सुरेति । मदजननशक्तिः । आदिशब्देन मूर्छादिजननसामर्थ्यपरिग्रहः
॥ १८५८ ॥ १८५९ ॥


ननु चक्षुरादीनि विषयांश्च रूपादीन्प्रतीत्य विज्ञानमुत्पद्यत इत्यतिप्रतीतमेतत्,
तत्कथमुच्यते तेभ्य एव विज्ञानमित्याह—सन्निवेशविशेष इति ।


सन्निवेशविशेषे च क्षित्यादीनां निवेश्यते ।

देहेन्द्रियादिसंज्ञेयं तत्त्वं नान्यद्धि विद्यते ॥ १८६० ॥

तथा च तेषां सूत्रम्—तत्समुदाये विषयेन्द्रियसंज्ञेति । नहि महाभूतव्यतिरे
केणेन्द्रियादीनि सन्ति, तत्संस्थानविशेष एव तत्प्रज्ञप्तेः । नच संस्थानं नामान्यत्सं
स्थानिभ्यः । इदं च महाभूतचतुष्टयं प्रत्यक्षसंसिद्धम् । न चैतद्व्यतिरेकेणान्यत्तत्व
मस्ति प्रत्यक्षसिद्धम् । नच प्रत्यक्षादन्यत्प्रमाणमस्ति, येनान्यस्य परलोकादेः सं
सिद्धिः स्यात् ॥ १८६० ॥


कार्यकारणता नास्ति विवादपदचेतसोः ।

विभिन्नदेहवृत्तित्वाद्गवाश्वज्ञानयोरिव ॥ १८६१ ॥

न विवक्षितविज्ञानजन्या वा मतयो मताः ।

ज्ञानत्वादन्यसन्तानसम्बद्धा इव बुद्धयः ॥ १८६२ ॥