552 मूर्त्ता इत्यभ्युपगन्तव्यमिति स्ववचनविरोधं प्रतिज्ञायामाह—लब्धापचयेत्यादि ।
लब्धोऽपचयपर्यन्तो येन रूपेण स्वभावेन, तत्तथोक्तम् । एतदुक्तं भवति—यद्यप
चीयमानावयवविभागेनापचीयमानस्वभावा न भवन्ति, यदि निरंशा इति यावत्,
तदा न मूर्त्ता वेदनादिवत्सिद्ध्यन्ति, विशेषाभावात् ॥ १९७० ॥ १९७१ ॥


तुल्येत्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते ।


तुल्यापरक्षणोत्पादाद्यथा नित्यत्वविभ्रमः ।

अविच्छिन्नसजातीयग्रहे चेत्स्थूलविभ्रमः ॥ १९७२ ॥

स ह्याह—यथा सदृशापरापरक्षणोत्पादाद्विप्रलब्धस्य गृहीतेऽपि प्रत्यक्षेण शब्दादौ
नित्यत्वविभ्रमस्तथा परमाणूनामविच्छिन्नदेशानां सजातीयानां युगपद्ग्रहणे स्थूल इति
मानसो विभ्रमो भवति । ततश्च निरंशानेकमूर्त्तानां प्रत्ययाप्रतिवेदनादित्यसिद्धो
हेतुरिति ॥ १९७२ ॥


स्वव्यापारेत्यादिना दूषणमाह—स्वव्यापारबलेनैवेति ।


स्वव्यापारबलेनैव प्रत्यक्षं जनयेद्यदि ।

न परामर्शविज्ञानं कथं तेऽध्यक्षगोचराः ॥ १९७३ ॥

क्षणिका इति भावाश्च निश्चीयन्ते प्रमाणतः ।

अणवस्त्विति गम्यन्ते कथं पीतसितादयः ॥ १९७४ ॥

सूक्ष्मप्रचयरूपं हि स्थूलत्वादाद्यचाक्षुषम् ।

पर्वतादिवदत्रापि समस्त्येसमस्त्वेषाऽनुमेति चेत् ॥ १९७५ ॥

स्थूलत्वं वस्तुधर्मो हि सिद्धं धर्मिद्वयेऽपि न ।

न ह्यस्त्यवयवी स्थूलो नाणवश्च तथाविधाः ॥ १९७६ ॥

अथ देशवितानेन स्थितरूपं तथोदितम् ।

तथाऽपि भ्रान्तविज्ञानभासिरूपेण संशयः ॥ १९७७ ॥

वैतथ्यात्स तथा नो चेद्व्यतिरेकेऽप्रसाधिते ।

तस्मादतिशयः कोऽस्य कार्यसंवादनं यदि ॥ १९७८ ॥

कार्यावभासिविज्ञानसंवादेऽपि ननूच्यते ।

सामर्थ्यनियमाद्धेतोः स च सम्भाव्यतेऽन्यथा ॥ १९७९ ॥