75

२. न्यायमतखंडनम्

अन्यत्तु न युक्तमिति 8b5 यदुक्तमक्षपादेन द्वाविंशतिविधं निग्रहस्थानं ।
प्रतिज्ञाहानिः । प्रतिज्ञान्तरं । प्रतिज्ञाविरोधः । प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तर
न्निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यून मधिकं पुनरुक्तमननुभाषणमज्ञा
नमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणन्निरनुयोज्यानुयोगोपसिद्धान्तो
हेत्वाभासाश्च निग्रहस्थानानि
न्या० सू० ५।२।१तानीमानि द्वाविंशति
विधानि विभज्य वक्ष्यन्ते
105 प्रतिदृ
ष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ।

न्या० सू० ५।२। तत्र भाष्यकारमतं दूषयित्वा वार्त्तिककारोयं स्थितपक्षमाह ।
तमेव ब्रूम इति । भाष्यकारमतस्य भारद्वाजेनैव दूषि
तत्वादस्माकमर्द्धन्तावदवसितं
भारस्येति भावः । तत्रेदम्भाष्यकारस्य मतं । साध्यधर्मप्रत्यनीकेनधर्मेण
प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टां
तेनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः ।
निदर्शनमनित्यः शब्द ऐन्द्रियकत्वात् घटवदिति कृते पर आह । दृष्टमैन्द्रियकं
सामान्यं नित्यङ्कस्मात्
न तथा शब्द इति प्रत्यवस्थित इदमाह यद्यैन्द्रियकं
सामान्यं कामं घटोपि नित्योस्त्विति । स खल्वयं साधनस्य दृष्टान्तस्य नित्यत्वं
प्रसञ्जयन्निगमना
नन्तमेव पक्षञ्जहाति पक्षञ्च जहतः प्रतिज्ञाहानिरित्युच्यते ।
प्रतिज्ञाश्रयत्वात् पक्षस्येति ।
106 वार्तिककारेण चैवमेतद् दूषितं । 107एतत्तु न बुद्ध्या
महे कथमत्र प्रति
ज्ञा हीयत इति हेतोरनैकान्तिकत्वं सामान्यदृष्टान्तेन परेण चोद्यते ।
76 तस्यानैकान्तिकदोषोद्धारमनुक्त्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते । नित्यताप्रतिपत्ते
श्चा
सिद्धतादृष्टान्तदोषो भवतीति सोयं दृष्टान्तदोषेण वा हेतुदोषेण वा निग्रहो
न प्रतिज्ञाहानिरिति । दृष्टान्तञ्च जहत् प्रतिज्ञाञ्जहातीति उपचारेण निग्रहस्थानं ।
50b
न च प्रधानासम्भवे उपचारो लभ्यत इति प्रतिज्ञाहानेर्मुख्यो विषयो वक्तव्य इति ।

इदानीम्वार्तिककारमतं स्वयमेवोपन्यस्यति । प्रतिदृष्टान्तस्येत्यादिना 8b6 कः
पुनर
त्र दृष्टान्तोऽभिमतो यदि तावत् यत्र
लौकिकपरीक्षकानो108बुद्धि
साम्यं स दुष्टान्त
न्या० सू० १।१।२५ इति पारिभाषिकस्तदा भाष्यकारमताद
विषेशस्तत्र च प्रतिविहितं । अथान्यः स न ग
म्यत इत्याह । तत्र दृष्टश्चासौ पञ्चाव
यवेन साधनेनान्ते च निगमनस्य व्यवस्थित इति दृष्टान्तः पक्षः । ततः स्वशब्देन सह
विशेषणसमासः । तद्विपरीतः प्रतिदृष्टान्त
। यथाऽनित्यः शब्दः ऐन्द्रियकत्वादिति
ब्रुवन्वादी प्रतिपक्षवादिनि सामान्यादिकमैन्द्रियकं नित्यं च । ततोविपक्षेपि वृत्तेर्व्य
भिचार्ययं हेतुरित्येवं सामा
न्येन प्रत्यवस्थिते सत्याह यद्येवं शब्दोप्येवमस्त्विति
एषा प्रतिज्ञाहानिर्नाम निग्रहस्थानं
। कस्मात् । प्राग्प्रतिज्ञातस्य शब्दानित्यत्वस्य
त्यागात् । प्रतिज्ञाश
ब्देन धर्मिविशेषणभूतो धर्म उच्यते समुदायावयवत्वात् । एतत्
प्रतिक्षिपति । अत्र भारद्वाज मते उपगतायाः प्रतिज्ञायास्त्यागात् कारणात् । येयं
प्रति
ज्ञाहानिर्व्यवस्थापिता तस्यां विशेषनियमः किङ्कृतः । कोसावनेन प्रकारेण
स्वपक्षे प्रतिपक्षधर्मानुज्ञास्वरूपेण प्रतिज्ञाहानिरिति । स्यात् मतमयमेव प्रति
ज्ञा
हानिः प्रकारो नान्योस्ति ततो नियमार्थमुच्यत इति । सम्भवति ह्यन्येनापी ति । अथ
77 मतिः प्रधानमेतन्निमित्तं तस्यास्ततोस्मिन् प्रदर्शितेऽन्योपि प्रकाशित एव भवती
ति ।
तदत्राप्याह । इदमेव च हेतुदोषोद्भावनादिकङ्कारणं यस्मादेवं हेतुदोषोद्भावना
दिना प्रतिपादितेन प्रतिवादिना प्रतिज्ञा हातव्या सम्यग्दूषणाभिधानात् ।
51a यच्चेद-
मभ्यधायि सामान्यं नित्यमैन्द्र्यिकमित्युक्ते शब्दोप्येवमस्त्वित्यत्र प्रतिविधत्ते । इद
म्पुनरसम्बद्धमेव
9a1 । यस्मात् कः स्वस्थात्मा सामान्योपदर्शनमात्रेण सामान्य
मस्ति
न चैन्द्रियकन्नित्यञ्चेत्येतदविचार्य शब्दं नित्यं प्रतिपद्येत । एतावत्तु भवेत्
सामन्यस्यापि नित्यस्यैन्द्रियकत्वे तस्य ऐन्द्रियकत्वस्यानित्येपि घटे दर्शनात् संशयितः
स्यात्
अपि च प्रतिदृष्टान्तधर्मानुज्ञैवात्र न युक्तेत्याह । न च तद्धमं तस्य सामा
न्यस्य धर्मन्नित्यत्वं यतोऽनित्यः शब्द इति वदता कस्यचिन्नित्यः शब्द इत्ययमञ्जशो109
ति प्रत्यासन्नः प्रतिपक्षः स्यान्न सामान्यन्तस्य धर्म्यन्तरत्वात् । तथा ह्येका
धिकरणयोरेव नित्यत्वानित्यत्वयोर्विरोधो न नानाधिकरणयोः । आञ्जस
ग्रहणमय
मपि विरुद्धधर्माधिकरणत्वात् प्रतिपक्षो न त्वतिनिकटो यथा नित्यः शब्द इत्ययमिति
परिदीपनार्थं । नानेन प्रकारेण प्रतिज्ञाहाने
र्निग्रहार्ह इति वर्तते । केनानेनेत्याह ।
प्रतिपक्षधर्मानुज्ञया । अथवा अनेनेत्यसाधनाङ्गवचनेन । यथोक्तमिदमेव प्रधानं
निमित्तमिति ॥


78

प्रतिज्ञा
तार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरमिति
9a5 न्या०
सू० ५।२।३
द्वितीयलक्षणसूत्रं निग्रहस्थानमिति सर्व्वत्रानुवर्तते । अस्यार्थः
प्रतिषेधो विपक्षे हेतुसद्भाव
कथनं तस्मिन्सति सपक्षविपक्षयोर्द्धर्मभेदेन करणभू
तेन पूर्व्वप्रतिज्ञार्थप्रतिपत्यर्थं प्रतिज्ञान्तरङ्करोति । यथा घटोऽसर्वगत एवं शब्दोप्य
सर्व्वगतो घटवदेवा
नित्यः शब्द इति शेषः सुज्ञानः । इदं निराकरोति अत्रापी 9a8
त्यादिना । अबिद्धकर्ण स्तु भाष्यटीकायामिदमाशङ्क्यपरिजिहीर्षति ननु चासर्व्व
गतत्वे
सतीति । हे
51b तुविशेषणमुक्तं । सविशेषणश्च हेतुर्विपक्षे नास्तीति न प्रतिज्ञान्तरं
निग्रहस्थानं । नहि तदेवमसर्व्वगतः शब्द इति प्रतिज्ञान्तरोपादानात् । हेतुविशेषणो
पादाने हेत्वन्तरं निग्रहस्थानमिति । एतच्चातिस्थूलं । स ह्येवं पक्षधर्ममेव विदग्ध
बुद्धिर्विशिनष्टि न तु प्रतिज्ञान्तरमुपादत्ते सिद्धत्वात् । यदपि हेतुविशेषणोपादाने
हेत्व
न्तरन्निग्रहस्थानमित्यभ्यधायि तदप्यतिपेलवं । यस्मादेवं तदेव नामास्तु प्रतिज्ञा
न्तरत्वसम्बद्धं । उदाहरणसाधर्म्यादेश्चेति । उदाहरणसाधर्म्यात्साध्यसाधनं हेतु
न्या० सू० १।१।३४ रित्येतस्य प्रतिज्ञालक्षणस्य साध्यनिर्देशः प्रतिज्ञेत्येतस्याभावात् ।
उपादवता चानेन प्रतिज्ञां प्रतिज्ञासाधनाय प्रतिज्ञामात्रेण युक्तिरहिते
न सिद्धिरिष्टा
79 भवति । ततश्च प्रागपि प्रथमप्रतिज्ञानन्तरमपि हेतुमैन्द्रियकत्वन्न ब्रूयात् । तस्मादेवं
प्रकाराणाम्बालप्रलापानां प्रतिज्ञासाधनाय प्रति
ज्ञान्तरमुच्यत इत्येवं रूपाणां
रिस ङ्ख्यातुमस110क्यत्वात् लक्षणनियमोप्यसम्बद्ध एव । कोसौ । प्रतिज्ञान्तरा
भिधाने प्रतिज्ञान्तरं नाम निग्रहस्थानमिति


ननु नायमीदृशो लक्षणनियमः प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देश
इत्येवं कृतत्वात् । नास्ति दोषस्तस्यैव पर्य्यायान्तरेण कथनात् । अथोच्यते य
था
विद्वांसो न प्रतिज्ञां प्रतिज्ञासाधानयाहुस्तथा साध्यसिध्यर्थमसिद्धविरुद्धानैकान्तकादी
नपि प्रयुञ्जते ततश्चासाधनाङ्गवचनमित्यादि त्वयापि न वाच्यं
भवेदतः प्राह
विदुषामपी 9b6 ति । अनुद्दिश्याप्रमाणकं शास्त्रोपगममिति मामकीने तन्त्रे
80 सामान्यं यथा भूतं सिद्धमित्येव न प्रदर्श्यतत्यर्थः । तथाहि व्युत्थित
52a चेतसो
न परसमयव्यवस्थोपरोधमाद्रियन्ते तत्वदर्शनाध्यवसायशूराः शू111रयः ।
अप्रमाणकम्वचनं प्रमाणोपेतस्याभ्युपगमस्य विद्वद्भिरलङ्घनीयत्वात् । एतच्च
स्या
त् प्रमाणैरसमर्थितसाधनाभिधानाद्वाद्यपि जेता न भवति प्रतिपक्षस्य
निराकरणात् ॥ ४ ॥


प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधो न्या० सू० ५।२।४ 9b10 नाम
निग्रहस्थानं । गुणव्यति
रिक्तं द्रव्यमिति प्रतिज्ञा । रूपादिभ्योर्थान्तरस्यानुप
लब्धेरिति हेतुः । सोयम्प्रतिज्ञाहेत्वोर्विरोधः । यदि गुणव्यतिरिक्तं द्रव्यं रूपादिभ्ये
ऽर्थान्तरस्यानुपलब्धिर्नोपपद्यते । अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिर्गुणव्यतिरिक्तं
द्रव्यमिति नोपपद्यते ।
एतेनैव प्रतिज्ञाहेत्वोर्विरोधेन प्रतिज्ञाविरोधः स्ववचनेन
व्याख्यात
सूत्रकारेणास्योपलक्षणार्थमुक्तमेतत् । श्रमणा 10a1 प्रतिविरत
पुरुषसम्भोगा गर्भश्च नान्तरेण पुरुषसम्भोगमिति स्ववचनव्याहतिः । हेतुविरोध
एतेन
चोक्त इति वर्तते । सर्व्व पृथग् नाना नास्त्येको भाव इति यावत् । समूहे
भावसब्द112प्रयोगात् समूहवाचकघटादिभावशब्दवाच्यत्वादित्यर्थः । यस्मात्
समूह इ
ति ब्रुवाणेन एकोभ्युपगतो भवति । एकसमुच्चयो हि समूह इति । तथा हि
गवादिद्रव्याणि समुदितानि प्रतिपद्यमानेन समूहोभ्युपेयः । स चायं समूहयन्ति
81 द्र
व्याण्येतानि गवादिभावेन व्यवस्थितानीति न व्यवतिष्ठते । भेदोप्यल्पतरतमत्वेन
यत्तत्र परमाल्पं यदभेद्यं ततो निवर्त्तते यतश्चायं भेदो निवर्त्तते तदेकं । अथ म
न्यसे
यं तमभेद्यं परमाणुं मन्यसे सोपि रूपादीनां समुदाय इति । एतस्मिन्वै दर्शने ये
रूपादयः समुदितास्ते परमाणुरिति परमाणौ रूपं स कस्य समुदाय इ
52b ति वक्तव्यं ।
एवं शेषेषु गुणेषु । अथ न तं समुदायम्प्रतिपद्यसे । अष्टौ द्रव्याणि समुदितानि
परमाणुरिति शास्त्रं व्याहतं । कामेऽष्टद्रव्यकोऽशब्दः परमाणुरिति अभिधर्मकोशे
२।२२
। तस्मा
दनुपपत्तावनेकोपपत्तिरित्यतिमौढ्यं । असिद्धश्चायं हेतुः ।
यस्मादनेकविधलक्षणैर्गन्धादिभिर्गुणैर्बुध्नादिभिश्चावयवैः सम्बद्ध एको भाव
उपपद्यते । अतः
शब्दादेकार्थाधिगतौ शेषोनुसक्तो113र्थो गम्यत इति ।


ननु चायमपि प्रतिज्ञाहेत्वोर्विरोध इति प्रथमादस्याविशेषः । मैवमुभयाश्रित
त्वात् विरोधस्य । विवक्षातो
ऽन्यतरनिर्देश इति भारद्वाजे नैवोक्तत्त्वात् । प्रति
ज्ञाया दृष्टान्तविरोधो यथा व्यक्तमेकप्रकृतिकं परिमितत्वात् शरावादिवदिति
शरावादिर्दृष्टान्त ए
कप्रकृतित्वं बाधते । दृष्टान्तभूतायाः प्रकृतेः प्रकृत्यंतरत्वात् ।
एकप्रकृतित्वे वा शरावादिर्दृष्टान्तोऽयुक्तः । हेतोश्च दृष्टन्तादिभिर्विरोधो यथा
गुण
व्यतिरिक्तं द्रव्यमर्थान्तरत्वेनानुपलभ्यमानत्त्वात् । घटादिवदिति । घटादी
नाम्भेदेन ग्रहणाद्धेतुं बाधते दृष्टान्तः । आदिग्रहणेन हेतोरुपनयनिगमआभ्यां
विरोधो गृह्यते । अनयोरुदाहरणमनित्यः शब्दः कृतकत्वात् । यत्कृतकन्तदनित्यं
यथाकाशन्तथा च कृतकः शब्द इत्युपनयेन हेतोर्विरोधः । तथा ह्युदा
हरणा
पेक्षस्तथेत्युयुपसंहारो न तथेति चेति न्या० सू० १।१।३८ साध्यस्योपनय उक्तः ।
इह च विपरीतमुदाहरणमित्येतदपेक्षोपनयेन हेतोर्विरोधः । ईदृशे च प्रयोगे

स्मादनित्य इत्युपसंहारे निगमनेन । प्रमाणविरोधश्च प्रतिज्ञाहेतोर्यथाऽनुष्णो
ग्निर्द्रव्यत्वाज्जलवदिति प्रत्यक्षम्बाधते । परपक्ष 10a2 इत्यादि । एतच्च
यच्च स्वपक्षा
53a नपेक्षञ्
चेत्यादि 10a3 । एतदप्युभयम्प्रतिज्ञाहेतोर्विरोध
इत्यनेनैव सङ्गृहीतत्वात् पृथग् निग्रहस्थानत्वेन नैव वक्तव्यमिति दर्शयति ।

परपक्ष इत्यत्र परेणप्र माणे कृते कणा दोऽनैकान्तिकमुद्भावयति । स्वपक्षानपेक्षञ्चेत्यत्र
82 तु वैशेषिक एव प्रमाणङ्करोति । परस्तं व्यभिचारयतीति भेदः । यदि तर्हि
गो
त्वादिना व्यभिचारे कृते विरुद्धमुत्तरं तथा सत्यनैकान्तिको निर्विषय इत्याह ।
उभयेत्या 10a4 दि । वादिप्रतिवादिप्रसिद्ध उभयपक्षसंप्रतिपन्नः सोऽनैकान्तिकस्त
द्विषयत्वादुप
चारेण तथा च वृत्तिस्तेनानैकान्तिकचोदनेति । अत्रापी 10a3 त्यादि ।
नैतदपि प्रतिक्षिपति तदाश्रयः सा प्रतिज्ञाऽश्रयो यस्य विरोधस्य स तथा । तत्कृतो
वेति त
या प्रतिज्ञया कृतः । परिशिष्टमतिस्फुटं । व्यतिरिक्तानामपि कुतश्चित् पर्व
तादेः सकाशाद्विप्रकर्षिणाम्पिसा114चादीनां तत्रेदमेव निग्रहाधिकरणं ।
यदुत
प्रतिज्ञायाः प्रयोगः । न विरोधः प्रतिज्ञायाः निग्रहाधिकरणमिति वर्तते । किमिति ।
तदधिकरणत्वात् । प्रतिज्ञाश्रयत्वात् इत्यर्थः । यदि पु
नस्तदधिकरणो न भवेद्
83 भवेन्निग्रहाधिकरणमित्याह । यदी 10b1 त्यादि । प्रस्तावस्य वादस्योपसंहारः परि
समाप्तिस्तस्यावसानन्निमितं प्रतिज्ञाप्रयोगः । तन्मात्रेणै
वासाधनाङ्गाभिधानात्
वादिनोभङ्गात् । क्वचित्प्रस्तावोपसंहारावसरत्वादिति पठ्यते । तत्रापि
वादपरिसमाप्तेः प्रतिज्ञापदप्रयोगे सत्यवसरोऽधिकार इत्यर्थः । अथ बुद्धिर्यथा
भवद्भिः कस्यचिदर्थस्य क्षणिकत्वादिकमेकमेव साध्यं बहुभिः सत्वोत्पत्तिमत्व
प्रत्ययभेदभेदित्वादिभिर्हेतुभिः प्रतिपाद्यते तथैक

मपि दूष्यम्परोपन्यस्तं साधन
वाक्यं प्रतिज्ञोपादानद्वारेण तद्विरोधद्वारेणान्यथा वा दूष्यते । तथा च नायन्दोषः
पराजितपराजयाभावादिति । तदत्राह । ये तु हेतवः
उच्यन्ते 10b2 तेषाम्विकल्पेन
पूर्व्वहेत्वनपेक्षया । एवं वैतत् । अथवान्यथा साधयामीत्येतत् साध्यसाधनाय वृत्तेः
कारणात्सामर्थ्यमस्ति किं पुनः कारणं न समुच्चये नैव प्रयोग
इत्याह । अन्यथा
यदि
10b3 समुच्चये नैवापरहेत्वन्तरप्रयोगोभीष्टस्तदा द्वितीयस्य वैयर्थ्यात् विकल्पेन
सामान्यमिति वर्तते । वैयर्थ्यमेव प्रतिपादयति । यदि हि तत्रा
प्येकप्रयोगमन्तरेणा
परस्य प्रयोगो न सम्भवेत् । उभयप्रतिषेधेन विध्यवसायात् । यद्येकस्य प्रयोगे
ऽपरस्य समुच्चयेन प्रयोगः सम्भवेदि
त्यर्थः । तदा न द्वितीयस्य कश्चित् साधानार्थो
प्रतीतप्रतिपादनाभावात् । प्रथमहेतुप्रतिपादित एवार्थे व्यापृतत्वान्निष्पादित
क्रिये दारुणि प्रवृत्त
स्यैव दात्रादेर्न कश्चित्साधकतमत्वार्थ इति यावत् । ननु च
साधनवद्विकल्पेनैव दूषणमपि भविष्यति । एवं मन्यते । नैवं परोभ्युपगन्तुर्महति ।

वं हि तेन स्वयमेव प्रतिज्ञाया असाधनाङ्गत्वम्प्रतिपन्नम्भवेत् । ततश्चैतद् व्याह
न्यते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा न्या० सू० १।१।३२ इति ।
अन्यैरेव हेतुभिरित्यव
यविद्रव्यनिषेधकैः पूर्व्वोक्तप्रकारैः कुम्भादिशब्दस्यैक
घटाद्यवयविद्रव्यलक्षणविशेषानभिधानमनेकस्य चार्थस्य रूपादेर्यत्सामान्यमेकार्थ
84 क्रियासामर्थ्यात्म
कन्तदभिधानञ्च प्रतिपाद्य सर्व्वस्य शब्दार्थस्य रूपादेरेकार्थ
क्रियासमर्थस्य नानार्थरूपतया करणभूतया । एकश्चासौ वस्तुविशेषस्वभावश्चा
वयविद्रव्यरूपस्त
54a स्य भाव एकवस्तुविशेषस्वभावता तस्या अभावमुपदर्शयन्नास्त्येको
भाव इत्यभिद ध्याद् बौद्धो न तु रूपाणीन्द्रियार्थान् प्रतिक्षिपन् । स्यात् मती
रूपाद्यव्यतिरेकात् सामर्थ्यमप्यनेकं तत्कथन्तदेकमित्युच्यते कथं वा तस्य शब्दार्थत्वं ।
नहि स्वलक्षणं शब्दार्थ इत्युच्यते । नानाभूतमपि सामर्थ्यभिन्नवत्स्वव्यतिरेकादेकार्थ
क्रियाकारितयैकप्रत्यवम
र्षहेतुत्वात् परम्परयैकमित्याख्यायते । यथोक्तम् ।


एकप्रत्यवमर्षस्य हेतुत्वाद्धीरभेदिनी

एकधा हेतुभावेन व्यक्तीनामप्यभिन्नतेति ॥ २५

पुरुषाध्यवसायानिरोधे
न शब्दार्थत्वं तस्य व्यवस्थाप्यते । पुरुषोह्यनादिमिथ्या
भ्यासवासनापरिपाकप्रभावादन्तर्मात्राविपरिवर्तिनमाकारं बाहयेष्वेवारोप्य दृश्य
विकल्पयो
रेकत्वम्प्रतिपन्नः परमार्थतस्तु निर्विषया एव ध्वनयः । व्यक्तीनाम्विज्ञाना
कारस्य चार्थान्तरानुगमाभावेनाभिलापागोचरत्वात् । यथाध्यवसायञ्चाका
रस्य
सत्वात् । यथोक्तं सूत्रे

येन येन हि नाम्ना वै यो यो धर्मोभिलप्यते ।

न स सम्विद्यते तत्र धर्माणां सा हि धर्मतेति ॥ २६

तदयमत्र समदायार्थो रूपादी
नाङ्घटस्य च यथा क्रममनेकत्वमेकत्वञ्च वहुवचनैक
वचनाभिधयत्वात् तद्यथा नक्षत्राणि शशीत्येवमादिभिरनुमानाभासैः परेण
घटादिशब्दस्य विषयो
योयमेकार्थोऽवयव्यभिधानोभ्युपगतः स एव प्रतिक्षिप्यते । नतु
रूपरसादयः परमाणुस्वभावास्तथा हि तेषाम्प्रत्येकमेकैकात्मकत्वमिष्टमेव । केवला

स्तदातिसफलबीजवन्न समुदायमासादयन्तीति नियतसहोत्पादत्वपरिदीपनायोक्तं ॥
कामेष्टद्रव्यकोऽशब्दः परमाणुरतीन्द्रियः


54b कायेन्द्रियो नवद्रव्यो दशद्रव्योऽपरेन्द्रिय इति । २७
अभिधर्मकोशे २।२२


यथा तु परमाणूनामैन्द्रियकत्वमनित्यत्वञ्च तद्विस्तरेणोक्तमन्यत्रास्माभिः ।
यत्पुनरेतद्वहुवचनैकवचनाभिधेयत्वादिति तद्व्यभिचा
रि । तथाहि यदैकस्यामपि
85 योषिति जले सिकताद्रव्ये वा दारा आपः सिकता इति व्यवहारः । तदा किन्तत्र
बाहुल्यं येनैवं भवति शक्तिभेद इति चेत् । सर्व्वत्रोच्छि
न्नमिदानीमेकवचनमेक
शक्तेरभावात् । वस्त्वभेदादन्यत्रैकवचनमिति चेत् । इहाप्यस्तु । तदयन्निर्वस्तुको
नियमः क्रियमाणः स्वातन्त्र्यमिच्छायाः शब्दप्रयो
गे ख्यापयति । एतेन तदपि
प्रत्युक्तं यदाह कुमारिलः

तत्र व्यक्तौ च जातौ च दारादिश्चेत्प्रयुज्यते ।

व्यक्तेरवयवानाम्वा संख्यामादाय वर्तत २८
इति ॥
षण्णगरीति च कथम्वहुष्वेकवचनं । नहि नगराण्येव किञ्चित् कुतस्तेषां समाहारः ।
प्रासादपुरुषादीनां विजातीयानामनारम्भात् कुतस्तत्समु
दायो द्रव्यं असंयोगाच्च
नापि संयोगः । प्रासादादीनां परस्परसंयोगात् । प्रासादस्य स्वयं संयोगात्मकस्य
निर्गुणतयापरेणासंयोगाच्च । तत
एव च संख्याभावः । तत्संयोगपुरुषविशिष्टा
सत्ता नगरमिति चेत् । किमस्यानिरतिस115याया विशेषणं सत्तायाश्चैकत्वात्
नगरबहुत्वेपि नगराणीति बहु
वचनं स्यात् द्वयस्य परस्परसहिततेति चेत् ।
अनुपकारकयोः कः सहायीभावः । पुरुषसंयोगसत्तानां च वहुत्वान्नगरमिति कथमेक
वचनं । तथा भू
तानां क्वचिदभिन्ना शक्तिः सा निमित्तमिति चेन्न । शक्तेर्वस्तु
रूपाव्यतिरेकात् । व्यतिरेके चानुपकार्यस्य पारतन्त्र्यायोगात् । उपकारे वा श
क्त्युपकारिण्या अपि श
55a क्तेर्व्यतिरेक इत्यवस्थितेरप्रतिपत्तिः । तदव्यतिरेके अन्यासा-
मपि प्रसंग इति यत्किञ्चिदेतत् । प्रकारान्तरमप्याह । दृष्टोपदर्शन श्चै तदिति ।
किं पुनः पञ्चम्यन्त
निर्देशेपि दृष्टान्तो भवतीत्याह । कृतकानित्यत्वादि 10b7
ति
यथा येनोक्तं ।
हेतोः साध्यान्वयो यत्राभावेभावश्चकथ्यते ।

पञ्चम्या तत्र दृष्टान्तो हेतुस्तूपनयाऽ
त्मक २९
इति ॥
क्वचिदर्थे घटादिद्रव्ये विप्रतिपत्तौ सत्यां रूपादिव्यतिरिक्तमस्ति नास्तीत्यने
कस्यार्थस्य परस्परव्यावृत्तस्य नगरादेः सामान्यं षण्णगरीत्यादि
यद् बुध्यारोपितं
86 तत्र प्रसिद्धं शब्दप्रयोगमादर्श्य परस्परव्यावृत्तानामेकार्थाननुगतानां बुद्धिसमाकृते
समूहे भावशब्दप्रयोगादित्यनेन पश्चा
दुपनयेन पक्षधर्मोपसंहारमागूर्य प्रतिपादित
विप्रतिपत्तिस्थानः सन्सामान्येनोपसंहरति । सर्व्वं पृथगि 10b8 ति । प्रतिपादितं
प्रतिपत्तिस्थानम
नेनेति विग्रहः । एतदुक्तम्भवति । कपालादिव्यतिरेकेना116
वयव्यस्ति नास्तीति विवादे सत्ययं त्रिलक्षणहेतुसूचनपरो दृष्टान्त उपन्यस्तो न
हेतुः
। प्रयोगस्त्वत्रैवं क्रियते । ये परस्परव्यावृत्ता न ते व्यतिरिक्तैकावयविद्रव्यानु
गतमूर्त्तयः । तद्यथा षण्णगर्यादयः । तथा च परस्परव्यावृत्ताः कपालादय इ
ति ॥


ननु च यद्ययं दृष्टान्तप्रयोगस्तक्तिमृजुनैव तत्प्रयोगक्रमेण न प्रयुक्तो यथा
यत्सत् तत्क्षणिकं यथा घट इत्यादौ । किम्पञ्चम्यन्तनिर्देशेन । विप्रतिपत्ति

विषयश्च किन्न दर्शितः कपालादेरवयविप्रतिषेधविशिष्टः । यथान्यत्रानित्यः शब्दः
कृतकानित्यत्वादिति । चकारात् स्पष्टश्च कस्मात् हेतुः साध्यानुगतो न प्रद
55b र्शितः ।
तथाह्यत्र परस्परव्यावृत्तानामेकार्थाननुगतानां बुद्ध्या समाहिते समूहभावशब्द
प्रयोगादित्यभ्यूह्य वाक्यपरिसमाप्तिः क्रियते । अत्रोत्तरं न समासनिर्दे
शात्
संक्षेपाभिधानादित्यर्थः । एवमपि प्रयोगदर्शनात् कृतकानित्यत्वादित्यादौ ।
असाधनं वाक्यत्वाच्च साधनप्रयोगोत्प्रेक्षासूचकं वाक्यमेतत् । नत्विदं साधन
वा
क्यमित्यर्थः । अत एवेति दृष्टान्तवाक्यत्वादेवेति । यश्चायं हेतुस्तन्तुपटरूपे
भिन्नकारणे विशेषवत्वाद्रूपस्पर्शवदिति ॥ अयमपि तन्तुपटयोर्भेदासिद्धौ तदा

श्रितस्यापि गुणस्य विभागासिद्धेरसिद्धाश्रय इति नालमिष्टसिद्धये । तथा हि सूक्ष्मस्
थूलद्रव्यसमवायो विशेषवत्वं भिन्नकालोत्पन्नद्रव्यसंवाया
वेति व्याचक्षते ।


परे । ननु विचित्राभिसन्धयः योक्तारः । तत्र ये केचिद्धेत्वभिप्रायेनैव117
वाचः प्रयुञ्जते तान्प्रत्यस्माभिः प्रतिज्ञया हेतोर्बाधनमु
च्यते न तु ये दृष्टान्ताभि
मानिन इत्यत्राह नचे 10b9 त्यादि । भगव त्तथागत मतावलम्बिनामुपर्ययमु
पक्षिप्तो विरोधो भवद्भि राक्षपादै र्न च नः स्वप्न
व्ये तादृशोस्तीति पिण्डार्थः ।
स्यात् मतमस्त्येव योगाचारो यः


87

पङ्केन युगपद्योगात् परमाणोः पतङ्गतां ।

षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रक ः ॥ ३०


त्यादिना परमाणोरेकत्वमनभ्युपगच्छन्नपि पिण्डं समूहापरपर्यायमिच्छती
त्येतदुच्यते । योपी 11a1 त्यादि किन्तर्ह्यभाव एवाणोरनेन प्रकारेण साधयितु

मिष्टः । कथं । एकानेकप्रतिषेधात् । पङ्कायोगादिना तावदेकत्वं प्रतिसि118द्धं ।
तत्समुदायरूपमनेकत्वमपि तदभावादेव न विद्यते । यथोक्तन् ननु
तस्य तस्यै
56a कता नास्ति यो यो भावः परीक्ष्यते ।

न सन्ति तेनानेकेपि येनैकोपि न विद्यत ३१
इति ॥
ननु
पङ्कयोगादिना कथमेकत्वमपोदितं । यावता तत्र तस्य सावयव
त्वमापादितं ॥ त एव चावयवास्तस्याल्पीयांसः परमाणवो वि
भागपर्यवसानलक्ष
णत्वात् परमाणूनां । अथ तेषामप्यङ्गानामनेनैव विधानेन सावयवत्वमापाद्यते । तथा
सति तत्राप्येतदेवोत्तरमित्यनेनैव प्रकारे
ण न शक्यते परमाणोरेकत्वनिषेधं कर्त्तु ।
विभागस्य विभज्यमाण119तन्त्रत्त्वात् । कथञ्चानभ्युपगताणुस्तस्य पङ्कयोगा
दिकमभ्युपगच्छतीति त
दसत्वप्रतिपादने सर्वे हेतवः स्वत एवाश्रयासिद्धा इति ।
एतच्च नैवं यस्मात्समर्था वादिनोऽपगतावयवविभागमासादितापकर्षयन्तं
भाव
मणुरित्याचक्षते तस्य तेन पङ्कायोगादिनैकत्वमपाक्रियते । ते च यद्येवं
निराकृताः सन्तो यथोपगतस्य सावयवत्वं प्रतिपद्यन्ते तदा स्व
प्रतिज्ञायाश्च्यवे
रन् । न हि अनङ्गीकृतसावयवत्वास्तथा प्रत्यवस्थानमर्हन्ति । त एवावयवाः सन्तु
परमाणव इति । तैरेव च तल्लक्षणम्व्यवस्थापनीयं योगाचा
रे
ण च निषेध्यमिति
निगृह्यन्ते । अत एव नानवस्था । प्रसङ्गसाधनत्वाच्चासिद्धतादोषोपि नास्तीत्यल
मेतेन । अथोच्यते न वयं भवन्तं प्रतीदं ब्रूमो यस्तु कश्चिदधौ
तपादो वाद्येवं
88 प्राह तम्प्रतीति । तच्चासत्सर्व्वं पृथग्भावलक्षणपृथग्त्वात् नानेकलक्षणे
नैकभावनिष्पत्तेरित्यत्र प्रस्तावे भारद्वाजे नास्मान्प्रत्येव कामेष्टद्रव्य
56b
इत्यादिना
सिद्धान्तमस्माकीनमुपक्षिप्याप्यभिधानात् । तथाप्यभ्युपगम्य दोषान्तरमाह । न
चायम्पूर्वकाद् गुणव्यतिरिक्तमित्यादिपदसूचितात् परस्परार्थमा
धाय भिद्यते ।
हेतुप्रतिज्ञयोः सम्बन्धिन्योः बाधयोरुदाहरणोपेतयोः पृथग्बाधोदाहरणयोर्न कश्चि
दर्थभेदः शब्दभेदस्तु केवलः । तथाविधस्य च पृथगुदा
हरणेऽतिप्रसङ्गोऽकृतकः
शब्दः कृतकत्वादित्याद्यप्युदाहर्त्तव्यम्भवेत । सह पृथग्वेति क्वचित्पाठः । तत्राय
मर्थः सह यौगपद्येन यथा प्रथमे पृथक् प्रत्येकं । य
थेह अथवा विरोधचिन्ताप्यत्रा
युक्तेत्याह अपिचे 11a5 त्यादि । सर्व्वं पृथक् समूहे भावशब्दप्रयोगा
दित्ययं हेतुः । सर्व्वस्य धर्मिणो धर्म एव न भवति शब्दधर्म
त्वादित्यसिद्धः ।
तथा च व्यधिकरणत्वादसिद्धतैव दोषो गुडो मधुरः काकस्य कार्ष्ण्यादिति यथा ।
तत्र न विरोधो भिन्नाधिकरणत्वाद्धेतुप्रति
ज्ञार्थयोः । स्याद् बुद्धिः समूहवाचक
शब्दवाच्यत्वादित्येवं भाविविक्तेन भाष्यटीकायां प्रयोगाद् व्यधिकरणत्वं नास्ति ।
एवं मन्यते न तावदय मु
द्योतकरे
णैवं प्रयुक्तस्य वायमस्माभिर्दोषोभिधातुमारब्धो
येपि सम्प्रत्यन्यथा प्रयुञ्जते तेषामपि यद्ययं दोषो न भवति । भवतु अनन्तरोक्तस्तु
दोषो वक्ष्य
माणश्च ब्रह्मणाऽपि न शक्यते परिहर्तुमिति । प्रतिज्ञाहेत्वोर्विरोधस्य च
निग्रहस्थानान्तरत्वमङ्गीकृत्य मयेदमभ्यधायि । न त्वस्य तद्युक्तं । हेत्वाभासा
श्च निग्रह
स्थानानी
न्या० सू० ५।२।२४ त्यनेनैव सङ्गृहीतत्वादित्येतद्विभणि
षुराह । अपिचे 11a5 त्यादि । द्वाववयवौ यस्या दोषजातेर्दो
57a षप्रकारस्य सा द्वयी ।
कामित्याह । विरुद्धतामसिद्धताञ्च । कथम्पुनर्विरुद्धतेत्याह । विरुद्धतेत्यादि । अयमत्र
संक्षेपार्थः । प्रतिज्ञाहेत्वोर्यत्र प्रयोगेंविरोधश्चोद्यते तत्रा
वश्यं सिद्धेन धर्मिणा भाव्यं ।
सिद्धे च तस्मिन्धर्मणि120हेतोर्वा सत्वम्भवेत् साध्यधर्मस्य । द्वयोर्वा । तत्र न
तावत् द्वयोरपि सत्वं प
रस्परविरोधित्वेन शीतोष्णयोरिव एकाधिकरणत्वाभावात् ।
अन्यथा सहैकत्रावस्थानाद्रसरूपवदविरोध एव भवेदिति प्रतिज्ञाहेत्वोर्विरोधो दूरतर
एव
प्रसज्यते । तद्वक्ष्यति । विरुद्धयोः स्वभावयोरेकत्रासम्भवान्न चान्यथा विरोध
इति । अथ हेतोस्तत्र सत्वं । एवमपि यत्र हेतुस्तत्र न साध्यधर्मस्तद्विप
र्ययस्तु विद्यत
89 इति व्यक्तमस्य विरुद्धत्वं । नित्यः शब्दः कृतकत्वादिवत् । तदाह विरुद्धता
सिद्धेर्हेत्वोर्धर्मिणि भाव
11a6 इति । यदा पुनस्तस्मिन्धर्मिणि प्रमा
णान्तरेण
साध्यधर्मस्य सत्वं निश्चितं तदा तत्र हेतोरवृत्तिर्विरोधिना क्रोडीकृतत्त्वात् ।
अतश्चासिद्धत्वं हेतोः । कृतकः शब्दोऽकार्यत्वादिति यथा । तज्जा
ते असिद्धता
पुनर्द्धर्मिणीत्यादि । अथमन्यसे । प्रमाणेन सिद्ध एव गुणव्यतिरिक्ते द्रव्यादौ
धर्मिणि प्रतिज्ञाहेतोर्विरोधो व्यवस्थाप्यते ततो नायं दोष इत्य
त इदमासङ्कते121असिद्ध 11b8 इत्यादिना । एवमपि यदि नाम धर्म्यभावेन
पक्षधर्मस्यासम्भवात् विरुद्धत्वं परिहृतं । असिद्धत्वं पुनस्तदवस्थमेवेति मनस्या

धायाह । प्रमाणयोगे तूभयोर्वादिप्रतिवादिनोर्धर्मिणि हेतोर्वृत्तिसंशयः । प्रमाण
निवृत्तावप्यर्थाभावासिद्धेः । अतश्चासिद्धतैव सन्दिग्धाश्रयत्वात् । इह नि
57b कुञ्जे
मयूरः केकायितत्त्वादित्यादिवत् । तु शब्दः प्रतिपादकप्रमाणायोगे धर्मिणः
सन्दिग्धाश्रयताहेतोर्धर्मिबाधकप्रमाणवृत्तौ स्फुटमेवाश्रयासिद्धतत्वं । सर्व्वगत आ
त्मनि
साध्ये सर्वत्रोपलभ्यमाण122गुणत्ववदित्यस्य समुच्चयार्थः । तथा ह्यसिद्धेः
धर्मिस्वभाव इत्यत्र प्रतिपादकप्रमाणावृत्तेरसिद्धो धर्मी विवक्षितः स्यात् ।
90 बाधक
प्रमाणवृत्तेर्वा । पूर्वस्मिन्पक्षे कण्ठेनैवोक्तो दोष उत्तरत्र शब्देन समुच्चितः ।
अत्रौद्योतकरमुत्तरमाशङ्कते । उभयाश्रयत्वा 11a9 दित्यादिना । गतार्थत्वात्
सुज्ञानं
सर्व्वमेतत् । न सर्व्वत्रेत्यादिना निराकरोति । यथोक्तं प्राग् न द्वयीं दोष
जातिमित्यत्र । अथ प्रतिज्ञामात्रभाव्येव हेत्वनपेक्षः प्रतिज्ञाविरोधो व्यवस्था
प्यते
यथा नास्त्यात्मा श्रमणा गर्भिणीत्यत्रेत्यत आह अनपेक्षे च हेतुग्रहणमसम्वद्धं
11b3 । अनुपकारकत्वात् । यदपीदं हेतुविरोधस्योदाहर
णं दत्तं नित्यः शब्द
इत्यादिना तत्प्रतिज्ञाविरोधस्य हेतुनायुक्तमिति कथनायाह । न चेदि 11b3
त्यादि
। स्यात् मतमुभयाश्रयत्वाद्विरोधस्यैवमपि न हेतुत
एवेत्यत उच्यते
उभयाश्रयेपी 11b4 त्यादि । एवमुपदर्शितान्युदाहरणानि प्रक्षिप्यातिदिष्ट
दूषणायाह । यच्चोक्तमेतेन प्रतिज्ञायाः दृष्टान्तविरोधादयोपि
वक्तव्या भण्डा
लेख्यन्या
येने 11b5 ति । इति शब्दो वक्तव्य इत्यत्र प्रतिपत्तव्योऽन्यथापरे
णोत्तरस्याप्रयुक्तत्त्वात् दुःश्लिष्टो भवेत । भण्डग्रहणन्नित्यपुरुषोपलक्षणार्थं ।
यथा हि भण्डा प्राकृतान् विस्मापयन्तश्चित्रलक्षणोपेतकपिशालभञ्जिकादिप्रति
च्छन्दकमालिख्य विचित्रशिल्पकलाकौशलसादि123नोऽतिदि
58a शंत्येवं प्रका
राण्यप्यस्मत्कौशलनिर्मितान्येकतालमात्रेण हस्त्यादिरूपकस्थानानि प्रतिपत्तव्या
नीति तथा जातीयकमेतदु द्योतकरस्य । तथा ह्येतदेव भाव उप
दर्शितहेतुविरोधा
दिकं हेत्वाभासव्यतिरिक्तलक्षणोपेतं । तदतिदिष्टे पुनः कैव चिन्ता । तामेव चाति
दिष्टस्य दृष्टान्तविरोधादेर्हेत्वाभासव्यतिरिक्त
लक्षणापेततामभिधातुमुपक्रमते ।
तत्रापी 11b5 त्यादिना । यत्र प्रतिज्ञायाः दृष्टान्तविरोधस्तत्रापि पक्षीकृतधर्मवि
पर्ययवति दृष्टान्ते सति विरोधः स्यात् प्र
तिज्ञायाः दृष्टान्तेनेति शेषः । पक्षीकृतश्चा
91 सौ धर्मश्च तस्य विपर्ययः स विद्यते यस्मिन्निति विग्रहः । दृष्टान्त इति च साधर्म्यदृ
ष्टान्तो । अभिप्रेतः । यस्मा
द्वैधर्म्यदृष्टान्तः साध्यधर्मविपर्ययवानेव तत्र को विरोधः ।
तत्रोदाहरणं । नित्यः शब्दो घटवदिति । विरुद्धे च दृष्टान्ते सति यदि पक्षधर्मस्य वृत्ति

रनन्यसाधारणा प्रसाध्यते प्रमाणेन विरुद्धस्तदा हेत्वाभासः । नान्यसाधारणेत्यनन्य
साधारणा । अन्यशब्देन पक्षीकृतधर्मविपर्ययवतः
पृथग्भूतः पक्षीकृतधर्मवानभि
प्रेतः पक्षीकृतधर्मविपर्ययवत्येववर्तते इत्येवं यदि साध्यत इत्यर्थः । यथानयोरेव
साध्यदृष्टान्तयोः कार्यत्वादि
ति तद्विपक्षीकृतधर्मबहिर्व्योमादौ न वर्तते तद्विपरीते
पुनर्घटे वर्तत इति । साधारणायाम्वृत्तौ साधितायां सपक्षविपक्षयोरिति शेषः । अनै
कान्तिकः
साधारणाख्यः । यथानयोरेव साध्योदाहरणयोः प्रमेयत्वादिति । अप्रसा
धिते चातद्वृत्तिनियमे तयोः सपक्षविपक्षयोर्वृत्तिनियमे सपक्ष एव वर्त्तते वि
58b पक्ष
एवेति अनैकान्तिक एव सन्दिग्धान्वयः सन्दिग्धव्यतिरेको वा । यथा सर्व्वविद्वीत
रागो वा विवक्षितः पुरुषो न वा तथा वक्तृत्वाद्रथ्यानरवदिति । तयोरेव सपक्ष

विपक्षयोरवृत्तौ वा सत्यामसाधारणः । नित्यः शब्दः श्रावणत्वादिति यथा । परः प्राह
विरुद्धदृष्टान्तावृत्तौ हेतोर्विपर्ययवृत्तौ च सत्यान्न कश्चिद्धेतुदोषः
तद्यथाऽनित्यः
शब्दः प्रत्ययभेदभेदित्वात् नभोवदिति साधर्म्येण । वैधर्म्येण च घटवदिति । अत्र
नासिद्धत्वं धिर्मणि हेतोः सद्भावात् । नाप्यनैकान्तिकत्वमुभ
यत्रावृत्तेः ।
प्रतिबन्धसद्भावाच्च । न च विरुद्धत्वं सपक्षविपक्षयोर्वैपरीत्येन वृत्यभावात् ।
दृष्टान्तेन तु विरोधः प्रतिज्ञायाः इत्ययं हेतुदोषानति
क्रान्तो विषयः प्रतिज्ञायाः
दृष्टान्तेन च विरोधस्येति । इदमपनुदति । न । तदापि संशयहेतुत्वानतिवृत्तेः ।
यस्माद् दृष्टान्ते न प्रतिज्ञाया विरोधः सा
धर्म्ये दृष्टान्ते दोषो न वैधर्म्ये । कस्माद
भिमतत्वाद् विरोधस्य । पक्षीकृतधर्मविपर्ययवानेव हि वैधर्म्यंदृष्टान्त उच्यत इत्य
भिप्रायः । यदि ना
मैवं तथापि कथं हेत्वाभासानतिवृत्तिरित्याह साधर्म्यदृष्टान्ते
च विपरीतधर्मवति नभसि नाऽव्यभिचारधर्मता शक्या दर्शयितुँ । तदर्थश्च दृष्टान्तः
प्रदर्शते ॥
यदाह
92
त्रिरूपो हेतुरित्युक्तं पक्षधर्मे च संस्थितः ।

रूढे रूपद्वयं शेषं दृष्टान्तेन प्रदर्श्यत ३२
इति ।
ननु च कथमशक्या यावता प्रत्ययभेदभेदित्वमनित्यत्वाव्यभि
चार्येव तत्वत
इत्यत आह । वस्तुतः साध्याव्यभिचारेपी 11b7 ति । विद्यमानोप्यव्यभिचारः
प्रमाणेनाप्रतिपादितत्वादसत्कल्प इति भावः । तदेतन्नाप्रदर्शितावि
59a नाभावसम्बद्धा
द्धेतोः साध्यनिश्चयः । तत्तस्मान्न प्रतिज्ञाया दृष्टान्तविरोधोपि हेत्वाभासानतिवर्तते ।
अस्यापि तदानीं संदिग्धविपक्षव्यावृत्तिकत्वादित्यागूरितं
। न केवलहेतुविरोध
इत्यपि शब्दः परमतमास124ङ्कते । उभयथापि हेतुद्वारेण दृष्टान्तद्वारेण च । न
हेतुद्वारेण प्राग्दृष्टान्तदोषात् प्रसङ्गेन पराजितस्य वादि
नो दोषान्तरस्य दृष्टान्त
विरोधस्य वाच्यस्य वानपेक्षणात् पराजितपराजयाभावादित्याकूतं । विशेषेण साध
नावयवानुक्रमवादिनो नैयायिकस्य स हि
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामानु
पूर्वीं प्रतिपन्नः । कः पुनः तस्यातिशय इत्याह । उदाहरणसाधर्म्यमि 11b9
त्यादि । अङ्गीकृत्य चेदमवादि
न तु दृष्टान्तविरोधो हेत्वाभासरूपासंस्पर्श्यस्ति ।
यथोक्तमनन्तरमिति । एतेन विकल्पतो दोषविधानं प्रत्युक्तं । एवन्तावद्व्यवस्थित
मेतद्यथा प्र
तिज्ञाया दृष्टान्तविरोधो हेत्वाभासान्नातिवर्तत इति । यत्पुनरुदाहृत
मविद्धकरणेन भाष्यटीकायां व्यक्तमेकप्रकृतिकं परिमितत्वाच्छरावादि
वदिति ।
तत्रापि विरुद्धो हेतुः परिमितत्त्वस्य हेतोः सपक्षेऽभावे वा वृत्तेः । विपक्षे चानेकप्रकृति
के शरावादौ वृत्तेः । मृदः प्रतिक्षणं प्रत्यवयवञ्च भिद्य
मानत्वात् । संप्रति हेतोरपि
दृष्टान्तेन विरोधो हेत्वाभासान्तर्गत इति कथयति । हेतोरपि दृष्टान्तविरोधे
सत्यसाधारणत्वमुभयत्रावृत्तेः । विरुद्धत्वम्वा । कदा
विरुद्धत्त्वमित्याह । वैधर्म्ये
यदि स्यादप्यत्रोदाहरणमुक्तं तेनैव गुणव्यतिरिक्तं द्रव्यमर्थान्तरत्वेनानुपलभ्यमा
नत्वाद् घटवदिति अत्रापि दृश्यत्वे सतीति
59b हेतुविशेषणे विरुद्धः सपक्षे अवर्तमान
त्वात् । विपक्षे च रूपादीनां स्वरूपे वर्तमागत्त्वात् । विशेषणानुपादाने तु व्यभिचारो
93 र्थान्तरत्त्वेनानुपलब्धानामपि पि
शाचादीनां परस्परव्यतिरेकित्वात् । न चात्र घट
वदिति दृष्टान्तो युक्तस्तस्यैव द्रव्यान्तरत्वेन पक्षीकृतत्वात् । तस्य रूपादिभ्यो भेदेन
ग्रहणं पूर्व्वमेव प्रतिसि125द्धं
ग्रहणे चासिद्धो हेत्वाभास इत्यस्मन्मतमेव
स्थितं । अथ हेतोः प्रमाणविरोधे को हेत्वाभास इत्याह । असिद्धोग्नेः शैत्यस्या
विद्यमानत्वात् । यत्पुनरत्रो
दाहरणमन्यदनुष्णोग्निर्द्रव्यत्वाज्जलवदिति तदयुक्तं ।
नहि प्रत्यक्षं द्रव्यं हेतुं बाधते । तस्य धर्मिणि सिद्धत्वात् । किन्तु प्रतिज्ञार्थमनुष्णत्वं ॥

अथ प्रतिज्ञार्थस्य प्रत्यक्षेण बाधितत्वाद्धेतोस्तेन व्याप्तिर्न्नास्तीति हेतोः प्रमाणविरोध
उच्यते । एवन्तर्हि विरुद्धेन साध्यधर्मेणाव्याप्तेः सन्दि
ग्धव्यतिरेको हेत्वाभास
इत्यस्मत्पक्ष एव समर्थितः ।


हेतोःप्रमाण126विरोघस्य हेत्वाभासानतिक्रमात् ॥ ३३

तदुक्तम्


प्रत्यक्षादिविरोधा ये व्याप्तकालो
पपातिनः ।

ते सर्वे न विरुद्धेन व्याप्तिधर्मेण युञ्जत ३४ इति ॥

स्यान्मतम्प्रतिज्ञायाः प्रमाणविरोधस्तन्मात्रभावित्वाद्धेत्वाभासेऽन्तर्गमयितुं न
पार्यत इत्यत आह ।
प्रतिज्ञायाः प्रमाणविरोधः स्ववचनविरोधेन व्याख्यातः 12a2
कृतप्रतिक्रियस्तत्रेदमेव निग्रहाधिकरणमसाधनाङ्गभूतायाः प्रतिज्ञायाः साधनवाक्ये
प्र
योग इत्यादिना । इति तस्मात् सर्व्व एवेत्युपसंहरति । यत्तु विरुद्धमुत्तरमिति
पूर्व्वपक्षोक्तमपरमुपक्षिपति तदसम्बद्धमेव । यस्माद्यदि ही 12a3 त्यदि । अनि
60a त्यः
शब्द ऐन्द्रियकत्वाद् घटवदित्येकं बौद्धेनान्येन वा कृते मीमांसकः काणादोन्यो वा
स्वपक्षसिद्धेन गोत्वादिना सामान्ये
न परस्य साधनवादिनो बौद्धस्य हेतोर्व्यभिचार
सिद्धिमाकांक्षेत गोत्वमप्यैन्द्रियकं तदपि भवतोऽनित्यं प्रसज्यत इत्येव यदि परं प्रत्ये
94 वाध्यारोप्याभिदध्याद् व्यभि
चारं तदा तस्य बौद्ध स्य तत्सामान्यमैन्द्रियकं नित्यञ्च
स्वपक्षविरुद्धं नित्यपदार्थानभ्युपगामान्नाभिमतमतश्च कथं व्यभिचार इति
विरोधो व्याहतिरयुक्तत्त्वमिति
यावत् युज्यत उत्तरस्येत्यध्याहर्तव्यं । न तु पुनरेव
मसौ परस्येवोपरि भारमुपक्षिप्य व्यभिचारमुद्भावयति तत्कथमुत्तरस्य विरोधः
यतः स
ह्युत्तरवादी स्वयं प्रतिपन्ने नित्यत्वेन गोत्वे हेतोरैन्द्रियकत्वस्य वृत्तेः संश
यानः सन् किङ्घटवदैन्द्रियकत्वादनित्यः शब्दो भवतु किम्वा गोत्वा
दिवन्नित्य इत्य
प्रतिपत्तिमनिश्चयमात्मनस्तथा ब्रुवाणः ख्यापयति सत्पक्षे खल्वेन्द्रियकमपि गोत्वं
नित्यं तस्मादयं सांप्रत्यनैकान्तिक इती
त्थमात्मीयमेवाभ्युपगमं पुरस्कृत्यानेकान्त
ञ्चोदयति । ततः साध्विवोत्तरमिति समुदायार्थः । स्यात् मतम्बौद्धस्य नास्त्येव
गोत्वं नित्यं ततो व्याहतमेवोत्तर
मित्यत आह । स च हेतु 12a5 रैन्द्रियकत्वादिति
सत्यसति वा गोत्वे परमार्थतः । अप्रसाधितसाधनसामर्थ्यः सन् विपर्यये बाधक
प्रमाणावृत्या संशयहेतुत्वाद
नैकान्तिक एव । अप्रसाधितं साधनाय सामर्थ्यं साध्या
विनाभावित्वलक्षणमस्येति विग्रहः । साधनशब्दो भावसाधनः । यदा तु बाधक
प्रमाणबलेन हेतोरवि
60b नाभावं सर्व्वोपसंहारेण साधयति यत्किञ्चिदिन्द्रियज्ञानग्राह्यं
स्वनिर्भासज्ञानजनकत्वात्तत्र सर्व्वमनित्यं नित्यत्वे सर्व्वदा तद्विषयं ज्ञानं प्रसञ्जते न
वा कदाचिदपि
तथाहि ।

स्वात्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् ।

अथवाऽशक्तं कदाचिच्चेदशक्तं सर्वदैव तत् ॥ ३५

तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता ।

नित्यत्वादचिकित्स्य
स्य कस्तां क्षपयितुं क्षम ३६
इति ॥


तदानीं गोत्वादीनामपि नित्यानामेकप्रघटेन इव पाटितत्वात् गोत्वे हेतोर
वृत्तेर्न संशय एव भवति । एतेने 12a6 त्यादि सुज्ञानं । तत्रा
प्यनैकान्तिकहेत्वा
भासत्वानतिवृत्तिरिति संक्षेपः । तत्संशयहेतुत्वमुखेनानैकान्तिकत्वमसमर्थिते सति
हेतौ । अन्यत्रापी त्येकपक्षप्रतिपन्नेपि
वस्तुनि तुल्यमिति नोभयसिद्धेतरयोर्वस्तुनोरनै
कान्तिकत्वविशेषः । यथा कथितमनन्तरमेव । स च हेतुः सत्यसति वेत्यादिना । इतर
95 देकपक्ष
प्रतिपन्नमनैकान्तिकविषयत्वाच्चानैकान्तिकमिति व्याख्यातं । स्याच्चित्तन्ना
निष्टेर्दूषणं सर्व्वप्रसिद्धस्तु द्वयोरपि साधनं । दूषणम्वेत्येतत्कथमेवन्न
व्याहन्यत इति
तच्च नैवं । निश्चितदूषणाभिसन्धिवचनात् । तत एव तदनन्तरमाहान्यः पुनः साध्य
त्वमीक्षत इति । एतत्तु स्यात् । तदा द्वयोरेकस्यापि न जय
पराजयौ । यदप्युक्त मुद्योत
करेण
प्रतिज्ञाविरोधसूत्रमेव विवृण्वता दृष्टान्ताभासा इत्यादि तदप्यवयवान्तरवा
दिनो नैयायिकस्यायुक्तं । बौद्ध एवैवं ब्रुवा
णः शोभत इत्यभिप्रेतं तद्वचनेन हेत्वा
भासवचनेन गम्यमानस्य दृष्टान्ताभासस्य तस्माद्धेतोः सकाशात् सा
61a धनान्तरत्वा-
भावप्रसङ्गात् । दृष्टान्तस्येति शेषः ।


ननु च दृष्टान्ताभासानां हेत्वाभासेष्वन्तर्भावेऽतिदिष्टे हेतोर्दृष्टान्तेऽवयवान्तरं
न प्राप्नोतीति वचन
मसम्बद्धमेवेत्यत आह । दृष्टान्ताभासाना मि 12a9 त्यादि ।
अयमस्य प्रयोगो मनसि विजृम्भते । यद्यतोऽर्थान्तरभूतं न तदाभासवचनेन तदाभास
वचनं न्याय्यं
न च तदाभासेषु तदाभासानामन्तर्भावः । तद्यथा प्रत्यक्षाभासानाम
नुमानाभासेषु । तथा च भवतो हेतोर्दृष्टान्तोर्थान्तरभूत इति व्यापकविरुद्धोप
लब्धिः
अतोऽवश्यं दृष्टान्तस्य हेतावन्तर्भाव एष्टव्यः । तत्र च न दृष्टान्तः पृथक्
साधनावयवः स्यात् । अपृथग्वृत्तेः एकव्यापारत्त्वादित्यर्थः । एतदेव व्या
चष्टे यो
दृष्टान्त
12b1 इत्यादिना । एवं प्रतिज्ञाहेत्वोर्विरोधस्य प्रपञ्चस्य हेत्वाभासैः
सङ्गृहीतत्वान्न पृथग्वचनं कर्त्तव्यमित्यभिधायाधुना प्रतिघहा
न्यादीनामपीयमेव
गतिरित्यावेदनायाह । अपि चे 12b1 त्यादि । पूर्व्वपक्षवादिग्रहणमुत्तरपक्षवादि
96 नोऽज्ञानादीनि हेत्वाभासस्पर्शानि संतीति
कथनार्थं । तत्सम्बन्धीनीति हेत्वाभास
पूर्व्वपक्षवादिसम्बन्धीनि वा । अथोच्यते । अर्थान्तरगमनादीनां हेत्वाभासासंस्पर्शित्त्वा
न्नतेस्व127न्तर्भाव इ
ति । तच्चासत् । अर्थान्तरगमनादेरपि हेतोरस
मर्थ एवमतिसम्भवात् । कुतः असमर्थस्य न्यायबलेन साध्यप्रतिपादने वादिन इति
शेषः । मिथ्याप्रवृ
त्तेरर्थान्तरगमनादिनेत्यभिप्रायः ॥ ४ ॥


उत्तरः पश्चाद् फलभावी स चासौ प्रतिज्ञासन्यासश्च तस्यापेक्षया किन्न किञ्चि
दित्यर्थः । अशक्तः परिच्छेदः सं
61b ख्ये येषां क्लीवप्रलापचेष्टितानां तानि तथा क्लीवा
दीनां प्रलापा येषां वादिनान्तेषां चेष्टितानि प्रतिज्ञासंन्यासादीनि वै किमुपन्यस्तैः
पुनरेवं सति दोष इत्याह । एवं ह्यतिप्रसङ्गः 11b6 स्यात् । एवमाद्यपीति
मूर्च्छावेपथुत्रसत्त्वादीनामादिशब्देनावरोधः । तस्मादेतदप्यसम्बद्धं विद्वत्सदस्येवं
प्रकारस्य स्थूलत्वादित्त्याभिप्रायः तदत्र भाविविक्तः स्वयमाशंक्य किल प्रतिविधत्ते
स्थूलत्वेनेदं निग्रहस्थानमिति चेत् । प्राश्निकप्रतिवादिसन्निधौ प्रतिज्ञातार्थापह्नव
97 ङ्करोतीति । असम्बद्ध
मुच्यते तन्नाभिप्रायापरिज्ञानात् । न ब्रूमो ध्वंसी शब्द इति
किन्तु संयोगविभागाभ्यां न व्यक्त इत्ययं प्रतिज्ञातार्थ इत्याह सामान्यस्य च स्वाश्रय
व्यङ्ग्य
त्वात् विवादाभाव इति । निग्रहस्थानन्तु पूर्वमप्रतिज्ञातार्थत्वात् । अनैकान्ति
कदोषेण प्रतिषेधे हेतौ प्रतिज्ञातार्थापह्नवङ्करोतीति निगृह्यत इति
तत्रवाच्यं
यदि वादी साकांक्ष एवान्तराले केनचिद् दुर्व्विदग्धेनानैकान्तिकदोषेण चोदितः
सन्प्रतिज्ञातार्थफलीकरणेन स्वाभिप्रायमाविष्करोति । तदा
न्योपि न कश्चि
द्दोषः । किमङ्ग पुनः प्रतिज्ञासंन्यासः । अथ निराकांक्षः सन् पश्चाच्चोदितः
प्रतिज्ञां विशिनष्टि । तदप्यनैकान्तिकदोषेणैव निगृह्यत इति कि128मुत्तरप्रतिज्ञा
संन्यासापेक्षयेति न किञ्चित्परिहृतं किञ्च स्फुटमिदं प्रतिज्ञान्तरेन्तर्भवतीति नः
पृथग्वाच्यमिति ॥ ४ ॥


अविशेषोक्ते हेतावि त्यादि सूत्रं
अत्र निदर्शनमुदाहरणमित्यर्थः । कापिलः
प्रमाणयति प्रधानसिद्धिप्रत्याशया । एकप्रकृतीदं व्यक्तं व्यक्तादिपरिमितत्वाद् घटश
रावादिवदिति । एका प्र
62a कृतिरस्येति विग्रहः । प्रकृतिरुपादानकारणं । या च
किल सा प्रकृतिर्विकारग्रामस्य तत्प्रधानमितीयमलीकप्रत्यासा129साङ्ख्यस्या
98 परिमाणञ्चतुरस्रम्परिमण्डलमित्यादि । मृत्पूर्व्वकाणामित्यन्वयमाह । अस्य हेतो
र्व्यभिचारेण प्रत्यवस्थानं प्रतिवादिना क्रियते । नानाप्रकृतीनाङ्गवाश्वादीनामेक
प्रकृतीनाञ्च कुम्भोदञ्चना
दीनान्दृष्टम्परिमाणमित्येवं प्रत्यवस्थिते सति प्रति
वादिनि । यदि वा प्रत्यवस्थितः प्रतिषिद्धः प्रधानवाद्याह । एकप्रकृतिसमन्वये सति
परिमाणदर्शना
दिति सविशेषणत्वाद्धेतोर्व्यभिचाराभाव इति मतिः । कथं पुनरेकप्र
कृतिसमन्वय इत्याह । सुखदुःख मोहसमन्वितं हीदं व्यक्तं परिमितं गृह्य
ते । सर्व्वत्र
तत्कार्यदर्शनादित्याकूतं । तथाहि सुखबहुलानाम्प्रसादलाघवप्रसवाभिष्वङ्गाद्धर्ष
प्रीतयः कार्यं । रजोबहुलानां शोषतापभेदस्तं
भोद्वेगापद्वेषाः । तमोबहुलानां साव
रणमादनायध्वंसवीभत्सदैन्यगौरवाणि । एतानि च सर्व्वाणि सर्व्वत्रैव यथोत्कर्षाप
कर्षभेदमुपलभ्यन्ते । त
स्मात्त्रैगुण्यप्रकृतीदं विश्वं । तदिदमित्यादिना निग्रहस्थानत्वे
कारणमाह । अत्रापी त्याद्यस्य प्रतिषेधः सुज्ञानः । अविरामादच्छेदादपरिसमाप्त
त्वात्
साधनाभिधानस्येत्यर्थः ॥ ० ॥


यथोक्तलक्षण इत्येकाधिकरणौ विरुद्धौ धर्माविति पक्षप्रतिपक्षलक्षणं स्म
रयति । परिग्रहे वादिप्रतिवादिभ्यां कृते सति हेतुतः
साध्यसिद्धौ प्रकृतायां
हेतुवसा130त्साध्यसिद्धिरित्येतस्मिन्प्रकरणे सति प्रकृतोर्थः शब्दनित्यत्वं । तेना
सङ्गतत्वात् । तदसम्बद्धत्त्वात्तदनुपकारकत्वादित्यर्थः तथा
62b हि विनापिरूपसि
द्ध्या प्रातिपदिकादिव्याख्यानं यथा कथञ्चित्प्रतिपादितादर्थादेवार्थः सिध्यति ।
न्याय्यमेतदिति स्वमतेनाविरुद्धत्वादभ्यनुजानाति । कदा च पूर्वो
त्तरपक्षवादिनो
र्न्याय्यं निग्रहस्थानमित्याह । प्रतिपादिते दोषे सति वादिप्रतिवादिभ्यामन्यो
न्यमसाधनाङ्गवचनमेतददोषद्भावनञ्च भवेदिति अन्यथा न ह्य

99 योरेकस्यापि जयपराजयावित्युक्तं । प्रकृतं परित्यज्येति न्याय्यतामेवास्य
प्रतिपादयति । प्रकृतमत्र साध्यसाधनहेत्वभिधानं तदकृत्वेति उपन्यस्ते दोषे

समर्थनं । अपरस्य 13a7 रूपसिध्यादेः । अतन्नान्तरीयकस्यापीति । उपन्यस्त
सावनसमर्थनाङ्गस्येत्यर्थः । अपरस्य नामादिव्याख्यानादेरुपक्षे
पः पराजयस्थान
मिति वर्त्तते ॥ ४ ॥


वर्णक्रमनिदेशन्निरर्थकं न्या० सू० २।१।८ यत्र वर्णा एव केवलं क्रमेण
निर्दिश्यन्ते । न पदन्नापि वाक्यं । अर्थान्तरे किलाप्र
कृतार्थकथनमिह वर्णमात्रोच्चा
रणमिति शेषः ॥ असम्वद्धतामेवाह । नहि वर्ण्णक्रमनिर्देशादेव 13a9 केवलादानर्थ
क्यमपि तु यदेव किञ्चिदसाध
नाङ्गस्यासिद्धविरुद्धादेः शब्दरूपसिध्यादेश्च वचन
न्तदेवानर्थकं । किं कारणं । साध्यसिद्ध्युपयोगिनोऽभिधेयस्याभावात् । साध्यसिद्ध्यु
पयोगिनोऽभावे
पि कस्यान्यत्प्रयोजनमस्तीत्यपि न मन्तव्यं इति कथयति ।
निष्प्रयोजनत्वाच्चेति । साध्यसिद्धेरेव प्रस्तुतत्वादन्यप्रयोजनवत्वेपि आनर्थक्यमेव
तत्र प्रस्ता
व इत्यभिप्रायः । तस्मात्प्रकारविशेषोपादानवर्णक्रमनिर्देशवदित्यसम्बद्धं ।
परः प्राह । न साध्यसिद्धौ यदनर्थकमनङ्गन्तन्निरर्थकमभिप्रेतमपि
63a तु यस्य वचनस्य
काकवासितादेरिव नैव कश्चिदर्थः । तथा च नार्थान्तरापार्थकादीनामनेनैव संग्रहस्तत्र
100 कस्यचिदर्थलेशस्य सद्भावात् । आचार्य आह
यस्य कस्य चिद 13b3 प्यादिनोपि
निरर्थकाभिधाने वाहित इव किन्न निग्रहो भवति । कथं स्यादित्याह निग्रहनिमित्त
त्तस्य
निरर्थकाभिधानस्य वाद्यवादिनोरवि
शेषात् । नेति परन्तस्य वादिन इह
वादप्रकरणे । आयातमित्याचार्यः । तस्य तेनैव निरर्थकाभिधानेन । तत्रैवं स्थिते
वादे तुल्यं । सर्वस्यासाधनाङ्ग
वादिनो निरर्थकाभिधायित्वमित्यध्याहर्त्तव्यं । क्व
चित्तवेतिपाठः । तत्र नोपस्कारेण किञ्चित् । अनेनैव निरर्थकाभिधानेन । प्रत्यु
च्यते । यस्य नैव
कश्चिदर्थ इति । एतदप्यसम्बद्धं । यस्मान्न च वर्णक्रमनिर्देशोपि
निरर्थकः क्वचित्प्रकरणे प्रत्याहारादावर्थवत्वाच्च । तस्मादत्रैव वादेस्य वर्ण्णक्र

स्यानर्थक्यं । तच्चार्थान्तरादेरपि तुल्यमिति चित्तं कक्कङ्पिङ्गितमित्यत्रादिशब्देन
उत्प्लुत्य गमनं तालदाननृत्त131आदीनाङ्गहणं ॥ ४ ॥


त्रिर
भिहितमिति त्रिवचनङ्कार्यमिति न्यायत्वं दर्शयति । सकृदुक्तं स्पष्टार्थ
मपि कदाचिन्न ज्ञायत इति त्रिरुच्चारणङ्कार्यं । कस्मात्पुनः पदवाक्यप्रमाणवि
द्
101 भिर्वाक्यन्न ज्ञायत इत्याह । क्लिष्टशब्दमित्यादि । क्लिष्टशब्दं मनागुच्चारितत्वात् ।
अपशब्दत्वादित्यपरे । कस्मादेवं प्रयुक्तमित्याह । असामर्थ्यसम्वरणा
ये 13b9
ति
। स्पष्टार्थस्य प्रयोगे दूषणम्वक्ष्यतीति भयात्प्रयुंक्ते । इदञ्च साधनदूषण
वादिनोः समानं । दूषणवाक्यमपि ह्येवंभूतनिग्रहप्राप्तिकारणं । नेदं
63b निरर्थकाद्-
भिद्यते । तथा हि श्लिष्टशब्दादिभिः प्रकृतार्थसम्बद्धङ्गमकमेव ब्रूयात् । एतद्विप
रीतम्वा । प्राक्तने प्रकारे नास्यासामर्थ्यन्तत्र तु परिषदादयो जाड्या
त्तदुक्तन्न
प्रतिपद्यंत इति नेयता विद्वान्वादी निग्रहमर्हति ।


वक्तुरेव हि तज्जाड्यं यच्छ्रोत्रा नावबुद्ध्यतें । ३७

ततोसौ निग्रहार्ह एवेत्याकूतवानाह परः । परिषत्
प्रज्ञामिति । न्यायवादिन
13b9 इति परिहरति । न्यायवादिनः उक्तमिति सम्बन्धः । वादी तु जाड्या
त्परिषदादेरविज्ञातसाधनसामर्थ्य इति कृत्वा विजेता न स्यात् । परिषत्प्रतिवादि
प्रत्यायनेन जयव्यवस्थापनात् । अविज्ञातं प्रतिपादनसामर्थ्यं परिषत्प्रतिवादिभ्यां
यस्येति कार्यं । द्वितीयन्तु विकल्पमधि
कृत्याह । असम्बद्धाभिधाने निरर्थकमेवे
14a1 ति ॥ ४ ॥


अनेकस्य पदस्येति । यदानीमसम्बद्धार्थप्रतिपादकत्त्वे वाक्यार्थप्रतिपादकत्वं
निराकरोति
वाक्यस्यासम्बद्धार्थप्रतिपादकत्वे प्रकरणाध्यायप्रतिपत्यभावः ।
समुदायप्रतिपत्यभावाच्च निग्रहस्थानं । उदाहरणं दश डा132डिमाः षडपू
पाः
कुण्डमजाजिनं पललपिण्डं । अथ रौरुकमेतत् कुमार्यः स्फैयकृतस्य पिता प्रतिशीन
इति अत्र च भारद्वाजेन निरर्थकापार्थकयोरभेद इत्याशङ्कय
प्रतिविहितं तत्र हि
वर्ण्णमात्रमिह यदान्यसम्बद्धानीति । तदेवाचार्योप्युपक्षिपति । इदं किले 14a2 त्या
दिना । असम्बद्धा वर्ण्णा यस्मिन्निरर्थक इति विग्रहः । कि
ल शब्दोऽनभिमतत्व
102 प्रदर्शनार्थः । अनभिमतत्वमेवाह । नन्वयं पदानामसम्बन्धादपार्थकवदसम्बन्ध
वाक्यमपि निरर्थकात् पृथग् वाच्यं स्यात् । स्यात्मतमपार्थकं
64a नैवासम्बद्धपदार्था
सम्बद्धवाक्यार्थयोः सङ्गृहीतत्वात् पृथग् न वाच्यमित्यत उच्यते । नोभय
सङ्ग्रहाद
14a3 पार्थकं युक्तं । कस्मादसम्बद्धपदार्थेनापार्थकेनैवासम्बद्धवा
क्यस्येव
निरर्थकस्यापि वर्ण्णक्रममात्रलक्षणस्य सङ्ग्रहप्रसङ्गात् । अथोच्यते । निरर्थकं किमु
च्यते । यस्यार्थ एव नास्ति केवलं वर्ण्णक्रममात्रं । असम्बद्धपद
वाक्ययोस्तु साध्य
सिद्ध्यनुपयोगेपि न सर्वथा नैरर्थक्यमतोऽर्थतत्वे साम्यात् द्वयोरेवैकीकरणमित्यत
आह । एवं विधाच्चेत्यादि । कपोलवादितादीनामपि
पृथगभिधानप्रसङ्ग
इत्यत्रातिप्रसङ्ग उक्तः । नहि किञ्चित्मात्रेण विशेषो न शक्यते क्वचित्प्रदर्शयितु
मित्यभिसन्धिः अथ निरर्थकापार्थकयोः
सङ्ग्रहनिर्देशदोषं भेदनिर्देशे च गुणम्प
श्यताऽ क्षपादेन न सङ्ग्रहनिर्देशः कृत इति मन्यसे । न साधु मन्यस इत्याह । न च
सङ्ग्रह
14a4 इत्यादि ॥ ४ ॥


यथा लक्षणमर्थवसा133दित्यर्थः सामर्थ्यं । अनुपदर्शिते हि विषये निर्विषया
साधनप्रवृत्तिर्मा भूदिति साध्यनिर्देशलक्षणा प्रतिज्ञा पूर्व्वमुच्य
ते । तदनन्तर मुदाहरण
साधर्म्यांत्साध्यसाधनं हेतु
रित्येवं लक्षणो हेतुस्तत्साधनायोच्यते । ततो हेतोर्वहिर्व्या
प्तिप्रदर्शनार्थंसाध्यसाधर्म्यात्तद्धर्मभाविदृ
ष्टान्त उदाहरणमि न्या० सू० १।१।३६
त्येवं लक्षणमुदाहरणं । ततः प्रतिबिंबनार्थं साध्यधर्मिणि सम्भवप्रदर्शनार्थम्वा
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वेति
साधनस्योपनय
न्या० सू० १।१।३८
इत्येवंलक्षण उपनयः । तत उत्तरकालं सर्व्वावयवपरामर्षेण134विपरीतप्रसङ्ग
निवृत्यर्थं हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निग
64b मनमि
न्या० सू० १।१।३९ त्येवं
लक्षणं निगमनमिति । अयमसौ यथालक्षणमर्थवसा135त्क्रमः । तथाहि लोकेपि
पूर्व्वङ्कार्यं मृत्पिण्डाद्युपादीयते पश्चात्तु करणञ्चक्रदण्डादिकमिति
न्यायः ।
तत्रैतस्मिनक्रम136न्यायतः । स्थितेऽवयवानां प्रतिज्ञादीनां विपर्ययेणाभिधानं
103 निग्रहस्थानं । यथा घटवत्कृतकत्वादनित्य इति । नैवमपि सिद्धेरिति भार
द्वाजः

स्वयमेवाशङ्क्य परिहरति । न प्रयोगापेतशब्दवदेतत्स्यादिति अनेनेति गोणीपदेन ।
यथा


अम्बम्बिति यथा वालः शिक्ष्यमाणः प्रभासते137

अव्यक्तं
तद्विदान्तेन व्यक्ते भवति निश्चयः । ३८

तथा किल गोण्यादयः शब्दाः ते साधुष्वनुमाणे138न प्रत्ययोत्पत्तिहेतव
इति । तदेतदुन्मत्तकस्य वैया
करणस्योन्मत्तकसंवर्ण्णनमुन्मत्तकेनो द्योतकरेण संवर्ण्णनं
यथा ह्येक उन्मत्तो द्वितीयमुन्मत्तकं सम्वर्ण्णयति तथा भूतमेतदपीति या
वत् । यदि
चोन्मत्तकस्यो द्योतकर स्योन्मत्तकस्य वैयाकरणस्य सम्वर्ण्णनं । तथा हि शाब्दिक एव
तावदुन्मत्तः प्रमाणविरुद्धवत्त्वाभिधायित्वात् । तत कु
तस्तत्प्रक्रियायाः प्रमाण
चिन्ताया ज्ञापकत्वमित्यभिप्रेतं । कथम्पुनः शाब्दिकस्यायुक्ताभिधायित्वमित्याह ।
यदि 14a4 त्यादि सुबोधं । स्त्रीशूद्रशब्दो मूर्खवचनः ।
यस्तु नक्क शब्दं मुक्क शब्द
मेव नासापर्यायम्वेत्ति । स कथमपशब्दाच्छब्दं साधुं प्रतिपद्यातः साधोः शब्दा
दर्थम्प्रतिपद्येत । किमुच्यते नैवासौ तथा विवोधम्प्रतिप
द्यत इत्याह । दृष्टाचानुभय
वेदिनोपि 14b3 सनका
देः प्रतीतिरिति तस्मान्न परम्परया प्रतीतिरर्थस्य । अयमत्र
संक्षेपः । स्यादेवमसाधूनां साध्वनुमापकत्वम् । य
65a द्येषान्धूमादीनामिव त्रैरूप्यम्भवे-
104 न्निश्चितं । तच्च न सम्भवति । यस्मादेतावदनुभयवेदिनः सनका दयस्ते सन्तमपि
व्याप्यव्यापकभावन्न प्रतिपद्यन्ते । न चासाव
ज्ञातो गमको ज्ञापकत्वात् । येपि
शब्दापशब्दप्रविभागकुशलास्तेप्यविद्यमानत्वादेव भावयन्ति । तथाह्यसाधूनां साधुभिः
सम्बन्धस्तादात्म्यं कार्यकारणभावो वा
भवेत । तदुभयविकलस्याव्यभिचारनियमा
भावात् । तत्र च तावन्न तादात्म्यमभ्युपेयं पारमार्थिकस्यैव भेदस्य स्फुटं प्रत्यक्षतः
प्रतीतेः । शब्दवद
साधोरप्यव्यतिरेकतो वाचकत्वप्रसङ्गाच्च । तदुत्पत्तिरपि दूरो
त्सारितेव । यतो नासाधवः साधुभ्यो जायन्ते । करणगुणवक्तुकामतामात्रहेतुत्वा

त्तेषां । न च तेषान्नित्यत्वङ्कादाचित्कोपलम्भतः । तत्वे वा सुतरान्तदुत्पत्तेरभावः
सत्यपि वा व्याप्यव्यापकभावे तत्परिज्ञाने च पक्षधर्मत्ववैक
ल्याच्चाक्षुषत्वादे
रिवासाधुभ्यो नानुमानं । नह्यत्र धर्मे विद्यते । यतः पक्षधर्मत्वं निष्पद्यते । नहि
साधूनामेव धर्मित्वन्तेषामेवानुमीयमानत्वात् । न च धर्मिसा
धनं युक्तिमतः । भावा
भावोभयधर्मस्यासिद्धविरुद्धानैकान्तिकदोषदुष्टत्वतः । कथं वा साधूनां तत्धर्मत्वं ।
नहि तत्काले ते सन्ति । असताञ्च धर्मित्वं वाचकत्वं
चेति सुभाषितं । किमुच्यते
पुरुषो धर्मी साधुशब्दविवक्षा साध्यधर्मः पक्षधर्मश्चासाधुरिति तदप्यसम्बद्धं ।
व्याप्यव्यापकभावाभावादेव । यस्मान्न च
65b गोणीशब्दप्रयोगकाले गोशब्दविवक्षामु
पलभामहे । अथ प्रत्यवस्थीयते । यथा पक्षधर्मत्वादिवैकल्येप्यव्यक्तं । बालवचोव्यक्त
मनुमापयति । तथैवासाधवोपि
साधूनिति तदयुक्तं तत्रापि तुल्यपर्यनुयोगत्वा
त् । वयन्तु प्रतिपद्यामहे साक्षादेव तस्मादप्यव्यक्तान्मात्राद्यर्थः प्रतीयत इति ।
तत्र संज्ञासंज्ञिसम्बन्धस्याननुभूत
त्वादयुक्ताप्रतीतावित्यपि न मन्तव्यं । अनादि
मति संसारे व्यवहारपरम्परायास्तथाभूतायाः सम्बन्धस्योल्लिङ्गितत्वात् । तथाहि
न गवादिशब्दानामपि प्रा
यः शृङ्गङ्ग्राहिकयार्थनियमः सङ्केत्यतेपि तु व्यवहार
पारम्पर्यतो विदग्धा निश्चिन्वन्ति । तच्चेहापि समानमेव । तस्मादेतदरण्यरुदितं ।

अम्बम्विति यथा बालः शिक्ष्यमाणः प्रभासते ।

अव्यक्तन्तद्विदान्तेन व्यक्तेन भवति निश्चयः ॥ ३९

एवं साधौ प्रयोक्तव्ये यो यद्भ्रंशः प्रयुज्यते ।

तेन साधु व्यवहितः कश्चिद
र्थोवसीयत ४०
इति ॥


यदप्यभ्यधायिकुमारिलेन ।
105

गोशब्देऽवस्थितेस्माकन्तदशक्तिजकारिता ।

गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारिणी ४१
ति ॥


तस्यापीद
मेव प्रतिविधानमिदञ्च सर्वमागूर्य्य निगमयति । न परम्परया
प्रतीति
रिति । अत्रैवोपचयमाह । अर्थे प्रतिपादनायासमर्थस्यासाधोः शब्देपि
साधौ प्रतीतिज
ननासामर्थ्याच्च । तत्रैतत्स्यान्न वयमसाधूनामर्थेषु प्रतीति
जनकत्वं निराकुर्मः । किन्तु वाचकत्वं । शब्दे चासाधुः प्रतीतिजनक एव
न वाचक एव इत्यत आह । न ह्य
66a र्थेपि शब्दस्य वाचकत्वमन्यदेवे
14b4-
त्यादि । यद्यसाधोरर्थे प्रतीतिजनकत्वमिष्यते । तदैतावता वयमाहितपरितोषाः ।
किमस्माकमभिधानान्तरकल्पितेन वाचक
त्वेनेत्याकूतं । नैव तर्ह्यसावर्थप्रतीतिं
जनयितुँ क्षमोऽपि तु शब्द एवेति चेदाह । अपशब्दश्चेदि 14b4 ति । अथोच्यते
शब्देन तस्य स्वाभाविकः सम्बन्धो नार्थेन ततस्तमे
व प्रतिपादयति नार्थन्तद्यथा
स्वभावतश्चक्षूरूपं प्रकाशति न शब्दादीनत आह । अकृतसमयस्ये 14b5
त्यादि
। अदर्शनादिति । न ह्यप्रतीतसम्बन्धाः सिंहल शब्दा आर्य
जनव्यवहा
राय वर्त्तन्ते । समय एव तु जनयेत् प्रतीतिं । सामयिके च तत्र सम्बन्धे सोर्थेप्य
निवार्यः । समयवसा139दसाधुः साधौ वर्त्तमानोर्थ एव गवादौ
किन्न
प्रवर्तते । नहि किञ्चित्तथा दोषो गुणस्तु केवल इत्याह । एवं ही त्या 14b6
दि । एतदुक्तम्भवति । ये स्वभावतः प्रकाशका न ते समयमपेक्षन्ते । यथा चक्षुर्दी
पा
दयो रूपादीनां । स्वभावतश्चापशब्दो यदि शब्दस्य प्रकाशको भवेत् । ततस्ते
नापि सम्बन्धोनापेक्षः स्यात् । अपेक्ष्यते च ततो नास्य शब्दे स्वाभाविकं सामर्थ्यं ।

तथा चेदमपि शक्यमनुमातुं । ये समयाक्षेक्ष140प्रवृत्तयस्ते सर्वत्र यथासमय
मनिवारितप्रसराः साक्षादेव प्रतिपादका भवन्ति । यथाकायविज्ञप्त्यादयः । त
था
चापशब्दा अपि समयापेक्षप्रवृत्तय इति सिद्धमेषामव्यवधानत एवार्थप्रति
106 पादकत्वमिति । विपर्ययदर्शनाच्चेत्युपचयान्तरं । तथाहि वृक्षोग्निरुत्पलमित्युक्ते

ऽव्युत्पन्नधियो वालाः प्रश्नोपक्रमं सन्तिष्ठन्ते । कोयं वृक्ष इत्यादिना । ते चान्यस्य
व्युत्पादनोपायस्याभावादपशब्दैरेव व्युत्पाद्यन्ते रुक्ख अग्गी उप्पलमिति ॥ त
66b देव
मत्रासाधव एव वाचका न साधवः सन्तोपीति विपर्ययो दृश्यते अथ प्रतिपद्यसे
धर्मसाधनता शब्दसंस्कारो यथोवतं ।


शिष्टेभ्य आगमात् सिद्धं साधनो धर्मसाधनं

अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधव ४२
इति । तथा


मन्त्र हीनः स्वरतो वर्णतोवामिथ्याप्रयुक्तो न तमर्थमाह ।

स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात्141
४३

ते सुरा हेऽलयोहेऽलय इत्युक्तवंतः परावभूवुः । एकोपि शब्दः सम्यक्प्रयुक्तः सुकृ
तिनां लोकङ्गमयति । आहिताग्निरपशब्दमभिधाय प्रायश्चित्तीयामिष्टिं नि
र्वपे
दित्यादि ।

महाभाष्ये आह्निके १ इदमपसारयति न धर्मसाधनता 14b9
शब्दानां संस्कार इति वर्तते किङ्कारणमित्याह । मिथ्यावृत्तिचोदनेभ्य 14b9
इत्यादि । मिथ्यावृत्तिश्चोद्यते यैरि
ति कार्यं । यथा ह्यस्याभिनवविद्रुमाङ्कुरप्रकरा
भिरामकिशलयमञ्जुमञ्जरीराजीविराजिततरोरशोकवनस्पतेरधः शयितस्य द्विज
न्मनो नीलनीरज
नीलतातिशायिना मण्डलाग्रेण शिरश्छित्त्वेत्युक्तेपि भवत्येव ब्रह्मह
त्यया सम्बन्धः प्रयोजकस्य । अन्येभ्य इत्यसम्भूतेभ्यो विपर्ययेण सम्यक्त्ववृत्तिचोद
ने
न । यथा अस्स बम्भणस्स गावी दीअदि । सर्वञ्चेदमप्रमाणत्वाद्वचनमात्रं
भवताविमत्याकूतवानुपचयमाह । शब्दस्य सुप्रयोगादेवेत्यादि 14b9 । एवं
विधानित्यप्रमा
णकान् ।


ननु च प्रतिष्ठिते भूप्रदेशे चैत्यङ्कारयति ब्राह्म्यं पुण्यं प्रसवति कल्पं स्वगषु
मोदत
इत्यादावपि प्रमाणाभावादयं तुल्यः प्रसङ्गो भवतामपि । न तुल्यो
यस्मादत्र
107 विषयद्वयपरिशुद्धिः परिनार्था 142 विसम्वादश्चास्तीति तृतीयेपि राशावाहितपरि
तोषाः प्रेक्षावन्तः प्रवर्त्तन्ते । नत्वेवं भवन्मतेऽनन्तरोदितद्वयमपि
67a प्रमाणव्याहतत्वात्
प्रमाणव्याहतिश्चानन्तरमेवावेदिता । तस्माद्दरिद्रेश्वरस्पर्धासमानमेतत्


विदितवेद्यादिगुणप्रयुक्ता 15a2 इत्यन्तर्भावितभावप्रत्यययो143
निर्देश
। विदितं वेद्यं हेयोपादेयत्वं यैस्ते तथोक्ताः । आदिग्रहणात् करुणादिप
रिग्रहः । अमूने 5a2 व संस्कृतानपरानसंस्कृतान् । एतदुक्तम्भवति
शब्दो हि व्यवहारोर्थप्र
त्यायनफलः । तच्च यथा संस्कृतेभ्यः सङ्केतवसा144
त्सम्पद्यते तथाऽसंस्कृतेभ्योपीति किमस्थानेभिनिविष्टाः शिष्टाः । अत एव च
मन्ये प्रेक्षावद्भ्योन्यत्वादनुगता
र्थमेवं नामामीषामिति । अथवा किमस्माक
मर्हषितिः145 प्रत्याख्यानैः ॥ ते अमून्नैव प्रयुञ्जते नापरानित्यत्रैव निश्चया
भावात् । यदाह न चात्र श
ब्दे परोक्षः साक्षी यतः साक्षिण इदमेवामूनेव
प्रयुञ्जते नापरानिति निश्चिनुमः 15a3


ननु चोक्तन्तदन्वाख्यानस्य प्रयोजनं रक्षोहागमलघ्वसन्दे
हा
महाभाष्येआह्
निके १
इति । तत्कथं गुणातिशयाभावादित्युच्यत इत्याह । वेदरक्षादिकञ्चाप्रयो
जनमेवातत्समयस्थायिन
15a4 स्ताथागतस्य । न्यायानुपायित्वात् । तत्स्वभा

वस्य 15a4 साधुशब्दरूपस्य । अन्यतोपीति 15a4 बृद्धप्रवादपारम्पर्यात् ।
एतदेव दृष्टान्तोप्रक्रमं व्यनक्ति । प्राकृतेत्यादिना 15a4


108

त्थं शािब्दकस्योन्मत्तकतामुपदर्श्याधुना भा
रद्वाज
स्याह ।


अवयवविपर्ययेपीत्यादि 15a6 । सम्वन्धप्रतीतिरिति सम्बन्धः परस्परमुप
कार्योपकारकभावः । सामर्थ्याद्विवक्षितप्रतिपादन इति शेषः ।
अथ स्या दक्षपाद
सिद्धान्तनीतिपालनाय न प्रतिज्ञादीनां क्रमव्यत्ययः क्रियत इत्यत्राह । नह्यत्र
कश्चित्स
मयः 15a6 सिद्धान्तो नियमो वा प्रमाणोपेत इत्यप्याह । न
67b पर आह ।
न विपर्ययात्प्रतीतिः 15a7 साध्यस्य । किन्तु ततो विपर्ययादानुपूर्व्या प्रतीति
रिति । अस्य प्रतिषेधः । नाप्रतीयमानसम्बन्धेभ्य आनुपूर्वी प्रतीतिरिति 15a8

येषामित्यादि
नै 15a8 तदेव व्याचष्टे ॥ अपि च प्रतिज्ञोपनयनिगमनानां
पूर्वमेवास्माभिः साधनवाक्ये प्रयोगः प्रतिक्षिप्तः । तत्कुतस्तत्कृतो विपर्यय इत्येत
त्कथयति
प्रतिपादित 15a10 मित्यादिना । प्रतिज्ञाग्रहणमुपलक्षणार्थं ।
अथ सामर्थ्यलभ्यापि प्रयुज्यते तदातिप्रसङ्ग इत्येतदाह । प्रतीयमानार्थस्य च
प्रयोगेति
15b1 प्रसङ्गः सा
धर्म्यवति प्रयोगे वैधर्म146स्यापि प्रयोग
प्रसङ्गः । न चेष्यते । अर्थादापन्नस्य स्वशब्देन पुनर्वचनञ्चेति न्या० सू० ५।२।१५
निग्रहस्थानवचनात् । पक्षधर्मान्वयव्यतिरे
केषु तर्हि प्रतिज्ञाद्यभावेपि क्रमनियमो
109 भविष्यतीत्यत आह । परिशिष्टे 15b1 ष्वित्यादि । अप्रतीयमानसम्बन्धपक्षे
दोषान्तरं ब्रूते नेदमपार्थकाद् भि
द्यत
15b2 इति न पृथग्वाच्यं स्यादिति ॥ ४ ॥


यस्मिन्वाक्ये प्रतिज्ञादीनान्निगमनपर्यन्तानामन्यतमोऽवयवो न भवति । तद्वा
क्यं हीनं
15b3 निग्रहस्था
नत्वे कारणमाह । साधनाभावे साध्यासिद्धे
रिति
15b3 । इदन्निराकरोति प्रतिज्ञादीनामित्यादिना 15b3
प्रतिज्ञाग्रहणमुपलक्षणार्थं तेनोपनयनिगमनयोरपि
परिग्रहः । उद्योतकरस्य मतमुप
न्यस्यति । हीनमेव तत् 15b3 । प्रतिज्ञान्यूनं । तस्याः प्रतिज्ञायाः न्यूनतायामपि
निग्रहादिति अस्यायुक्ततामाह । यः साधनसा
मर्थ्या त्प्रतीयमानार्थमनर्थकं शब्दं
साध्याभिधायिनं साधने प्रयुङ्क्ते स निग्रहमर्हेत् 15b4 । तथा हि शब्दस्या
नित्यत्त्वविचारे प्रस्तुते यदा ब्रवीति । कृतकानामनित्यत्वं
68a दृष्टङ्कृतकश्च शब्द
इति । तदा वचनद्वया देवसाध्यार्थः प्रतीयत इति निरर्थकम्प्रतिज्ञावचनं । नार्थोपसं

हितस्य युक्तियुक्तस्य पक्षधर्मसम्बन्धमात्रस्याभिधानेत्य समीक्षिताभिधानमेत 15b4
द्वार्तिककारस्य । अत एव चेति 15b4 यतः प्रतीयमानार्थें शब्दे
प्रयुक्ते
निग्रहमर्हति । तद त्राबिद्धकर्णः प्रतिबन्धकन्यायेन प्रत्यवतिष्ठते ।
यद्येवङ्कृतकश्च शब्द इत्येतदपि न वक्तव्यं किंकारणनी147मनित्यत्व
मित्येतेनैव शब्दे
पि कृतकत्वमनित्यत्वञ्चोभयं प्रतिपद्यते । यस्मात्पूर्वमपि शब्दे
कृतकत्वम्परेण प्रतिपन्नमेव करणाच्छब्दोपि बुद्धौ व्यवस्थितः । अतोन्वय
वा
क्येन स्मृतिमात्रकमुत्पाद्यते । अप्रतिपन्नकृतकत्त्वस्य पुनः कृतकश्च शब्द इत्ये
110 तस्मादपि नैव भवति । यद्वा कृतकः शब्द इत्येतावद्वक्तव्यं । कृतक
त्वस्य त्वनित्यत्वे
नाविनाभावित्वं परस्य प्रसिद्धमिति शब्देप्यनित्यत्वं प्रतिपद्यत इति तेनानुकूल
मेवाचरितं । तथा हि यदि वादिना कथञ्चिन्निश्चि
तम्भवति प्रतिपन्नमनेन वादिना
कृतकत्वं शब्द इति तदा नैव तेन पक्षधर्मोपसंहारः कर्तव्यो निष्फलत्वात् । प्रति
बन्धमात्रन्तु प्रदर्शनीयं । अथ तथा न
निश्चितं । तथापि यद्ययं परः पक्षधर्मोपसंहारे
मया कृते तस्यासिद्धिञ्चोदयिष्यति । तदाहन्तां प्रत्ययभेदभेदित्वादिभिरुपायैः
प्रतिनिवारयिष्यामि स्व
यमेव वा ऽचोदित एवाशङ्क्यैतच्चेतस्याधाय पक्षधर्मत्वमुप
संहर्तव्यमेव कृतकश्च शब्द इति । यदाप्येवं वादी निश्चितवान् कृतकत्वस्यानित्यत्वे
नाविनाभा
68b वित्वं परस्य प्रसिद्धमिति तस्यामप्यवस्थायां कृतकः शब्द इत्येतावेदव
वक्तव्यं । यथोक्तन्

तद्भानहेतुभावौ हि दृष्टान्ते तदवेदिनः

ख्याप्यते विदुषाम्वाच्यो हेतुरे
व हि केवल इति ॥
४४


तदेतन्नियमाभ्युपगम इत्यधिकं निग्रहस्थानं । विशिष्टे विषये स्थापयति तञ्च
विशिष्टं विषयमाह । यत्रेत्यादिना 15b5 । ननु चेदं निय
माभ्युपगमे वेदि
तव्यमिति भाष्यकारेणैवोक्तं । तत्किमत्र दूषणमाचार्येणोक्तं सत्यन्न किञ्चिदुक्तं ।
चार्येण तु पक्षिलो क्तमेवनूद्यतेऽभ्यनुज्ञानार्थम् ॥ ४ ॥


शब्दार्थयोः पुनर्वचनं पुनरुक्त मित्यस्यापवादमाह अन्यत्रानुवादादिति । अनु
वादो निगमनं । अनुवादो हि न पुनरुक्तव्यपदे
शं लभते । शब्दाभ्यामर्थविशेषोत्पत्तिः ।
यस्मात्साध्यनिर्देशः । प्रतिज्ञासिद्धनिर्देशो निगमनमित्युक्तं । पुनः शब्दश्च नानात्वे
दृष्टः । पुनरि
यमचिरप्रभा निश्चरतीत्यप्यावेदितमेव । यद्येवन्तत्र तर्हि पुन
111 रुक्ततायाः प्राप्तिरेव नास्तीति किमर्थमयमपवादः प्रारभ्यते । सत्यमेवमे
तत् ।
त एव तु प्रकृष्टतार्किकाः प्रष्टव्याः । कथमेतदिति । अस्माकन्तु किं परकीयाभिर्गृह
चिन्ताभिश्चिन्तिताभिरित्यलम्प्रसङ्गेन । अत्र चेदमपि द्वितीयसूत्रम
स्ति अर्था
दापन्नस्य स्वशब्देन पुनर्वचनमिति
न्या० सू० ५।२।१५ तदाचार्येण नोपन्यस्त
मुपलक्षणार्थत्वात् । तद्भाष्यपक्षिप्य निराकरिष्यति । गम्यमानार्थं पुनर्वचनम
पी
त्यादिना 15b9अत्रेत्यादिना 15b7 दूषणमारभते । एतदुक्तम्भवति ।
यत्र शब्दसाम्येप्यर्थो न भिद्यते तत्रार्थपुनरुक्ते
69a न गतं यत्र तु शब्दसाम्येप्यर्थभेदस्तत्र
शब्दपुनरुक्ततायामपि न किञ्चित्कृतं । किमस्त्ययमीदृशः सम्भवो यच्छब्दपुनरुक्त
तायामप्यर्थभेदोस्तीत्यत आह । यथा हस
ति हसतीत्यादि
15b7 । अत्र हि
पूर्वो हसतिशब्दः सप्तम्यन्तो द्वितीयश्च तिङ्न्त इत्यर्थभेदः । एवमुत्तरत्रापि । काव्य
ईदृशः सम्भवो न तु वाद इत्याशङ्कायामुदाहर
ति । यथा चेत्यादि 15b8
ननु चेहाप्यर्थभेदवच्छब्दो148भेदोप्यस्ति सुबन्ततिङन्ततया । सत्त्यन्न केवलम
त्रापि । अत्राप्यनित्त्यः शब्दोऽनित्यःशब्द इत्यत्रास्त्येव शब्दभेदः स्वलक्ष
णभेदात् ।
अन्यथा न क्रमभावि श्रवणं स्यात् । समानश्रुतिसमाश्रयमिह पौनरुक्त्यं यदि
व्यवस्थाप्यते तदत्रापि तुल्यमेव । अर्थभेद एवायं । क्रि
याभेदादिवाच्यभेदात् ।
तद्वलकल्पित एव हि पदभेदः । गम्यमानार्थं पुनर्वचनमपि पुनरुक्तमिति 15b9
द्वितीयम्पुनरुक्तलक्षणसूत्रमुपलक्षयति । अस्य
चोदाहरणं वात्स्यायनेन न्यायभाष्य
उक्तं । साधर्म्यवति प्रयोगे वैधर्म्यस्य । आचार्यस्तु प्रतिज्ञायामप्येतत्समानमित्यागूर्य
प्रतिज्ञायाः साधनवा
क्येऽनुपन्यासं प्रतिपादयितुकामो वक्रोक्त्या प्रतिज्ञावचनमेवो
112 दाहरणत्वेनोपन्यस्यति । नियतपदप्रयोगे साधनवाक्ये यथा प्रतिज्ञावचनमिति
15b9 नियतानां
पदानां प्रयोगो यस्मिन्निति कार्यं । इदम्प्रतिक्षिपति
अर्थपुनरुक्तेनैव गतार्थत्वान्न पृथग्वाच्यमिति । यथा ह्येकशब्दप्रतिपादितेर्थे
तत्प्रतिपादनाय पर्या
69b यशब्दान्तरमुपादीयमानमनर्थकन्तथा सामर्थ्यगम्येप्यर्थ इति
अर्थपुनरुक्तेनैवास्य सङ्ग्रह इति समुदायार्थः । क्व पुनरेतत्प्रति
ज्ञादिवचनमर्था
पत्तिलभ्यं पुनरुक्तं सन्निग्रहस्थानम्भवतीति प्रश्ने नियतप्रयोगे साधनवाक्ये 15b9
इत्येतदेवम्पक्षेण विवृणोति । अयमपि दोषो गम्यमानार्थपु
नर्वचनकृतः साधनवाक्य
एव नियतपदप्रयोग इति वर्तते । इदमुक्तम्भवति । यदा प्राश्निकाः शब्दार्थप्रमाण
प्रविचयनिपुना149ः प्रेक्षावन्तोत्यं
तमवहितमनसश्च भवन्ति । प्रतिवाद्यपि
तथाभूत एवेति वदन्ति यदन्तरेण न साध्यसिद्धिः तदेव प्रयोक्तव्यं । नाभ्यधिक
मिति तदायन्दोषो नान्यथा
यस्मात्करुणापरतन्त्रचेतसोऽनिबन्धनवत्सलाः प्रतिवादि
नमतिद150र्ल्लभमिव शिष्यं न्यायवर्त्मावतारयितुं यतन्ते तत्र पुनर्वचनमपि न
दोषाय । ए
तदेवाह । व्याचक्षाणो हि वादी साक्षीप्रभृतीनामसम्यक्श्रवण प्रतिपत्ति
शङ्कया करणभूतया सम्यक्श्रवणप्रतिपत्यर्थम्पुनः पुनर्ब्रूयादपीति 15b10 । ना
विषय
त्वादिति
परः । इदमेव व्याचष्टे नायम्वादी गुरुः 15b11 प्रतिवादिनः ।
शिष्यः प्रतिवाद्यपि वादिनः । द्वयोरपि परस्परजिगीषया व्यवस्थानादिति ।
तस्मात्
न वादिना प्रतिवादी यत्नतः प्रतिपादनीयः । ने 15b11 त्याद्याचार्यः ।
यदि नाम प्रतिवादी न प्रतिपाद्यते यत्नेन । साक्षिणस्त्ववश्यं यत्नेन प्रतिपाद्यास्त
द्बोधना
70a देव हि वादिनो जयोन्यथा च पराजय इति कथं साक्षिण एव न प्रति
पादयेत151किञ्चावश्यं साक्षिवत्प्रतिवाद्यपि प्रतिपाद्यः । कस्मात्तदप्रतिपादने
दोषाभि
धानात् । तच्छलेन साक्षिप्रभृतयः प्रत्यवमृश्यन्ते यदि साक्षिप्रभृतयो न
प्रतिपाद्या भवेयुस्ततो यद् भवद्भिः परिषत्प्रतिवादिभ्यान्त्रिरभिहितमविज्ञात

विज्ञातार्थ निग्रहस्थानमुक्तं न्या० सू० ५।२।१६ । तद्विरुद्ध्यत इत्यर्थः ।
113 यच्चोच्यते नायं शिष्य इति तदसिद्धं । प्रतिपाद्यस्य शिष्यत्वात् 16a1 । तत्वज्ञा
नार्थतया प्रतिपाद्य एव
शिष्योन्यस्य तल्लक्षणस्याभावात् । प्रतिवादी च तथाभूतः
कथं न शिष्यः । किमुच्यते नैवासौ प्रतिवादी तत्वज्ञानार्थास्पर्धया व्युत्थितत्वा
दिति ।
तदयुक्तं । पूर्व्वञ्जिगीषुवादप्रतिषेधात् 16a1 । एवमपि नैवासौ यत्न
प्रतिपाद्यस्त्रिरभिधाननियमस्य महर्षिणा कृतत्वादित्यत आह । त्रि
रभिधान

16a1 वचनादित्यादि । अनेनैतद्दर्शयति । यद्वक्ष्यति । यदि तावत्परप्रतिपादनार्था
प्रवृत्तिः किन्त्रिरभिधीयते तथा तथा स ग्राहिणीयो
यथास्य प्रतिपत्तिर्भवति ।
अथ परोपतापनार्था तथापि किं त्रिरभिधीयते । साक्षिणाङ्कर्णे निवेद्य प्रतिवादी
कष्टाप्रतीतद्रुतसंक्षिप्तादिभिरुपद्रो
तव्यो यथोत्तरप्रतिपत्तिविमूढस्तूष्णीम्भवतीति ।
न चेद 16a1 मिति शब्दार्थयोः पुनर्वचनं । गम्यमानार्थपुनर्वचनं च । अभेदमेव
साधयति । विनिय
ते
16a1 त्यादिना । आधिक्यं 16a2 हेतूदाहरणयोर्दोषः ।
एकेन कृतत्वादितरस्यानर्थक्यमिति वचनात् । पुनर्वचनेपि गतो ज्ञातः पूर्वेणैव
शब्देनार्थो यस्यो
70b त्तरस्य पदस्य तदेवमुक्तं । तस्याधिक्यमेव दोष इत्यधिकृतं ।
किम्पुनर्नियतपदप्रयोगेऽयन्दोष इत्युक्तमिति चेदाह । प्रपञ्चकथायामदोष
16a2 इत्यभिसम्बन्धः । क
स्य हेत्वादिबाहुल्यस्य 16a2 । पुनर्वचनस्य
च । आदिशब्देनोदाहरणबाहुल्यग्रहणं । कीदृश्यामनिरूपितैकार्थसाधनाधिकर
णायां अर्थः साध्यः । अर्थ्यत इ
ति कृत्वा साधनं । हेतुरधिकरणन्धर्मी । अर्थसहितं
साधनमर्थसाधनं । मध्यपदलोपात् । एकञ्च तदर्थसाधनञ्च तथोक्तम् । तस्याधि
करणन्तदनिरूपि
तमेकार्थसाधनाधिकरणं यस्यां प्रपञ्चकथायां प्रतिवादिना धर्मिणो
जीवशरीरादेर्नैको धर्मो नैरात्म्यादिषु प्रमातुमिष्टोऽपित्वनेकः क्षणि
कत्वानात्मत्वा
नीश्वरकर्त्तृत्वादिस्तथा नैकेनैव हेतुना किन्त्वनेकेनापि तस्यामित्यर्थः । एतदेव
यथाक्रमं ब्रूते । नानार्थसाधनेप्सायां नाना
साधनेप्सायां वा श्रोतुरिति
16a2
पूर्व्वकः साधनशब्दो भावसाधनत्वात्सिद्धिवचनः । उत्तरस्तु करणसाधनत्वाद्धेतुव
चनः । तस्माद्धेत्वादिबाहु
ल्यं वचनबाहुल्यं साधनेन विनियतपदे दोषः । कस्मात्
114 प्रतीताय्याभावात् । प्रत्य तुल्यो दोष इति कृत्वा सङ्ग्रह एव न्याय्यः । अधिकमेव वा
वक्तव्यं पुनरुक्त
मेव चेत्यर्थः । अनयोरेकस्मिन्द्वितीयस्यान्तर्भावात् । कथं पुनः शब्द
पुनरुक्ते ऽधिकस्यान्तर्भाव इत्याह । पर्य्यायशब्दकल्पो 16a4 ह्यपरो द्वितीयो
हेतुरेकहेतु प्र
तिपादिते विषये प्रवर्त्तमानः
किं कारणं प्रतिपाद्यस्य विशेषाभा
वात् । अर्थस्य पुनरुक्तन्तर्हि कथमधिकेन्तर्भवतीत्याह अर्थः पुनः प्रतिपादना
71a न्न भिद्यत

इति ॥ अर्थशब्देनार्थपुनरुक्तमुपलक्षयति । पुनः प्रतिपाद्यते अनेनेति पुनः प्रतिपादनं
हेतूदाहरणाधिकमेव । इदमुक्तम्भवति स्फुटमेवास्य उदा
हरणाधिकेन्तर्भावः ।
तथाहि साधर्म्यवति प्रयोगे वैधर्म्योदाहरणस्याप्रयोगोऽर्थपुनरुक्तस्योदाहरणमुक्तं ।
यत्पुनरुक्तमेवाद्यपवादप्रतिषेधः सुज्ञानः ॥ ० ॥


विज्ञातो वाक्यार्थो यस्य त्रिरभिहितस्य तत्तथा । विशेषणसमासो वा विज्ञात
श्चासौ वाक्यार्थश्चेति त्रिरभिहितस्य वादिनेति प्रतिपत्तव्यं ॥ प्रतिवादिना प

प्रत्युच्चारणमिति सम्बन्धनीयं । त्रिवचनं सकृदभिहितस्याननुभाषणेपि न निग्रह
इति ज्ञापनार्थं । अप्रत्युच्चारणञ्च शब्दद्वारेणार्थद्वारेण
वा । निग्रहस्थानत्वे कारण
माह । अप्रत्युच्चारयन् किमाश्रयम्परपक्षे प्रतिषेधं ब्रूयादि 16a7 ति न विषयन्दू
षणाभिधानन्नास्तीत्यर्थः ॥ इदन्त्वयोक्तं
मति ङ्कृत्त्वा दूषणम्वाच्यं । एवन्दूषणवाक्य
115 मपि साधनवादिना प्रत्यनुभाष्य परिहर्तव्यं । अतो द्वयोरपीदं निग्रहस्थानं । अत्र भार
द्वाजो
न्यक्षेणा
क्षेपन्तावत्करोति उत्तरेणावसानात्परिज्ञानान्नेदन्निग्रहस्थानमि ति चेदि
ति । इदम्वाक्यम्व्याचष्टे स्वादेतदि 16a7 त्यादिना । नोत्तरविषयपरिज्ञानादिति
स ए
व प्रतिविधत्ते । यद्ययमि 16a8 त्याद्यस्यैव विभागः । अप्रतिज्ञानाच्चेति स
एव । उत्तरञ्चाश्रयाभावे परपक्षोपक्षेपाभावे सत्ययुक्तमिति युक्तमप्रत्युच्चारणे

निग्रहस्थानमित्ये
तावान् परकीयो ग्रन्थः । अत्राचार्यो दूषणम्वक्तुमारभते । यदि नाम
वादीस्वसाधनार्थस्य विवरणव्याजेन प्रसङ्गादपरापरं घोषये
71b त् । यथोदा-
हृतम्प्राक्तत्र करणभुवनानि बुद्धिसत्कारणपूर्व्वकाणीति प्रतिज्ञाशरीरादिव्याख्यान
च्छद्मना सकलं वैशेषिकतन्त्रं घोषयेदिति
16a10 । तथा जिज्ञासितम
र्थमात्र
मुक्त्वा कथां विस्तारयेद्यदि नाम वादीति वर्तते । किङ्कृत्वा विस्तारयेदित्याह ।
प्रतिज्ञादिष्वर्थविशेषणपरम्परयाऽपरान् सिध्यनुपयोगिनोर्थानुपक्षिप्य 16b10

यथा निदर्शितं पूर्व्वन्नित्यः शब्दोऽनित्यः शब्द इति विवादे जैमिनीयः प्रमाणयति ।
द्वादशलक्षणे त्यादिना । व्याचष्टे च द्वादशलक्षणानि । यथा वा ऽक्षपादा
वङ्कुर्वन्ति ।
किममी सर्वे संस्काराः क्षणिका नो वेति विवादे रूपत्वादिसामान्याश्रयत्त्वात्तदा
श्रयास्तद्विषयाश्च प्रत्यक्षादयः प्रत्ययाः स्वात्मलाभानन्त
रप्रध्वंसिनो न भवन्ति ।
समानानामसमानजातीयद्रव्यसंयोगविभागजनितशब्दकार्यशब्दाभिधेयत्वात्प्रागभा
वादिवदिति । ननु च प्रतिज्ञादीष्वित्यत्रादिशब्देन किं गृह्यते । न तावद्धेतूदाहरणे
तन्मात्रमुक्त्वेति वचनात् । न चापरः कश्चित्प्रस्तुतोऽत्रेति नैष दोषो यतो
हेत्वादिमात्रमप्युक्त्वेति द्रष्ट
व्यं । तेन हेत्वादीनामेवादिग्रहणेन आक्षेप इति केचित् ।
अपरे पुनराहुरस्थानमेवेदमाशङ्कितं । क्त्वाप्रत्ययनिर्देशेत्र । यस्मादयमत्रार्थो यत्र
प्रतिवा
दिना जिज्ञासितमर्थमात्रमन्यविशेषणरहितमक्षणिकत्वादिकं तदुक्त्वा वाद्य
116 हमेतत्साधयामीत्युत्तरकालप्रमाणमारचयन्प्रतिज्ञादिष्वर्थविशेषणप
रम्परयापरान
र्थानुपक्षिप्य कथाम्विस्तारयेदिति । तच्चे 16a11 ति प्रतिज्ञादिविशेषणपरम्परया
यदप्रस्तुतमेव नाटकाख्यायिकाघोषणकल्पं वादिनोद्ग्रा
72a हितं । तदा कस्तस्य विवा
दाश्रयश्चासावर्थमात्रश्चाक्षणिकत्वादिकन्तस्योत्तरवचने सामर्थ्यविघातो नैवेत्यर्थः ।
तस्मान्न वादिकथामननुभाषमाणः प्रति
वाद्युत्तरवाद्येन 152 समर्थः । किन्तु यद्वचनना
न्तरीयिका जिज्ञासितार्थसिद्धिस्तदवश्यमुपदर्श्यत एवेति सम्बन्धः । कस्मात्सा
धनाङ्गविषयत्वाद् दूषणस्य । परो
पनीते हि साधने दूषणम्प्रवर्तत इति सम्बन्धः
किन्नान्तरीयिका पुनर्जिज्ञासितार्थसिद्धिरित्याह । यथा पक्षधर्मता व्याप्तिप्रसाधन
मात्र
मि 16b1 ति व्याप्तिः प्रसा
ध्यतेनेनेति व्याप्तिप्रसाधनं बाधकप्रमाणोप
दर्शनं किमियमित्यपि साधनप्रयोगेऽर्थान्तरोपक्षेपः कर्तव्यो नेत्याह । न । तत्रापि
प्रसङ्गान्तरो
क्षेप 16b1 इति नैरर्थक्यादिति मतिः तावत् मात्रमुपदर्श्यते
किं प्रागनुक्रमेण । पश्चात्तु दूष्यते नेत्याह । तत्रापि दूषणविषयोपदर्शनार्थेऽनु
भा
षणे न सर्व्वं यावदुपन्यस्तं वादिना तद्दूषणाभिधानात् । प्रागनुक्रमेणो
च्चारयितव्यं
। कस्मात् त्रिरुच्चारणप्रसङ्गात् । द्विरुच्चारणप्रसङ्गमेव
प्रति
पादयितुमादिप्रस्थानमाचरति । दूषणेत्या 16b2 दिना । यदि वचनानुक्रमघोषणं
न करोति निर्विषयमिदानीं दूषणम्प्रसक्तमित्याह । नान्तरीय
कत्वा
द्16b3
दूषयता विषयोपदर्शनं क्रियत एव । कथम्प्रतिदोषवचनं दोषवचनं दोषवचनम्प्रति ।
यो यो दोषो भण्यते तस्य तस्य विषयः कथ्यत इत्य
र्थः । इदमेवाह अस्य वाद्युक्त
स्यायन्दोष इति । किम्पुनः कारणं सर्व्वप्रत्युच्चार्ययुगपद्दूषणन्नोच्यत इति चेदाह ।
नही 16b3 त्यादि । कुतः प्रत्यर्थं दो
72b षभेदात्
। विषयवद् भिद्यते दोष इति
117 यावत् । एवमारचितादिप्रस्थानो द्विरुच्चारणप्रसङ्गम्प्रदर्शयति सकृदेवाप्रघुष्टो
न । सर्व्वानुभाषणेस्य प्रदर्शिते वि
षयदोषस्य वक्तुमशक्यत्वात् । केवलमिदं
निःप्रयोजनपराजयाधिकरणं चेत्याह । दूषणवादिना दूषणे वक्तव्ये 16b6 सति
यत्र सर्व्वानुक्रमभाषणं तत्र
परपक्षक्षोभेनोपयुज्यते तस्याभिधानमिदन्द्विरुक्तपदो
द्भावनञ्चेत्येवं व्यत्याशेन153पदविन्यासः कार्य इति तस्मात्सर्व्वानुक्रम
भाषणम्पराजया
धिकरणं वाच्यं अत्रेदानी माक्षपादः सर्व्वमिदं दूषणमनभ्युपगमेनैव
पूर्व्वपक्षस्यास्माभिः प्रतिव्यूढमिति मन्यमानोऽभ्यनुजानाति । तथास्त्वि
16b7
ति
। स्यादेतदित्येतदेव व्याचष्टे । यतः कुतश्चिदि 16b7 ति साधनार्थ
विवरणस्य व्याजेन प्रतिज्ञादिष्वर्थविशेषणपरम्परोपक्षेपेण चाप्रसङ्गात् अनं

तरीयकाभिधानं 16b7 रूपसिद्धिनामादिव्याख्यानकल्पत्त्वाद्वादिनोऽर्थान्तर
गमनमेवेति स तेन निग्रहार्हः । प्रासङ्गिकं ब्रुवाणः किमिति निगृ
ह्यत
इति चेदाह । नहि कश्चित् क्वचित् क्रियमाणप्रसङ्गो न प्रयुज्यते ।
यथोक्तम्प्राक् नैरात्म्यवादिनः । तत्साधने नृत्यगीतादेरपि प्रसङ्ग इति । नापि
तद्यद्वादि
ना प्रसङ्गत्वेन आहितं । तस्य प्रतिवादिनो ऽनुभाषणीयं 16b8
अनुपयुज्यमाण154त्वन्नै वानु भाषणमर्हतीत्यर्थः । तदेतेन यत्पूर्वमुक्तं यदि नाम
वादी
स्वसाधनार्थविवरणव्याजेने
15b10 त्यादि तदभ्यनुज्ञातं । संप्रति यदुक्तं
तत्रापि न सर्व्वं क्रमेणोच्चारयितव्यं । पश्चाद् दूषणम्वाच्यं द्विरुच्चारणप्रसङ्गादिति
तदनु
73a जानाति । न चेदमप्यस्माभिरि त्या 16b8 दिना ।


118

आचार्य आह । यदि भवद्भिरप्ये155 मेवेष्टमेवन्तर्हि नाननुभाषणम्पृथ
ग्वाच्यं
16b9 । कस्मात् प्रतिभयागत्वात् । गतत्त्वमेव प्र
तिपादयति ।
उत्तरस्य ह्यप्रतिपत्तेरप्रतिभा न्या० सू० ५।२।१८ । ततः कथङ्गतमित्याह ।
चोत्तरविषयमप्रदर्शयन् प्रतिवाद्युत्तरं प्रतिपत्तुं ज्ञातुमभिधातुं वा समर्थः ।

किमिति न शक्त इत्याह । न हीत्यादि । चोत्तरप्रतिपत्तिरुत्तरा प्रतिपत्तिरि
त्यर्थः । सा नाक्षिप्ता येनाननुभाषणेन तत्तथा । प्रतिषेधद्वयाद्विध्यवसीय
आक्षि
प्तोत्तराप्रतिपत्तिकमेवेति । एतदुक्तम्भवति । यो हि नामोत्तरम्प्रतिपद्यतेऽतोवश्यं
तद्विषयमप्यवेत्यस्येदं दूषणमिति परिज्ञानात्
परिज्ञातविषयश्च कथं सचेतनो
न तमनुभाषते । तस्माद्यत्राननुभाषणन्तत्राप्रतिभयाभाव्यमिति सा तस्य व्यापिका
तरूरिवखदिरस्य
तस्याश्च विहितं निग्रहस्थानत्वं व्याप्येऽननुभाषणे तदा
क्षिपतीत्येतन्निगमनव्याजेनाह । तेनेत्यादि । अत्रैव दृष्टान्तं ब्रूते गव्यपरामृष्ट

तद्भेदायां सामान्यभूतायाम्विहितमिवसा156स्नादिमत्त्वत्तद्व्याप्तबाहुलेयेऽपि
लब्धमिति वर्त्तते । प्रयोगः पुनर्यदेकविधानसामर्थ्यादनुक्तमपि लभ्य
ते । ननु
भूयः प्रेक्षापूर्वकारिणा विधातव्यं । तद्यथा गोजातौशा157स्नादिमत्वविधानसाम
र्थ्यात् प्रतिलब्धं तर्ह्येषुशा158स्नादिमत्वं । अप्रतिभानिग्रहस्थान
त्वविधान
सामर्थ्यात् प्रतिबद्धश्चाननुभाषणनिग्रहस्थानत्वमिति व्यापकविरुद्धोपलब्धिः
ननु च विषयं विषयश्च प्रपञ्चोत्तरं प्रतिपद्यमानोप्यति
73b भयकम्पादिभिर्व्याकुलीकृत
चेताः प्रतिवादीनानुभाषते स विषयोऽननुभाषणस्याप्रतिभयानालीढस्तत्कथं सा तस्य
व्यापिका यतोऽयं हेतुः सिद्धो भविष्यति
नैव सम्भवात् । नहि विषयं विषयविषय
ञ्चोत्तरं प्रतिपद्यमानः कुतश्चिद्विभेति वेपते वा तदज्ञानकृतत्वाद् भयवेपथुस्वेदा
दीनां । अथ तथाभूतोऽपि भ
यादिभिराकुलीक्रियते स तर्ह्यादावेव तथाभूतो वाद
मपि कर्तुन्नैव धावति । अपि च । यदि परं बाला एवैवं भूता भवन्ति । न च बाल
व्यवहारानधिकृत्य
न्यायशास्त्राणि प्रणीयन्ते । यद्वैवमप्यप्रतिभायामन्तर्भावो
119 नैव व्याहन्यते । यस्माद्विविधोत्तरा प्रतिपत्तिरुत्तराज्ञानरूपोत्तरानभिधानरूपा
च ।
तस्माद्यत्किञ्चिदेतत् । अथ परोपतापनार्था तथापि किन्त्रिरभिधीयते । किन्तर्हि
कार्य्यमित्याह । साक्षिणामुत्को चोपसङ्क्रमं कर्णें निवेद्या
यमत्रार्थो मया विव
क्षित इत्युत्तरकालं प्रतिवाद्यनाथो वराकः कष्टाऽप्रतीतद्रुतसंक्षिप्तादिभिः
शब्दैरिति शेषः । उपद्रोतव्यः । कस्माद्दु
र्भणाः । अप्रतीताः सिंहलभाषादिवदसं
केतिकाः । द्रुताः शीध्रमुच्चारिताः । संक्षिप्ता सूत्रवाण्टादिवद्वर्त्तुलीकृतार्थाः । आदि
ग्रहणेन गोपिता
र्थानाङ्ग्रहणं । यथा । सत्वादुर्वायुस्ते दिश्यायोतायाञ्चारात्य
स्वन्तं पक्षे नोलंवम्विज्ञायैःवेष्टातोयास्पृष्टेशः शमिति । यथा । संप्रति वादी
उत्तरप्रतिपत्तौ
विमूढ तूष्णीं भवति । पर्षत्प्रतिवादिभ्यां त्रिरभिहितम
विज्ञातमविज्ञातार्थ
न्या० सू० ५।२।९ मित्यत्र श्लिष्टकष्टादिशब्दप्रयोगस्य मुनि
नानिवारितत्वात् नैवमन्यायं कतुं लभ
74a त इति चेदाह । नहि परोपतापक्रम इत्यादि
किञ्च न परोपतापनाय सन्तः प्रवर्तन्ते शास्त्राणि वा प्रणीयन्ते तैरित्युक्तं दुर्जन
विप्रतिपत्य
धिकरणे सतांसा159स्त्राप्रवृतेरित्यत्र । यतश्च परानुपतापयितुं
न सन्तः प्रवर्तन्ते तस्मात्तावद् वक्तव्यं यावदनेन न गृहीतं न त्रिरेव वक्तव्यमित्यधि
कृतं । अथ
वादिना शतधापुनः पुन रभिधाने प्रतिवाद्यतिजडत्वाद् गृहीतुं न शक्नो
तीति निश्चितन्तदाऽग्रहणसामर्थ्ये कथञ्चिन्निश्चिते साधनप्रयोगात्प्रागेव
परि
हर्तव्यो नानेन सहोद्ग्राहयामीति परिच्छिंन160मसामर्थं161। ग्रहणेऽति
जाड्यापरनामकप्रतिवादिसम्बन्धियेन वादिना स तथा । कथं
तथा परिहरन्ना
शक्तः शंक्यत इत्याह । पराणन162साक्षिणः प्रबोध्य नायं शक्तो वाक्यार्थं बोद्धुं
वस्तु त्वेवं व्यवस्थितमिति ॥ ४ ॥


120

अविज्ञा
तञ्चाज्ञान न्या० सू० ५।२।१७ मिति भावे निष्ठाविधानात्
साधनवाक्यार्थापरिज्ञानं निग्रहस्थानं । तत एव भाष्ये टीकाकृतो विवृण्वन्ति
वाक्यार्थविषयस्य विज्ञानस्यानुत्प
त्तिरज्ञानमिति । अस्तु वा कर्मण्येव निष्ठाविधानं
तथापि वाक्यार्थविषयज्ञानानुत्पत्या विशेषि तं वादिप्रयुक्तं वाक्यमेव प्रतिवादिनो
निग्रहस्थान
मिति न किञ्चिद्व्याहन्यते । अन्ये पुनर्विवरणेर्थग्रहणं पश्यन्तः सूत्रे
प्यर्थग्रहणं भ्रान्त्या पठन्ति । अविज्ञातार्थञ्चाज्ञानमिति सोऽन्येषां पाठः । विज्ञा
तार्थं
साधनवाक्यं परिषदा तस्य प्रतिवादिना यदविज्ञातमनवबोधस्तदज्ञान
मित्येवं भावपक्षेऽक्षरविन्यासः । कर्मपक्षे तु तस्येति नाध्याहर्तव्यमेकवा
74b क्यतयैव
तु व्याख्यातं । विज्ञातं पर्षदेति किमर्थं पर्षदाप्यविज्ञाते वादिन एवाविज्ञातार्थ
निग्रहस्थानं भवतीति ज्ञापनाय । निग्रहस्थानत्वे कारणमाह । अर्थे खल्व
विज्ञाते
प्रतिवादी न तस्य प्रतिषेधं ब्रूयादिति । अपरे तूत्तरेण दूषणग्रन्थेन सहैतत् सम्बध्नन्ति
तच्चायुक्तं भाष्यवार्तिकग्रन्थत्वादस्य । गम्यत्वमेव साध
यति यथाऽननुभाषणेऽनु
त्तरप्रतिपत्यैव निग्रहस्थानत्वं कथमुत्तराप्रतिपत्तिरित्याह । अप्रदर्शितविषयत्वा
त्प्रतिवादिनोत्तरप्रतिपत्तिरशक्येति
कृत्वाऽप्रदर्शितो विषयो येनेति विज्ञेयं विशे
षणसमासो वा । तथाहि दूषणस्य विषयख्यापनार्थमनुभाषते तञ्च परित्यज्य
यद्यदेव वा
दिनाऽनुद्ग्राहितमालजालमनुभाषते । तदानीमुत्तरविषयप्रदर्शनप्रसङ्ग
मन्तरेण तथाभूतस्यानुभाषणस्य वैयर्थ्यादशक्येतिवर्तते । अ
नुग्रहप्रतिपत्यैव निग्रह
स्थानत्वमिति वा । दार्ष्टान्तिकमुपसंहरति । तथा ज्ञानेऽप्युतराप्रतिपत्यैव निग्रह
स्थानत्वमिति । यस्मादजानन् प्रति
वादिदूषणतद्विषयौ कथमुत्तरविषयञ्च
ब्रूयात् । उत्तरविषयो दूष्यः । क्वचित्तु पाठः । कथमुत्तरमुत्तरविषयञ्चोतरमिति ।
अत्रैवं यदसम्ब
न्धः । अजानन्नुत्तरविषयञ्च कथमुत्तरम्ब्रूयादिति । तस्माद्विषया
ज्ञानमुतराज्ञानञ्च निग्रहस्थानमप्रतिभयैव गम्यत्वात् । अवाच्यमिति वर्तते किं

कारणमन्यथैवमनिष्प्रमाणे सत्यप्रतिभाया निर्विषयत्वात् । कथं निर्व्विषयत्वमित्याह ।
121 अनवधारितार्थो हीत्यादि । अनवधारि
75a तोर्थपूर्वपक्षस्योत्तरस्य च येन प्रतिवादिना
स नानु
भाषेत् । अननुभाष्यमाणश्चासौ विषयमप्रदर्श्योत्तरं प्रतिपत्तुन्न शक्नुयादित्यत
उतरन्न प्रतिपद्येत । न जानीयान्नाभिदध्याद्वा । कस्मादुत्तरविषययोरज्ञाने सत्युत्तरा
प्रतिपत्तिरित्यत आह ज्ञानोत्तरतद्विषयस्योत्तराप्रतिपत्तेरसंभवादिति । ज्ञाता
उत्त
रतद्विषयो येनेति वृत्तः । तस्मादुभयमेतदुत्तराज्ञानं । विषयाज्ञानञ्च प्रति
पत्तेरप्रतिभापरपर्य्यायायाः कारणं । ननु चोत्तराज्ञानमेवाप्रतिभा त
त्कथं सैवा
त्मनः कारणत्वेनोपदिश्यते । नोत्तरानभिधानलक्षणाया अप्रतिभासाया विवक्षित
त्वात् । तदभाव इति तयोरुत्तरविषयाज्ञानयोरभा
वे सति प्रतिपत्तिरभिधान
मुत्तरस्य भवत्येव । इति तस्मात्तयोर्विषयाज्ञानोत्तरज्ञानयोरज्ञानसंज्ञितेन निग्रह
स्थानेनाप्रतिभा निग्रहस्थाना
त् पृथक्वचने सत्यप्रतिभायाः को विषय इति
वक्तव्यं । न चेद्विषयो भण्यते । तदा निर्विषयत्वादवाच्यैव स्यादप्रतिभा । तयोर
ज्ञानानुभाषणयो
ः पृथग्वचन इत्यन्ये व्याचक्षते । अज्ञानाप्रतिभयोर्विषयभेदव्यव
स्थापनाय परः प्राह । नोत्तरज्ञानमज्ञानमुच्यते । यतोऽप्रतिभा निर्विषयत्वादवा

च्यम्भवेत् । किन्तर्ह्यज्ञानमित्याह । विषयाज्ञानं । एवमपि कथमप्रतिभा विषय
वती भवतीत्याह । ज्ञाते विषये सत्युत्तरकालमुत्तराज्ञानात् । प्रतिवादी त
दुतरन्न
प्रतिपद्येत न ब्रूयात् । अतोऽस्ति विषयोऽप्रतिभायाः । अज्ञानाक्रान्तः । एवमप्य
वाच्य
75b त्वान्नमुच्यस इत्याह । एवन्तर्हीति । अज्ञानेनानुभाषणस्याक्षेपमेव साधयति ।
नहि विषयं सम्यक् प्रतिपद्यमानः कश्चित् सचेतनो नानुभाषेतेति नानुभाषणम

ज्ञानात्पृथग्वाच्यं । अपिचैवमप्रतिभाप्यननुभाषणवदज्ञानात्पृथग्नवाच्येत्याह । उत्त
राज्ञानस्य चाक्षेपादिति
। इदं व्याचष्टे विषये त्यादिना । ज्ञाते विषय
इत्यादि परः ।
122 इदमुक्तम्भवति द्विधोत्तराज्ञानविषयाज्ञानसहचरञ्च विषयज्ञानसहचरञ्च । तत्रा
द्यस्य विषयाज्ञाने नाक्षेपेऽप्युत्तरमनाक्षिप्तमेव
ततो द्वितीयापेक्षयाऽप्रतिभायाः
पृथगुपादानमिति । अनवस्थैव निग्रहस्थानानां प्रसज्यत इत्याह । एवन्तर्ही
त्यादि । यथेत्याद्यस्यैव वि
भागः । तथा ज्ञानयोरपीति विषयोत्तराज्ञानयोरपि ।
सर्व्वस्योत्तरस्य विषयस्य चाज्ञानं । आदिग्रहणेन द्वित्रिचतुर्भागाद्यवरोधः । वि

योत्तराज्ञानयोः सङ्ग्रहवचने दोष इति चेदाह । न चेति । यथा न दोषस्तथागुणोपि
नास्तीति चेदाह । गु णश्च लाघवसंज्ञः स्यादिति सं
ग्रहवचनं न्याय्यं । अप्रतिभा
विषयत्वान्न पृथग्वचनं । अप्रतिभावचनेनैवानयोः सङ्ग्रह इत्यर्थः । न केवलमन
योरेवापृथग्वचनं । न्याय्यमपि त्वन्ये
षामपीत्याह । अपि चेत्यादि । तदुभयवच
नेनैवेति । हेत्वाभासाऽप्रतिभयोरेव वचनेन सर्वप्रतिज्ञाहान्यननुभाषणाद्युक्तं । नहि
कश्चिद्ध्यन्यस्साधनवादी
प्रतिपक्षधर्ममभ्युनुजानाति प्रतिज्ञाम्वा प्रतिज्ञासाध
नायोपादत्त इत्यादि वाच्यं । तदा न कञ्चिद्दूषणं व्यक्तमेव यन्नानुभाषते ।
कथां विक्षिपति । परम
76a तञ्चानुजानातीदि163वक्तव्यं । तदुभयाक्षेपेपि प्रपञ्चो
गुणवानतस्तदवचनादरोमुनेरिति चेदाह । तदुभयाक्षिप्तेषु प्रभेदेषु गुणातिशयम

न्तरेण । अनुपलभ्यमानत्वाद् गुणस्य प्रपञ्चवचनादरेऽतिप्रसङ्गात् । कक्षपिट्टिता
123 दीनामभिधानप्रसङ्गात् । अतो व्यर्थः प्रपञ्चो महामुनिनाक्रियत
॥ ० ॥


परपक्षप्रतिषेधे कर्तव्ये उत्तरं दूषणं यदा न प्रतिपद्यते न वेत्ति नाभिदधाति
तदा निगृहीतो वेदितव्य इतीयान् परग्रन्थः । साध्वेतन्निग्रहस्थानं । अतएवास्मा
भिरपीदमदोषोद्भावनमित्यत्रोक्तमित्येतत् मत्वाऽभ्यनुजानाति । साधनेत्यादि
साधन वचनानन्तरं प्रतिवादिना दूषणम्वक्तव्यं । स य
दा सर्व्वं तदकृत्वा सर्व्वा
नुक्रमानुभाषणेन श्लोकपाठेन सभासम्वर्ण्णनेनान्येन कालन्नयति तदासौ व्यर्थं
निष्प्रयोजर्न कालङ्गमयन्कर्त्तव्यस्य दूषणाभि
धानस्य प्रतिपत्त्याऽननुष्ठानेन निगृ
ह्यते । व्यर्थस्येदं क्रियायाः कालस्य विशेषणं ॥ ० ॥


कार्यव्यासङ्गः कर्णीयोपन्यासः कथाविच्छेदः क
थानिवृत्तिः । यथा जीर्ण्ण
कला मे बाधते । सम्प्रति वक्तुँ न शक्नोमि पश्चात् कथयिष्यामीति एवमादिना
प्रकारेण कथामुद्ग्राहणे काचिच्छिनत्तिः । निग्रहस्थाने
कारणमाह । एकतरस्य
वादिनः प्रतिवादिनो वाऽसाधनाङ्गवचनेनादोषोद्भावनेन च निगृहणन्ती निग्रह
पर्यवसाना कथा । तस्याञ्च तथाभूतायां प्रस्तुता
यां स स्वयमेव कथांतं कथा
पर्यवसानं प्रतिपद्यत इति निग्रहस्थानमेतत् । अत्राचार्योब्रूत इदमपि कार्यव्यास
ञ्जनं यदि तावत् पूर्वपक्षवादी कुर्यात्
76b साधनाभिधानशक्तिविकलत्वाद् व्याजो-
पक्षेपमात्रेण येन केनचिच्छलेनेत्यर्थः । न पुनर्भूतस्य तथाविधकथोपरोधिनः
कार्यस्य भावे सति कुर्यादिति वर्त्तते । तथा वि
धामुद्ग्राहणिकारूपाङ्कथामुपरोद्धुं
शीलं यस्य कार्यस्याजीर्ण्णकला कुक्षिशूलगेहु 164 दाहाद्यैस्तत्तथा । यदि सद्भावे
नैव तस्य तस्याम्वेलायां कुक्षिगलशूलगेहु 165 दा
हादयो भवन्ति तथा सति नैव
निग्रहस्थानमित्यर्थः । यदा पुनर्व्याजमात्रेणैव करोति तदा तस्य पूर्व्वपक्षवादिनः
124 स्वसाधनासामर्थ्यपरिच्छेदादेव विक्षेप
ः स्यात्ततः किमित्याह । तथा चेदं विक्षेप
सञ्ज्ञितन्निग्रहस्थानमर्थान्तर एवान्तर्भवेत् । रूपसिद्धिनामादिव्याख्यानसमान
त्त्वात् करणीयोपन्यास
स्य । हेत्वाभासेष्वेवान्तर्भवेदित्यधिकृतं । कस्मादसमर्थञ्च
तत्साधनञ्च तस्याभिधानात् । किञ्चेदं निरर्थकापार्थकाभ्यां सकाशान्न भिद्यते ।
किं
कारणं प्रकृतञ्च तत्साधनञ्च तेनासम्बद्धा च सा प्रतिपत्तिश्च ततः साधन
वाक्येन सहास्य दशदाडिमादिवचनस्येव जबगडादिवर्ण्णक्रमस्येव च
सम्बद्धानुप
लम्भादित्यर्थः । किञ्चिन्मात्रभेदान्निमित्तलेशेन पृथगुक्तमिति चेदाह । अति
प्रसङ्गश्चे
त्यादि । असम्बद्धासाधनवाक्येन प्रतिपत्तिर्येषां
प्रतिभेदानान्तेऽसम्बद्ध
साधनवाक्यप्रतिपत्तयः । ते च ते प्रभेदाश्च तेषामिति कार्यं एवन्तावत् पूर्वपक्षवादि
सम्बन्धेन विक्षेपस्य पृथगनभिधान
मुक्तं ॥ अधुना प्रतिवादिसम्बन्धेनाप्याह ।
अथोत्तरपक्ष वाद्येवं बलासकलात्मकण्ठं क्षिणोतीत्यादिना प्रक्रमेण कथां विक्षिपेत्
तदानीन्तस्याप्यु
77a त्तरपक्षवादिनः साधनानन्तरमुत्तरे प्रतिपत्तव्ये सति तदप्रतिपत्त्या
तस्योत्तरस्यानभिधानेन विक्षेपप्रतिपत्तिर्यासाऽप्रतिभायामर्थान्तरे वान्तर्भवती
ति
परस्तु यथोक्तमन्तर्भावमसहमानश्चोदयति ।


ननु नावश्य मिति तदेव द्रढयति भवति ह्यनिबद्धेनापि साधनवाक्येनास
म्बद्धे नापि कथाप्रबन्धेन
परप्रतिभाहरणायान्तशो जननीव्यभिचारचोदनेनापि
विवाद इति । आचार्य आह । नासम्भवादेवंविधस्य विवादस्य । यस्मादेकत्र
शब्दादावधिकर
णे नित्यत्वानित्यत्वादिप्रतिज्ञानाविरुद्धावभ्युपगमौ ययोर्वादिप्रति
वादिनोस्तयोर्विवादः स्यात् । कुत एतदित्याह । अविरुद्धावभ्युपग
मौ ययोस्तौ
125 तथा न विद्येते विरुद्धाविरुद्धयोरभ्युपगमौ ययोः पुरुषयोस्तावभ्युपगमौ । तयो
र्विवादाभावात् । तत्रैतस्मिन्व्यवस्थिते न्याय
निर्धारणे वा तत्र शब्दः ।
एकस्य वादिनः प्रतिवादिनोवश्यं प्राग्वचनप्रवृत्तिः । यौगपद्येन किन्न ब्रूत
इत्याह । युगपत्प्रवृत्तौ स्वस्थात्मना
मप्रवृत्तेरिति सम्बन्धः । एतदेव कुत
इत्याह । परस्पर वचन श्रवणावधारणोत्तराणामसम्भवेन करणभूतेन प्रवृत्ति
वैफल्यात् । यदि हि परस्परवच
नस्यासङ्करेण श्रवणम्भवेत्ततस्तदर्थमवधार
यत्युत्तरञ्च । युगपत्प्रवृत्तौ च दिगम्बरपाठकलकल इव सर्व्वमेतन्न संभवति तस्मा
दवश्यमेकस्य प्राग्वचन
प्रवृत्तिः । अतस्तेन च स्वस्थात्मना पूर्व्वपक्षवादिनाऽनित्यं
शब्दं साधयामीत्यादिना स्वोपगमोपन्यासे कृते सत्यवश्यं साधनं वक्तव्यं । अन्यथेति
हेत्वनभिधा
77b ने परेसां166साक्षिप्रभृतीनामप्रतिपत्तेः । अपरेण चेत्युत्तरपक्ष-
वादिना तत्सम्बन्धिवादिप्रोक्तसाधनसम्बन्धि दूषणं वक्तव्यमिति वर्त्तते
तस्मादुभयोर्वादिप्र
ति वादिनोरसम्यक् प्रवृत्तौ सत्यां हेत्वाभासाप्रतिभयोः
संग्रह इति सर्व्वो न्यायप्रवृत्तः पूर्व्वोत्तरपक्षोपन्यासो द्वयं हेत्वाभासाप्रतिभाञ्च
नातिपतति ।


ननु च यदि न्यायः प्रवृत्तः कथन्तत्रास्य द्वयस्याधिकारः । कथञ्चैकत्र
धर्मिणि विरुद्धावुपन्यासौ न्यायप्रवृत्ताववश्यं हि तत्रैकेनोपन्यासेन न्यायं प्रवृत्तेन
भाव्यं । अन्य
था धर्मीद्व्यात्मको भवेत् । नाभिप्रायापरिज्ञानात् । नेदम्भवता
न्यायप्रवृत्तत्वमाचार्येण विवक्षितं पर्यज्ञायि । न्यायप्रवृत्तौ167 हि पूर्व्वोत्तरपक्षोप

न्यासस्य युगपत्प्रवृत्यभावेन जननी व्यभिचारवेदनाद्यभावेन चाभिप्रेतं । एतेनैकत्र
ह्यधिकरणे विरुद्धाभ्युपगमयोर्विवादः स्यादित्यादि
ना वितण्डा प्रत्युक्ता । कथं
प्रत्युक्तेत्याह । अभ्युपगमाभावे विवादाभावात् । इदमुक्तम्भवति । स्वपक्षस्थापना
हीनो वाक्यसमूहो वितण्डे
त्युच्य
ते न्या० सू० १।२।३ । यदि चवैतण्डिक्रस्य
126 स्वपक्षो नास्ति विवादस्तर्हि कथमिति वक्तव्यं । परपक्षप्रतिषेधार्थम्वैतण्डिकः
प्रवर्त्तत इति चेत् । परपक्षप्रतिषेध एव तर्ह्यस्य
स्वपक्षस्थापनेति वितण्डालक्षणं
विशीर्यते । तथा हि यो येनाभ्युपगतः स तस्य स्वपक्षः । परपक्षप्रतिषेधश्च तेनाभ्युप
गतः स्वपक्षतां नातिवर्तत इति ।
यदा तर्ह्युपगम्य वादं प्रतिज्ञामात्रेण विफलतया
परिषच्छारद्येन व्याकुलीकृतत्त्वादित्यर्थः । न किञ्चित् साधनं तदायासं वा वक्ति ।
अन्यद्वा किञ्चित् प्रलप
78a ति । साधनतदाभासव्यतिरिक्तं काको विरूपं विरौति
नूनमयं मे गेहे विपदं सूचयति तदलमनेन विवादेन । यामि तावद् गेहे किन्नु मे पितु
र्मरणमन्यद्वा वर्त्तत इत्या
दि । तथा कथं हेत्वाभासान्तर्भावः । साधनाभावाद्धेत्वा
भासासम्भवं मन्यते । उत्तराप्रतिपत्तिरपि नास्त्येव पूर्व्वपक्षवादित्वादित्यभिप्रायः ।
तदनेन द्वयन्नातिपतती
त्येतद्विघटयितुमिच्छति परः । आचार्य आह । असमर्थित
साघनाभिधान एवमुक्तं द्वयं नातिपततीति
प्रोक्तसाधन एतदुक्तमिति यावत् ।
अप्रोक्ते तु कथं प्रतिपत्त
व्यमित्याह । अनभिधानान्यभिधानयोरपि सतोः पराजयः
एवेत्युक्तं प्रकरणावतार एव । तदेव स्मरयति । अभ्युपगम्यवादमसाधनाङ्गवच
नादिति ।
तथाहि तत्र व्याख्यातं । साधनाङ्गस्यानुच्चारणं । साधनाङ्गाद्वा य
दन्यस्याभिधानं तत्सर्व्वमसाधनाङ्गवचनमिति । एतेनेत्यन्याभिधानेन पराजय
वचने
नाधिकस्य पुनरुक्तस्य च प्रतिज्ञादेर्वचनस्य च निग्रहस्थानत्वं व्याख्यातं ।
कथमित्याह । तदपि हीत्यादि । अनेनैतदाह । यद्युक्तियुक्त मक्षपादेन किञ्चि
न्नि
ग्रहस्थानमुक्तन्तदस्माभिरसाधनाङ्गवचनपदेनैव संगृहीतमिति यद्येवं प्रतिज्ञा
देर्वचनस्य चेति किमर्थयुक्तन्नहि प्रतिज्ञोपनयनिगमनानां वचनन्नि
ग्रहस्थान मक्ष
पादे
नोक्तं । प्रत्युत तदवचनमेव निग्रहस्थानतया । यदिष्टं हीनमन्यतमेनाप्यव
यवेन न्यून
न्या० सू० ५।२।१२ मिति । एवं तर्हि दृष्टान्तार्थमेतद्यथा तस्याप्रतीत

प्रत्यायनशक्तिविकलत्वादसाधनाङ्गवचनपदेनाभिधानं । तथाधिकपुनर्वचनयो
रपीति । तत एव च द्वितीयश्चकार इव शब्दार्थे वर्त्तते । अन्यथा पुनरु
78b क्तस्य चेत्ययं
बोध्यर्थः स्यात् । केचित्तूत्तरञ्चकारन्न पठन्ति । तैः पुनरुक्तव्याख्यानमेव
प्रतिज्ञादेर्वचनस्य चेत्येतद् व्याख्येयं । एवमपि न युक्तमक्षपादेनैवम्विधस्य पुन
रुक्त
स्यानिष्टत्वान्नास्ति दोषः । पूर्व्वतुल्यधर्मतयाऽस्यापि पुनरुक्तेऽन्तर्भावितत्वात् ॥ ० ॥


127

स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो मतानुज्ञा न्या० सू० ५।२।२०
18b3 दोषपरि
हारे वक्तव्ये दोषस्यापरिज्ञानात् परमतमनुजानात्यतो नि
गृह्यते । तदाह परेण वादिना चोदितं पर्यनुयुक्तं दोषमनुवृत्या परिहृत्य भवतोप्ययं
दोष इति ब्र
वीति । यथा भवांश्चौरः पुरुषत्वा 16b4 च्छवरादि वदि त्युक्ते
वादिना स प्रतिवादी तं वादिनं प्रतिब्रूयात् । भवानपि चौर इति सोपि
शब्दप्रयोगादात्मनश्चौर
त्वमभ्युपगम्य परपक्षे तन्दोषमासञ्जयन्नापादयत्यपरेण
वादिना यन्मतं प्रतिवादिनश्चौरत्त्वं तदनुजानाति । तथा हि ते न मुक्तसंस168
यन्तावदात्मन
श्चौरत्त्वं प्रतिपत्तुमन्यथा नापि तमभिदध्यात् । वादिनि तु
तदस्तिनास्तीति चिन्त्यमतो मतानुज्ञा निग्रहस्थानं । इदमाचार्यो निराकरोति ।
अत्रापि
18b5 यद्ययमभिप्राय उत्तरवादिनः पुरुषत्वाच्चौंरो भवानपि स्यादह
मिव । न च भवतात्मैवं चौरत्वेनेष्टस्तन्नायं पुरुषत्वादिति चौर्ये साध्ये हेतुरचौ
रेपि भव
ति विपक्षभूते वृत्तेरनैकान्तिकदोषदुष्टत्वादिति । तदस्मिन्प्रतिवादिनोऽभि
प्राये न कश्चित्तस्य दोषो मतानुज्ञालक्षणोऽन्यो वा । कस्मादनभिमते चौरत्त्वे न
रू
पेण तस्य वादिन आत्मनि विपक्षभूते हेतोः सत्वप्रदर्शनेन प्रकारेण दूषणात् ।
विदग्धभङ्गाव्यभिचारोद्भावनादिति यावत् । औद्योतकरं 169चोद्यमाशङ्कते
79a
प्रसङ्गमन्तरेण भवानपि स्यादित्येवमाञ्जसेनैव मृजुनैव क्रमेण किन्न
व्यभिचारितो हेतुस्त्वय्यपि अचौरे वर्त्तते पुरुषत्वमतोऽनैकान्तिकत्वमिति ।
तस्माद्यत
एवासावकौटिल्ये कर्तव्ये कौटिल्यमाचरति तत एव निगृह्यत इति ।

128 आचार्य आह । यत्किञ्चिदेतद 18b6 औद्योतकरं वचो यस्मात् सन्ति ह्येवं
प्रकारा वैदग्ध्यप्रवर्तिता व्य
वहारा लोके । तथा हि मातरो भावत्क्यो बन्धक्यः
स्त्रीत्वादितरबन्धकीवदित्युक्ताः पशुपालादयोपि जडजनङ्गमादिजनसाधारणं
वैदग्ध्यमनुसरं
तः प्रत्यवतिष्ठन्ते । तावकीनापि माता तथा स्यादिति न च तेऽनेन
प्रकारेण स्वस्याः स्वस्या मातुर्बन्धकीत्वं प्रतिपद्यन्ते । अपि तु भङ्ग्या हेतुव्यभि
चार
चोदनया परं प्रतिवदन्ति । तस्मादेवं बालहालिकादिलोकप्रकटमपि व्यवहारालोक
मपसारयता यदि परमुद्योतकरत्वमेवो द्योत
करेण
उद्योतितमात्मनः । अथोच्यते
नैवासौ भंग्या व्यभिचारमादर्शयत्यपि तु तस्य साधनस्य सम्यक्त्वमभ्युपगम्यैव तेन
दोषेण परमपि
कलङ्कयतीत्यत आह । अथ तदुपक्षेप पुरुषत्वाद् भवांश्चौर इत्ये
नमभ्युपगच्छत्येव तदाप्यसौ तत्साधन उत्तराप्रतिपत्यैव निग्रहार्हो नापरत्र
वादिनि
स्वदोषस्य चौरत्वस्योपक्षेपात् । निग्रहार्ह इति वर्त्तते । इदमेवोपोद्बलयति ।
तत्साधननिर्दोषतायां 18b8 ह्यंगीकृतायामिति शेषः । तस्योपक्षेप
स्याभ्युपगम
एव यः स एवोत्तराप्रतिपत्तिरिति तावतैवोत्तराप्रतिपत्तिमात्रेणैवापरत्र दोषप्रसञ्ज
नात् । पूर्वसाधननिग्रहस्य सतः प्रतिवादि
79b नः आपन्नः प्राप्तो निग्रहो येन तस्येति
चेति विग्रहः । परदोषोपक्षेपस्य मतानुज्ञालक्षणस्यानपेक्षणीयत्वात्पराजितपराजया
भावादिति भावः ॥ ० ॥


निग्र
हप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं
18b9 पर्यनुयोज्यो नाम निग्रह
प्राप्तस्योपेक्षणन्निग्रहप्राप्तोसीत्यनभिधानं । क पुनरिदं पर्यनुयोज्योपेक्षणं
निग्रहस्थानं
चोदयति । न तावत् पर्यनुयोज्य इति युक्तं । असम्भवात् । न ह्यस्ति
सम्भवो यत् परदोषप्रतिपादनार्थमात्मनो दोषवत्वमसावभ्युपेति । निग्रहप्राप्तः सन्न
129
हमनेनोपेक्षितो निग्रहस्थानस्यापरिज्ञानात् । तस्मादयन्दोषवानिति नाप्युपेक्ष इति
युक्तं । यस्मादसौनि जानात्येवायं निग्रहप्राप्त इति । तथा
ह्यपरिज्ञानादेवासौ नानु
युंक्ते निग्रहं प्राप्तोसीति । परिज्ञाने वा कथमुपेक्षेत । उपेक्षणे वा समचित्तः कथमेवं
प्रकटयेदयं मयोपेक्षितः
स दोषस्ततो मम पर्यनुयोज्योपेक्षणं निग्रहस्थानमिति ।
न चान्यस्तृतीयः कश्चिदिहानुषङ्गी तत्केनेदं चोदनीयमित्येतत् सर्व्वमाशङ्क्य
पक्षिल
स्वामी ब्रूते । एतच्च पर्यनुयोज्योपेक्षणं वक्तव्यञ्चोदनीयङ्कस्य पराजय
इत्येवं वादिप्रतिवादिभ्यां प्रगुणा तदन्यैर्वा पर्यनुयुक्तया पृष्टया सत्या परिषदा

प्राश्निकैर्वक्तव्यमित्यर्थः । च शब्दोऽवधारणार्थः । एतदेव170अन्यानि निग्रह
स्थानानि वादिप्रतिवादिभ्यामेवोद्भाव्यन्ते । एतत्पुनः प्राश्निकैरेव । किं पुनः कार

80a णं ताभ्यामेव नोच्यत इत्याह । न खलु निग्रहप्राप्तः स्वकौपीनं स्वदोषं विवृणुयात्
18b10 प्रकाशयेत् । अत्रापीत्याद्याचार्यः । यदि तु न्यायश्चिन्त्यते तदानैकस्यापि

जयपराजयौ न्याय्यौ । कथं वादिनो जय इत्याह साधनाभासेन जिज्ञासितस्यार्थस्या
प्रतिपादनात् । अत एव न प्रतिवादिनोपि पराजयो वादिविवक्षि
तार्थसिद्ध्यपेक्षया
प्रतिवादिनः पराजयव्यवस्थापनात् । प्रतिवादिनस्तर्हि किं जय इत्याह भूते
दोषानभिधानाच्च 19a1 । अतएव च न वादिनः पराजयस्त
द्दूषणापेक्षया
तद्व्यवस्थितेः । अथोत्तरपक्षवाद्यनेकदोषसद्भावेपि वादिप्रोक्तस्य साधनस्य
कञ्चिद्दोषमुद्भावयति कञ्चिन्न । न तदासौ
निग्रहमर्हति । किङ्कारणमुत्तरस्य
प्रतिपत्तेरभिधानादित्यर्थः । पर आह । अर्हत्येव निग्रहं सर्व्वेषान्दोषाणामनु
द्भावनात् । आचार्य आह । न खलु
भोः सन्त इति कृत्वा सर्व्वे दोषा अवश्यं
वक्तव्याः प्रतिवादिना
। अवचने वा दोषान्तरस्य निग्रहो भवति नेति वर्त्तते ।
कस्मात् सर्व्वे दोषा नोद्भाव्यं
त इत्याह । एकेनापि 19a2 दोषेणासिद्ध
त्वादिनोद्भावितेन न तस्य वादिप्रयुक्तस्य साधनस्य विघातात् । साध्यसिद्धिं
प्रत्यसमर्थत्वप्रतिपादनादित्यर्थः । भाव
साधनो वा साधनशब्दः । अत्रैव दृष्टान्त
130 माह । एकसाधनवचनवदिति 19a3 । यथेत्याद्यस्यैव विभागः । एकस्यार्थस्य
क्षणिकत्वादेः प्रतिपादनायानेकस्य
साधनस्य सत्वकार्यत्वप्रयत्नोत्थत्वादेः सद्भावेपि
सत्येकेनैव सत्वादीनामन्यतमेनोपात्तेन तस्य क्षणिकत्वादेरर्थस्य सिद्धेर्निश्चयान्न
सर्व्वेषां साधना
81a नामुपादानं । तथैकेनापि दोषेण तत्साधनविघातान्न सर्व्वोपादान
मितीदन्दृष्टान्तेन साम्यं । इति तस्मान्नोत्तरपक्षवादी पूर्व्वमेकं दोषमुद्भावयन्नेवापर

स्य दोषान्तरस्यानुद्भावनान्निग्रहार्हः । पूर्व्ववदिति साधनाभासेनाप्रतिपादनात् ।
भूतदोषानभिधानाच्च ।


ननु च कथन्न वादिनो जयो यावता न तेन साध
नाभासः प्रयुक्तः । प्रतिवादी
त्वसन्तं दोषमुद्भावयतीत्यत आह । दोषाभासं ब्रुवाणमुत्तरपक्षवादिनं 18a4
स्वसाधनात्सकाशादनुसारयतोऽनिवर्त्तयतस्त
दुक्तदूषणाभासत्वेनाप्रतिपादयत इति
यावत् । वादिनो न जयः कस्मादसमन्वितसाधनाङ्गत्वात् । असमन्वितसाधनाङ्गं
येन तस्य भावस्त
त्वं । एतदेव कुत इत्याह सर्व्वदोषाभाव प्रदर्शनेन साधनाङ्गसम
र्थनात् 19a5 । इत्त्थम्भूतलक्षणे करणे वा तृतीया पाणिनि २।३।२९
असमर्थितत्त्वात् साधना
भास एव तेन प्रयुक्त इति संक्षेपार्थः । नाप्युत्तरपक्षवादिनो
जय इति वर्त्तते । तस्मादेवमपीति यदि पूर्वपक्षवाद्युत्तरपक्षवादिनं
न निग्रहप्राप्तं
निगृह्णाति न केवलमुत्तरवादिसम्बन्धेनेत्यपि शब्दः ॥ ० ॥


निरनुयोज्यस्यानुयोगः 19a6 । अनिग्रहप्राप्ते निगृहीतोसीत्यभिधानं । किं

पुनरेवं ब्रूत इत्याह निग्रहस्थानलक्षणस्य मिथ्याव्यवसायाद्य 19a6 थोक्तस्य
निग्रहस्थानलक्षणस्य सम्यगपरिज्ञानादित्यर्थः । एवञ्चाप्रतिपत्तितो निगृ
ह्यते ।
131 अत्रापीत्याद्याचार्यः । यदि तस्य साधनस्य वादिनमभूतैरलीकैर्दोषैः सव्यभिचारा
दिदोषदुष्टं त्वया साधनं प्रयुक्तं ततो निगृहीतोसीत्येवम
भियुञ्जीत । तदा सोऽस्था
नेऽस्य व्याख्यानं निर्दोषनिग्रहस्थानस्य अस्य विभागादेवास्येति । अभियोक्तेत्यस्य
विवृतिरुद्भावयितेति । तथा चालीकदोष
स्याभिधायित्वे सति दोषोद्भावलक्षण
स्योत्तरस्याप्रतिपत्तेरभिधानादप्रतिभयैव करणभूतयोत्तरवादी निगृहीत इति कृत्वा
नेदन्निरनुयो
ज्यानुयोगाभिधानन्निग्रहस्थानमतोऽप्रतिभानिग्रहस्थानात्सकाशान्न नि
ग्रहस्थानान्तरं । कदा चायमप्रतिभया निगृह्यत इत्याह इतरेण 19a8
वादि
ना तदुक्तस्योत्तराभासत्वे प्रतिपादिते अन्यथा न द्वयोरेकस्यापि पूर्ववज्जयपरा
जयावित्याकूतं । एवं प्रतिवादिसम्बन्धेनास्यापृथग्वच
नं प्रतिपाद्य वादिसम्बन्धेना
प्याह अथोत्तरवादिनं भूतं सत्यं साधनदोषं सव्यभिचारादिकमुद्भावयन्त
मपर इति पूर्वपक्षवादी दोषाभा
सवचनेनाभियुञ्जीत । जात्युत्तरमनैकान्तिकाद्या
भासं त्वया प्रयुक्तं । तस्मान्निगृहीतोसीत्येवं यद्यभियुञ्जीतेत्यर्थः । तदा तस्योद्
भावितस्य दो
षस्य व्यभिचारादेस्तेनोत्तरवादिना भूतदोषत्वे प्रतिपादिते जात्यु
त्तरवत्वे परिहृत इति यावत् । साधनाभासवचनेनैव वादी निगृह्यते इति ॥
तस्मादेवमपि प्र
तिवादिसम्बन्धेनापि नेदं हेत्वाभासेभ्यो भिद्यत इति पृथग्वाच्यं ।
अस्यैवोपोद्वलनमवश्यं हि द्वाविंशतिनिग्रहस्थानवादिना हेत्वाभासाः पृथग् निग्रह
स्था
नत्वेन वक्तव्याः । किमर्थमित्याह । विषयान्तरप्राप्त्यर्थं 19b1 निरनुयो
ज्यानुयोगादिभिर्न्निग्रहस्थानैरनाक्रान्तसङ्ग्रहमपीति अन्यथा द्वाविंशतित्वं निग्र
हस्था
81b नानामभ्युपगमम्विरुद्ध्यत इत्यभिप्रायः । तथा च तदुक्तौ तेषां हेत्वाभासानां
निग्रहस्थानेनोक्तौ सत्यामपरोक्तिः । अपरस्य निरनुयोज्यानुयोगस्योक्तिर्निरि
र्थका
हेत्वाभासवचनेनैव संगृहीतत्वात् ॥ ० ॥


132

सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्त इति 19b1 सूत्रं
सिद्धान्तमभ्युपेत्य पक्षपरिग्रहं कृत्वाऽनियमात् पूर्वप्रकृतार्थोपरोधेन शास्त्रव्यवस्था
मनादृत्येति यावत् । कथाप्रसङ्गोऽर्थान्तरोपवर्णनं । कस्यचिदर्थस्येति धर्मिणो धर्मा
न्तरं प्रतिज्ञाय प्रतिज्ञातार्थ
विपर्ययो विरोधः । इदं उदाहरणेन स्पष्टयति । यथा न
सतो वस्तुनो विनाशो
19b2 निरन्वयः केवलं तिरोभावमात्रं भवति नासत्
खरविषाणतुल्यमु
त्पद्यते । किन्तर्ह्याविर्भावतः । सदेवोत्पद्यत इत्येवं कापिलः सिद्धा
न्तव्यवस्थामादर्श्य पक्षङ्करोति । एका प्रकृतिर्व्यक्तस्याव्यक्तलक्षणा । व्यक्तस्येति

हदादेः । अत्र हेतुमाह विकाराणां शब्दादीनामन्वयदर्शनात् । मृदन्वयानामि
त्यादिदृष्टान्तः । तथा चायमित्युपनयनः171सुखदुःखमोहसमन्वित 19b3
इति
सुखादिमयत्वं दर्शयति । दर्शितञ्च सुखादिमयत्वं व्यक्तस्य पूर्वं यथासांख्येना
भिमतं । तत्तस्मात् सुखादिभिरेकप्रकृतिरित्ययं व्यक्तभेदः । इति निगमनं
सुखादि
भिरितीत्त्थंभूतलक्षणे तृतीया । सुखादिप्रकारा सुखादिलक्षणा । एका प्रकृतिरस्ये
त्यर्थः । अन्ये पठन्ति । एका प्रकृतिर्व्यक्ता व्यक्तविकाराणामन्वयद
82a र्शनादिति ।
एवञ्च व्याचक्षते । एका प्रकृतिरभिन्ना सर्व्वात्मस्वभावा व्यक्ताव्यक्तविकारा
णामन्वयदर्शनात् । ये व्यक्ता विकारा महदादयो ये चाव्यक्ताः प्रधानात्मनि व्यव
स्थितास्तेषा
मप्यन्वयदर्शनादिति । अपरे तु पठन्ति । एका प्रकृतिरव्यक्ता । व्यक्त
विकाराणामिति व्यक्तरूपाणां विकाराणामिति चाहुः । प्रकृतार्थविपर्ययेणेयं
यथा प्रवृत्तेति प्रदर्शनाऽ
र्थमाह स कापिल एवमुक्तवान्पर्यनुयुज्यते
19b4 । अथ प्रकृतिर्विकार इत्येतदुभयङ्कथं लक्षयितव्यं । प्रतिपत्तव्यमिति ।
स एवमनुयुक्तः प्राह । यस्यावस्थितस्य धर्मान्तरनि
वृत्तौ धर्मान्तरम्प्रवर्त्तते सा
प्रकृतिरवस्थितरूपा । यत्तत्प्रवृत्तिनिवृत्तिसद्धर्मान्तरं स विकार इति लक्षयितव्यं ।
परमुक्तवान् साङ्ख्यः प्रकृतार्थपरित्यागदो
षेणोपपाद्यते । सोयम्वादी प्रकृतार्थ
विपर्ययादनियमात् कथाम्प्रसञ्जयति । पूर्व्वप्रकृतं परित्यजतीत्यर्थः । कथमित्याह
133 प्रतिज्ञातं खल्वनेनेति 19b5 पूर्वोक्तं स्मर
यति । यद्येवङ्को दोष इत्याह ।
सदसतो रित्यादि । सतस्तिरोभावमेकान्तेन विनाशमन्तरेण न कस्यचिद्धर्मस्य
प्रवृत्युपरमः सिध्यति । केन चिद्विरूपे
णावस्थाने सति स तिरोहितोऽङ्गस्तस्या
वस्थितस्यात्मभूतः परभूतो वा भवेत् । आत्मभूतत्वे तिरोहितादव्यतिरेकात्
तिरोहितवदवस्थितस्याप्यनवस्थानं
अवस्थितवच्च तदव्यतिरेकतस्तिरोहितस्या
प्यवस्थानमासं172क्यते । परभूतत्वेपि कथमनन्वयो न विनाशो न ह्यन्यस्या
वस्थानेऽन्यदवतिष्ठते । अन्यो वान्यस्यान्वयश्चैतन्यस्याऽ
पि घटान्वयप्रसङ्गात् । तथा
नासत आविर्भावमुत्पादमन्तरेण कस्यचिद्धर्मस्य प्रवृत्तिर्वा सिध्यति ।


ननु च विद्यमानमेव धर्मान्तरमाविर्भाव्यते । ग्रहणविषयभा
82b वमापाद्यते ।
न विद्यमानस्य क्रियास्त्युपादानमिति उपलब्धिर्वा विद्यमानत्वात् । न कारक
जन्यत्वमित्येवं प्रत्यवस्थितः प्रतिषिद्धः साङ्ख्यः । क्वचित् सप्तम्यापद्यते । तत्र
प्रत्य
वस्थिते प्रतिवादिनि सतीति व्याख्येयं । यदि स कापिलः सतो धर्मस्यात्म
हानमसतश्चात्मलाभमभ्युपैति तदानीमपसिद्धान्तो भवति । अभ्युपगमविरुद्धस्य
प्रतिज्ञा
नादपसिद्धान्तसंज्ञकं निग्रहस्थानमस्य भवतीत्यर्थः । अथ सत आत्म
हानमसतश्चात्मलाभन्नाभ्युपैति । एवमप्येकप्रकृतिर्विकाराणामिति योयं पक्षः
पूर्व्वप्रतिज्ञातः सोस्य
न सिध्यति प्रकृतिविकारलक्षणस्यानवस्थितत्वात् । तथा हि
तयोर्लक्षणं यस्यावस्थितस्येत्यादिनोक्तं । तस्य चायोगः । सदसतोश्चे 19b6
त्यादिना प्रतिपािदत इत्येतावा
न्परग्रन्थः । अत्र सम्प्रत्याचार्यः प्रतिविधत्ते ।
इतोपि प्रतिविदध्मह इति शेषः । न कश्चिदनियमात् सिद्धान्तनीतिविरोधात्
साङ्ख्य स्य प्रसङ्गः । तस्माद्यत्तेनोपग
तं नासदुत्पद्यते न सत्तिरोभवतीति
तस्य समर्थनायेदमुक्तं । किमुक्तमित्याह एकप्रकृतिकमिदं व्यक्तमन्वय
दर्शनादिति
19b8 । तत्रैकेत्येतदेव विभजति । तदवि
भक्तयोनिकमिदं
134 व्यक्तं । ते सुखादयोऽविभक्ताः अपृथग्भूता योनिः स्थानमधिकरणं यस्य
व्यवतस्य तत्तदविभक्तयोनिकं किङ्कारणं तदन्वयदर्शनात् । तै सुखादिभि

रन्वयदर्शनात् तादात्म्योपलम्भात् । ततः किं सिद्धमित्याह व्यक्तस्य तत्स्व
भावता सुखादिस्वभावता । तत्र स्वभावतैव कथन्निश्चितेत्याह । अभेदोपलब्धे
19b8 रिति । सुखादिभिः
शब्दादीनामनानात्त्वदर्शनादिति यावत् । एवमपि
किं सिद्धम्भवतीत्याह । सर्व्वस्य 19b9 शब्दादेर्विकारग्रामस्य सुखाद्या
त्मकस्य नोत्पत्तिविनाशाविति सम्भवति । कस्मादि
83a त्याह सुखादीनामुत्पत्ति
विनाशाभावात् । सुखाद्यव्यतिरेकात्तदात्मवच्छब्दादयोपि नित्याः सिद्धा भवन्ति ।
तथा च यत्पूर्व्वमभ्युपगतं नश173तो विनाशो नासदुत्पद्यत इति । तत्समर्थि
तं
भवति । अत्रैवं कापिलेन स्वोपगमे समर्थिते सति तदुक्तस्य तेन साङ्ख्येनोक्तस्य
हेतोरन्वयदर्शनस्य दोषमसिद्धतादिकमनुद्भाव्य स एवमुक्तवान् पर्यनुमुज्यते ।
अथ प्र
कृतिर्निर्विकार इति कथं लक्षयितव्यमित्येवं विकारप्रकृत्योर्लक्षणं पृच्छन्
स्वयमयमक्षपादः प्रकृतासम्बन्धेनानियमात् प्रकृतार्थोपरोधात् कथाम्प्रवर्त्त
यति ।
यस्मात् प्रकृतिविकारयोरिह लक्षणं न प्रकृतमेव तत्किन्तदभिधाय पर्यनुयुज्यते
तस्मादप्रस्तुतपर्यनुयोक्तृत्त्वादक्षपाद एव निग्रहार्ह इति
भावः । किन्तर्ह्यत्रोत्तरसम्बद्ध
वाक्यमित्याह तत्रान्वयदर्शनहेताविदं स्याद् वाच्यं 20a1 । व्यक्तन्नाम प्रवृत्ति
निवृत्तिधर्मकं न तथा व्यक्तवत् सुखादयः प्रवृत्तिनि
वृत्तिधर्मका इति लिङ्गवचन
परिणामेन सम्बन्धः । तथा च व्यक्तस्य सुखाद्यन्वयेऽस्य व्याख्यानं सुखादिस्वभाव
तायां सत्यां प्रवृत्तिनिवृत्तिधर्मतालक्ष
णं व्यक्तस्यावहीयते । तदव्यतिरेकेण तेषा
मपि सदावस्थानात् । इति तस्मान्न तद्रहितसुखादिस्वभावता व्यक्तस्य । ताभ्या
म्प्रवृत्तिनिवृत्तिभ्यां रहितास्तथोक्तास्ते च सु
खादयश्च । ते स्वभावो यस्य तस्य
भावस्तद्रहितसुखादिस्वभावता । कस्मादित्याह व्यक्तलक्षणविरोधादि20a2
135 ति व्यक्तस्य लक्षणं प्रवृत्तिनिवृत्तिधर्मकत्वं तस्य तद्विपरीतः ।
सुखादिभिः परस्पर
परिहारस्थितिलक्षणो विरोधः । तथा च साधनन्न सदावस्थितरूपसुखादिस्वभाव
मिदं ते व्यक्तं प्राप्नोति तद्विपरीतधर्मत्वात् । क्षेत्रज्ञवत्
83b न च सुखादिव्यक्तयोरेक-
स्वभावता । परस्परविरुद्धधर्माध्यासितत्वात् । सत्त्वरजस्तमसामिव चैतन्यानामिव
वा । एवञ्च व्यक्तस्य सुखादिस्वभावतायोगे सुखाद्यन्वयदर्शन
सिद्धो हेतुः । कस्मा
दिदं सम्बद्धं दूषणमित्याह । एवं हि तस्य साङ्ख्यस्य साधनदोषोद्भावनेन हेत्वसि
द्धताचोदनेनैकप्रकृतीदं व्यक्तमित्ययं पक्षो दूषितो भवनि 20a3 । स पु
नर्नैयायिकः
साधने दोषमसिद्धताख्यमनुपसंहृत्यापदर्श्य अप्रकृतप्रकृतिविकारलक्षणपर्यनुयोगेन
कथां प्रतानयत्यविमुञ्चं स्वदोषमन्यमात्कथा
प्रसङ्गं परत्र साङ्ख्ये तपस्विन्यु
पक्षिपति । पर आहायमेवासिद्धताख्यो दोषोनेन प्रकारेण प्रकृतिविकारलक्षण
पर्यनुयोगद्वारेणास्माभिरप्युच्य
त इति । आचार्य आह । एष नैमित्तिकानां 20a3
ज्योतिर्ज्ञानविदां विषयः । नायं त्वदुक्तस्य वाक्यस्यार्थ इति यावत् । यतो न लोकः
शब्दैरप्रतिपादितमर्थं प्रति
पत्तुं समर्थः अर्थप्रकरणादिभिर्विनेत्यध्याहारः । तस्मात् स
एवायं 20a4 प्रतिज्ञाविरोधप्रस्तावे निर्द्दिष्टो भण्डालेख्यन्यायोत्राप्यपसिद्धान्तो
न केवलं तत्रेत्यऽ
पि शब्दः । यथा हि भण्डाः प्राकृतान् विस्मापयन्तः शीघूमर्द्धचन्द्रा
कारामल्पीयसीं रेखामालिख्य भणन्ति पश्यत तालमात्रेण हस्ती विलिखितोस्माभि
रिति तत्र केचि
त् मन्दमतयस्तथैव प्रतिपद्यन्ते । केचिद् दुर्विदग्धधियः पर्यनुयुञ्जते ।
ननु नोस्य कर्ण्णपाददन्तादयः प्रतीयन्ते तत्कथमयन्तद्विकलो हस्ती भवतीति । ते पु
नराहु
ः । सत्यं न प्रतीयन्ते । अस्माभिस्तु समाप्तसकलकलः करेणुरयं लिखितः ।
तास्तस्य सकलाः कलाः सलिल इव मग्नत्वान्नोपलभ174न्ते कुम्भकदेशमात्र
न्त्विदमस्योप
84a लभ्यत इति तथाजातीयकमेतत् परस्यापि धार्ष्ट्यविजृम्भितं । यदि
नाम नायमर्थोस्माद् बाह्यात् प्रतीयते तथाप्यनेन प्रकारेणोच्यत इति । अपि चोच्य
ताम
यमेवार्थोनेन प्रकारेण तथाप्यसिद्धस्य हेत्वाभासेष्वन्तर्भावात् तद्वचनेनैवा
भिधानमिति नापसिद्धान्तः पथगुपादेयो भवेदित्येतदुपसंहारव्याजेनाह । यथो
क्तेन

न्यायेने 20a4 त्यादि ॥ ० ॥


136

हेत्वाभासाश्च यथोक्ता इति सूत्रं । इदमाक्षेपपूर्वकं वात्स्यायनो व्याचष्टे । किं
पुनरिति
20a6 हेत्वाभासलक्षणाद्यदन्यल्लक्षणं तेन सम्बन्धा
न्निग्रहस्थानत्वमा
पद्यन्ते । किमिवेत्याह । यथा प्रमाणानि प्रमेयत्त्वं लक्षणान्तरवसा175दापद्यन्त
20a6 इति वर्त्तते तानि हिप्रमिति क्रियाया कारणत्वात् । प्रमा
णानि प्रमाणा
न्तरेण तु यदा प्रमीयन्ते तदा कर्मत्वात् प्रमेयानि । तत एव पदार्थत्वात् प्राप्तः संशयः ।
अत्राह मुनिना यथोक्त इति । अस्यैव विवरणं ।
यथोक्तहेत्वाभासलक्षणेनैव निग्रह
स्थान
भाव इति । इदमुक्तम्भवति । सव्यभिचारविरुद्धप्रकरणससाध्यसमातीत
काला
न्या० सू० १।२।४ इति हेत्वाभासा इति प्र
भेदमुपक्रम्य यत्प्रत्येकं लक्षणमुक्तं ।
अनैकान्तिकः सव्यभिचारःन्या० सू० १।२।५ सिद्धान्तमभ्युपेत्य तद्विरोधाद्विरुद्धं
न्या० सू० १।२।६ यस्मात् प्रकरणचिन्ता स निर्ण्णयार्थमपदिष्टः प्रकरण
समः

न्या० सू० १।२।७ साध्याविशिष्टः साध्यत्वात् साध्यसमः न्या० सू० १।२।८
कालात्ययापदिष्टः कालातीत न्या० सू० १।२।९ इति तेनैव लक्षणेनैषान्निग्रह
स्थानत्त्वं न पुनस्तत लक्षणान्तरमपेक्ष्यत इति । अत्रापी
20a7 त्याचार्यः ।
कथञ्चिन्त्यमित्याह । किन्ते यथा भवद्भिर्लक्षितप्रभेदास्तथैव ते भवन्त्याहो
स्विदन्यथे
ति 20a7 । लक्षितः प्रभेदो येषामिति विग्रहः । तत्तर्हि किन्तद्
चिन्त्यत इत्याह
84b तत्तु चिन्त्यमानमिहातिप्रसज्यत इति न प्रतन्यते । इदमेवागूरितं ।
विदन्त्येव केचिदत्र हेत्वाभासा एव न युज्यंते केचित्तु हेत्वाभासा अपि न सङ्ग्रहीता
इत्यस्मिंश्च विचारे हेत्वाभास
वार्त्तिकं सकलमवतारयितव्यमिति शास्त्रान्तरमेव
भवेत् । अवदातमतयस्त्वस्मद्विहितहेत्वाभासलक्षणविपर्ययेण दूरान्तरत्वात्तद्
वैसशं176 । तस्मादुपेक्षै
व युज्यत इति । तथापि मन्दमतिविबोधनायापि शास्त्र
मुच्यत इति । कालातीतप्रकरणसमयोस्तावद्धेत्वाभासत्वं यथा नोपपद्यते तथा वर्ण्यते ।
तत्र कालात्ययापदि
ष्टः कलातीतः
तदिह बृद्धनैयायिकानामपास्य मत
माचार्य दिङ्नाग पादैर्भाषितत्वादिदानीन्तना वात्स्यायना दयोमुमेव स्थिपक्षमाहुः ।
तत्रैवम्ब्रूमः ।
कालात्ययेन युक्तो यस्यार्थैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः
137 कालातीत इत्युच्यते । निदर्शनं नित्यः शब्दः संयोगव्यंग्यत्वाद्रूपवत् । प्रागूद्र्ध्वं

च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते । तथा शब्दो व्यवस्थितो
भेरीकर्ण्णसंयोगेन दारुपर्णयोगेन वा व्यज्यते । तस्मात्संयोगव्यंग्यत्वान्नित्यः
शब्द
इति । अयमहेतुः कालात्ययापदेशात् व्यंजकस्य संयोगस्य कालं न व्यंग्यस्य रूपस्य
व्यक्तिरत्येति सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति । न निवृत्तसंयोगे
रूपङ्गृ
ह्यते । निवृत्ते तु दारुपर्णसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले नेयं शब्दस्य
व्यक्तिः संयोगकालमत्येतीति संयोगनिमित्ता भवति । कारणाभावाद्धि कार्या
भाव
इति । नन्वयमनैकान्तिक एव । संयोगव्यंग्यत्वादिति । अनित्यमपि संयोगेन व्यज्य
मानं दृष्टं यथा घट इति । न । संयोग व्यंग्यत्वेनावस्थानस्य साध्यत्वान्न ब्रूमो
85a
नित्यः शब्द इति । अपि त्ववतिष्ठते शब्द इत्ययं प्रतिज्ञार्थस्तदा च संयोगव्यंग्यत्वा
दित्ययं हेतुरनैकान्तिको न ह्यनवस्थितं किञ्चित्संयोगेनाभिव्यज्यमान
कथमिति
तदनेन प्रकारेण संयोगव्यङ्ग्यत्वमेव शब्दस्य प्रतिषिद्ध्यत इति नायम
सिद्धाद् व्यावर्तते । अन्यथानेयं शब्दस्य व्यक्तिः संयोगिकालमत्येतीति न संयोग
निमित्ता
भवतीति । वचनस्य कोर्थ इति वक्तव्यं । स्याद् बुद्धिः सर्वदाधर्मिण्यविद्य
मानस्यासिद्धत्वं । अयन्तु न सर्वथा धर्मिण्यसिद्धो येनोत्पत्तिकाले संयोगव्यङ्ग्यत्वमस्ति ।

तूपलब्धिकाल इति । तदुक्तं । एकदेशासिद्धस्यापि असिद्धत्त्दपरिज्ञानात् । यथा
नित्याः परमाणवो गन्धवत्वात् । श्वेतनाश्च तरवः स्वापादिति । यश्चा
नित्यः शब्द
इति प्रतिजानीते स कुठारदारुसंयोगादेः शब्दस्योत्पत्तिमेव प्रतिपद्यते । न पुन
रवस्थितस्याभिव्यक्तमिति व्यक्तमस्यान्यतरासिद्ध
त्वं । अथ संयोगे सत्युपलब्धे
रिति हेत्वर्थाभ्युपगमान् नायमसिद्धो हेतुरिति समाधीयते । तथापि तैलतेजो
वर्त्तिसंयोगे कुलालमृत्पिण्डदण्डसं
योगे च सति दीपघटादयः समुपलभ्यन्ते । न च
तेषान्तत्र संयोगाप्राप्त्यवस्थानमित्यनेनानैकान्तिक एव प्राप्नोतीति न कालातीतः ।
तदुत्तरकालमप्यवस्थाने साध्ये
समुदायान्तरव्यय 177 वादिनो विरुद्धः । सपक्षा
भावादेव तत्र वृत्तेरभावात् । क्षणस्थितिधर्मवति च धर्मिणि । रूपादिके विद्यमान
त्वात् । स्थिरभाववादिनन्तु प्रति
प्रतिबन्धवैकल्यं साधनवैफल्यञ्च । अनङ्गीकृत
सिद्धान्ते तु न्यायवादिनि प्रतिवादिनि पूर्वपक्षप्रतिपादितो दोष इति । एवमुदा
हरणान्त
85b रेपि दूषणमुत्प्रेक्ष्य वक्तव्यमिति ॥ ० ॥


यस्मात्प्रकरणचिन्ता स निर्ण्णयार्थमपदिष्टः प्रकरणसमःन्या० सू० १।२।७
विमर्शाधिष्ठानौ पक्षप्रतिपक्षावनवसितौ प्रकरणन्तस्य चिन्तामविमर्शात् प्रभृति
प्राङ्निर्ण्णयात् परीक्षणं सा यत्र कृता स निर्ण्णयार्थं प्रयुक्तोभयपक्षसाम्यात् प्रकरण

मनतिवर्त्तमानः प्रकरणसमो न निर्ण्णयाय कल्प्यते । कस्मात्पुनः प्रकरणचिन्ता तत्त्वा
{??}पलब्धेः । यस्मादुपलब्धे तत्वेर्थे निवर्त्तते चिन्ता तस्मात्सामान्येनाधिग
तस्य या
138 विशेषतोऽनुपलब्धिः सा प्रकरणचिन्तां प्रयोजयतीति । उदाहरणमनित्यः शब्दो
नित्यधर्मानुपलब्धेः । अनुपलभ्यमाननित्यधर्मकमनित्यन्दृ
ष्टं स्थाल्यादि । यत्र
समानो धर्मः संशयकारणहेतुत्वेनोपादीयते संशयसमः सव्यभिचार एव । या तु
विमर्शस्य विशेषापेक्षतोभयपक्षविशेषानु
पलब्धौ सा प्रकरणम्प्रवर्तयति । यथा
च शब्दे नित्यधर्मो नोपलभ्यते तथानित्यधर्मोपि । सेयमुभयपक्षविशेषानुपलब्धिः
प्रकरणचिन्ताम्प्रयो
जयति कथम्विपर्यये प्रकरणनिवृत्तेः । यदि नित्यधर्मः शब्दे
गृह्येत न स्यात्प्रकरणं । यदि नित्यधर्मो गृह्येत एवमपि निवर्त्तते प्रकरणं । सोयं
हेतु
रुभौ पक्षौ प्रवर्त्तयन्नान्यतरस्य निर्ण्णयाय कल्प्यत इति । न त्वयं साध्या
विशिष्ट एव । नाविशिष्टः । तस्यैव प्रकरणप्रवृत्तिहेतोर्द्धर्मस्य हेतुत्वेनोपादानात् ।
यत्र
साध्येन समानो धर्मो हेतुत्वेनोपादीयते स साध्याविशिष्टः । यत्र पुनः प्रकरण
प्रवृत्तिहेतुरेव स प्रकरणसम इति । अत्रापि नित्यानित्यधर्मानुपलम्भद्व
86a यादेव
प्रकरणचिन्ता । न त्वेकस्मात् । विपर्यये प्रकरणनिवृत्तिरिति वचनात् । तद्यदि
नित्यानित्यधर्मानुपलब्धेरिति हेतुः स्यात् । स्यात् प्रकरणसमः । तदेकधर्मानु

लब्धेस्तूपादाने कथं प्रकरणसम इत्यभिधानीयं । उभयधर्मानुपलम्भोपादानेपि
सपक्षविपक्षयोरनुवृत्तिव्यावृत्योरनिश्चयादसाधरणानैकान्तिको
भवतीति कथ
मस्य हेत्वाभासान्तरत्वं । भवतु नामैकधर्मानुपलब्धिरेव हेतुः प्रकरणसमः ।
तथापि नित्यशब्दवाद्यवश्यमेव व्यामोहान्नित्यधर्मान् प्रतिपद्यत
इति प्रतिवाद्य
सिद्धीयं भवति । अथ प्रमाणेन नित्यधर्म्मप्रतिक्षेपान्नित्यधर्मानुपलब्धिः प्रति
पाद्यते । तदापि निश्चायकत्वात् सम्यग्ज्ञानहेतुरेवायं
इति कथं हेत्वाभासः प्रक
रणसमः । तदा हि विशेषोपलब्धिरेव हेत्वर्थो व्यवतिष्ठते । विशेषाश्च नित्यस्य
कृतकत्वादयः । न च तत्कृता प्रकरणचिन्ता
विपर्यये प्रकरणनिवृत्तेरिति वचनात् ।
अपि च नित्यधर्मानुपलब्धेरिति किमयं प्रसज्यप्रतिषेधः किम्वा प्रतियोगिविधानं
यदि प्रसज्यप्रतिषे
धस्तदा प्रमेयत्वादिवत् साधारणानैकान्तिकोयं नित्यधर्मोप
लब्धिः प्रतिषेधमात्रस्यानित्यत्वरहितेष्वसत्स्वपि सम्भवात् । अथ प्रतियोगि
विधानन्तदाप्यनन्तरो
दितया युक्त्या हेतुप्रतिरूपत्वायोगः । अन्यस्त्वन्यथेदं सूत्र
द्वयं व्याचष्टे । यो हेतुर्हेतुकालेऽपदिष्टोऽत्येत्यपैति । कस्मादपैति । प्रत्यक्षेणाग
मेन उभयेन वा
पीड्यमानः स कालमतीत इति कालातीत इत्युच्यते । कुतः पुनः
प्रत्यक्षागमविरोधो लभ्यत इति चेत् । चतुर्लक्षणो हेतुरिति वचनात् । तथाहि
पूर्ववच्छेष
86b वत्सामान्यतो दृष्ट
न्या० सू० १।२।५ ञ्चेत्यत्र चतूरूपो हेतु
रिष्टः । पूर्ववन्नाम साध्ये व्यापकं । शेषवदिति तत्समानेस्ति । सामान्यतश्च दृष्ट
ञ्च शब्दादविरुद्धञ्चेति । तथा भाष्यवचनमप्यस्ति ।
यत्पुनरनुमानं प्रत्यक्षा
गमविरुद्धं न्यायाभासः स
इति । तदेवं त्रैरूप्ये सति प्रत्यक्षागमाभ्यां यो वाध्यते
139 स कालात्ययापदिष्टः । स च त्रिधा भिद्यते प्रत्यक्षविरुद्ध आ
गमविरुद्ध उभयविरुद्ध
श्चेति प्रत्यक्षविरुद्धो यथा अनुष्णोग्निर्द्रव्यत्वादुदकवत् । आगमविरुद्धो यथा
ब्राह्मणेन सुरा पातव्या द्रवत्वात् क्षीरवत् । उभयविरुद्धो यथाऽ
रश्मिवच्चक्षुरिन्द्रिय
त्वाद् घ्राणादिवदिति । न चायं किल पक्षविरोधः पक्षविरोधस्य प्रतिक्षेपादिति ।
तदेतत् त्रैरूप्यलक्षणानववोधवैशद्यं त्रैरूप्यं हि यदा
स्वं प्रमाणैः परिनिश्चितं
पक्षधर्मत्वादिकं त्रयं च यत्र बाधा तत्र प्रतिबन्धोस्ति । बाधाविनाभावयोर्विरो
घात् । अविनाभावो हि सत्येव साध्यधर्मे हेतोर्भावः
कथञ्चासौ तल्लक्षणो धर्मिणि
हेतुः स्यान्न चात्र साध्यधर्म इत्यादिकमत्राबाधितविषयत्वदूषणानुसारेण वक्तव्यं ।
यत्र पुनरियं बाधोदाहृता न
तेषां त्रैलक्षण्यं मनागप्यस्ति प्रतिबन्धवैकल्यात् ।
अभ्युपगतपक्षप्रयोगस्य च पक्षदोष एवायं युक्तः । यत्पुनः पक्षदोषत्वपरिहाराय
बह्वसम्बद्धमुद्ग्राहि
तं तदत्यन्तमसारमिति नेहावसीयते ॥ ० ॥


यस्मात्प्रकरणचिन्तेति प्रकरणं भाष्ये निरूपितं । तस्योदाहरणं । अणुरण्व
न्तरकार्यत्वं प्रतिपद्यते
नवेति चिन्तायाङ्कश्चिदभिधत्ते । अणुरण्वन्तरकार्यो
रूपादिमत्वात् तद्द्व्यणुकादिवदिति । योसावणोरणुः कारणत्वेनोपादीयते तत्रापि
रूपादिमत्वमस्तीति
87a चिन्ता किमियं रूपादिमत्वादण्वन्तरकार्यो न वेति चिन्ता-
याञ्च यदि तस्याप्यण्वन्तरकार्यत्वं रूपादिमत्वादिति वक्ति तदा तस्यापि रूपादि
मत्वमस्तीति पुनरपि चिन्ता
तदेवमनवस्थारूपं प्रकरणं प्रवर्त्तयतीति प्रकरणसम
इत्युच्यते । अथाणुरण्वन्तरकार्यत्वं न प्रतिपद्यते रूपादिमत्वे सति तदानैकान्तिको
हेतुरिति तस्माद् भि
द्यतेऽनैकान्तिकात् प्रकरणसमः । न चायम्विरुद्धोऽविपर्यय
साधकत्वात् । नासिद्धः पक्षधर्मत्वदर्शनात् । न कालात्ययापदिष्टः प्रत्यक्षागमाभ्या
मबाध्यमानत्वात् ।
अतोऽर्थान्तरमिति । अथवा प्रदेशे करणं प्रकरणञ्चेति कारण
सिद्धिरित्यर्थः । प्रदेशे सिद्धिरितीयं चिन्ता यस्माद्धेतोरपदिष्टा भवति स प्रकरण
समः
स प्रदेशसाधकत्वात् समः । यथैकदेशेऽसाधकत्वन्तथेतरत्रापीत्यसाधकत्व
सामान्यात् समः । तस्मादेकदेशवर्त्ती धर्मः प्रकरणसमः । तद्यथा पृथिव्यप्तेजोवा

य्वाकाशान्यनित्यानि सत्तावत्वादिति । अत्रापि यद्यक्ष पाद मतानुसारी तावदेवं
प्रमाणयति । परमाणुः परमाण्वन्तरपूर्व्वको रूपादिमत्वाद् द्व्यणुकादिवदि
ति तदा
तस्याभ्युपेतविरोध इति नायमतीतकालाद् भिद्यते । अथ बौद्धः करोति । तदापि
हेतोरसिद्धिः परमाणूनां रूपादिव्यतिरेकेणानभ्युपगमात् । अयोगाच्च
द्व्यदीनाञ्चा
भावादुभयविकलो दृष्टान्तः । यदाप्यनपेक्षितसिद्धान्तो न्यायवादी ब्रूते तदापि
140 द्वितीयपक्षोदितदोषानिवृत्तिरिति नायमसिद्धाद्व्यावर्त्तते । योऽ
प्यनुमेयैकदेशवर्त्ती
धर्मः पृथिव्यादीन्यनित्यानि गन्धवत्वादिति अयमप्यपसिद्धान्तान्तर्भूत एवेति न पृथग्वा
च्यः । नासिद्धः पक्षैकदेशधर्मत्वात् । सपक्षैकदेशवर्त्तिव
87b दिति चेत् विषमोयमुपन्यासः ।
सपक्ष एव च सत्वमित्यत्र हि समुच्चीयमानावधारणमेव न सकलसपक्षधर्मतां
साधनस्य प्रतिपादयति । अनुमेये सत्ववचनं पुनरयोगव्य
वच्छेदेन नियन्तृभूतम
शेषसाध्यधर्मिधर्मतायाः प्रतिपादकमित्यनेनैव पक्षैकदेशासिद्धभेदानामपोहः कृत
इत्यपार्थकं यत्नान्तरमिति यत्किञ्चिदेतत् ॥ ० ॥


भावि
विक्तो
प्यत्रैव खररवे पतितः । प्रकरणसममन्यथा समर्थयति । यस्मा
द्धेतो प्रकरणचिन्ता विपक्षस्यापि विचारः पश्चाद् भवति स एवं लक्षणो
हेतुनिर्णयाय योपदिश्यमानः प्र
करणसमो भवति । प्रकरणे साध्ये समस्तुल्यः
सत्त्वे ऽसत्त्वे वा यथा सत्सर्वज्ञमितरतद्विपरीतविनिर्मुक्तत्वाद् रूपादिवदिति ।
यस्मादयं हेतुरुभयत्र समानो योप्यस
त्वं साधयति तस्यापि समानः । कथमसत्स
र्वज्ञत्वमितरतद्विपरीतविनिर्मुक्तत्वात् खरविषाणवदिति । न चायं किलोभयधर्म
त्वेप्यनैकान्तिको विपक्षवृत्तिर्वैकल्या
त् । तदिदमाचार्येण स्वयं प्रमाणविनिश्चये 178
प्रतिसि179द्धं । कम्पुनरत्र भवान् विपक्षं प्रत्येति साध्याभावं । कथमिदानीं
हेतुं विपक्षवृत्तिरुभयधर्मेणैवेत्यादिना । अर्थग्रहण
व्याख्याने च यदुक्तं
तदत्रापि वक्तव्यं । विशेषेण दूषणञ्चास्य प्रपञ्चेनोक्तमेव । एवं प्रकरणसमातीत
कालयोरनुपपत्तिः । साध्यव्यभिचारस्य तु युज्यते हेत्वाभासत्वं
न तु यथा भवता
मभ्युपगमः । तथा हि भवन्तः सन्दिग्धविपक्षव्यावृत्तिकस्यानैकान्तिकत्वं न प्रति
पद्यन्ते । अदर्शनमात्रेणैव व्यतिरेकसिद्ध्यभ्युपगमात् । अत एव च भवद्भि
रप
गतस180ङ्कैरेवं प्रयुज्यते प्राप्यकारिणी चक्षुःश्रोत्रे बाह्येन्द्रियत्वात् घ्राणादिवत् ।
सविकल्पं प्रत्यक्षं प्रमाणत्वादनुमानवदित्यादि । न चादर्शनमात्रेणैव विना प्रति
बन्धे
88a न व्यतिरेकसिद्धिरिति प्रतानितमन्यत्र ।

आत्ममृच्चेतनादीनां यो भावस्याप्रसाधकः ।

स एवानुपलम्भः किं हेत्वभावस्य साधक ४५
इत्यादिना ।
तथा सपक्षविपक्षयोः सन्दि
ग्धः सदसत्वस्यापि सम्यग्ज्ञानहेतुत्वमेव युष्माभि
रिष्यते नानैकान्तिकत्वं यथा सात्मकं जीवच्छरीरम्प्राणादिमत्त्वादिति । अस्य च
तद्भावः प्रतिपादितः प्रमाणविनिश्चया
दौ विरुद्धप्रभेदस्तु भारद्वाज विहितः प्रति
141 ज्ञाविरोधप्रस्ताव एव निराकृतः । साध्यसमेपि योयमन्यथासिद्धो वर्ण्यते यथा
ऽनित्याः परमाणवः क्रियावत्वाद् घटादिवदि
ति अयमपि किल साध्यसमो यस्मात्
मूर्तिक्रियारूपादिमत्वादणूनां क्रियावत्वं नानित्यत्वादिति । स नोपपद्यते । धर्मिणि
सिद्धत्वान्नहि धर्मिणि विद्यमान एवासिद्धो
हेतुर्युज्यते । सर्वहेतूनामसिद्धताप्रसङ्
गात् । नैतदेवन्नहि पक्षेस्तीत्येतावता पक्षधर्मत्वं । साध्यवशेन हि धर्मिणः पक्षधर्मत्व
मिष्यते । केवलस्य साध्यत्वा
त् न च साध्यो धर्मो यदि धर्मिणि तेन साधनेन
विना न सम्भवति तस्य च साधनस्य साध्यधर्माभावे धर्मिणा सम्भवस्ततो हेतोः
पक्षधर्मत्वं । यदा पुनरन्यथापि
साधनायोपात्ते धर्मिणि धर्म उपपद्यते तदा हेतुत्त्वमे
वञ्च विशिष्टमेव सत्वं पक्षधर्मत्वेन विवक्षितं । अन्यथासिद्धत्वं युक्तमेव साध्यसमं ।
तदिदमत्र प्रतिविधानं
यदि खलु साध्यधर्माभावे धर्मिणि असम्भवो हेतोरेवं विध
मेव सत्वं पक्षधर्मत्वेन विवक्षितं न तु भावमात्रं तदा किन्तदित्त्थंभूतं पक्षधर्मत्वम
विज्ञातमेवानुमेयप्रकाश
कमाहोस्वित् परिनिश्चितमेवेति प्रकारद्वये यद्यविज्ञातं
प्रकाशकं तदाज्ञापकहेतुन्यायमतिवर्त्तते ज्ञापको हि हेतुः स्वात्मनि ज्ञानापेक्षो
ज्ञाप्यमर्थं प्रकाशयति । सत्ता
88b मात्रेण च हेतवो विप्रतिपत्तिनिराकारणपटवः सन्तीति
प्रतिवादिनां परस्परपराहतं प्रवचननानात्वं न भवेत् । विज्ञातस्यापि गमकत्वे
प्रमाणाद्वा तस्य परिनिश्चयः प्र
माणाद्वा । न तावदप्रमाणस्य भूतार्थनिश्चयहेतुत्वा
भावादप्रमाणाद् गतिरन्यथा प्रामाण्यमेवावहीयते । यस्मादिदमेव प्रमाणस्य प्रमा
णत्वं यद्यथावस्थितवस्तुप्रका
शकत्वं । तच्चेदमप्रमाणस्याप्यस्ति तदा कथं तद
प्रमाणात्साध्ये धर्मिणि विना साध्यधर्मेणासद्भूष्णोर्हेतोः सत्त्वम्पक्षधर्मत्वेनाधि
गम्यते
तदापि यत एव प्रमाणाद्धेतोः सिद्धिस्तत एव साध्यधर्मस्यापीयं जायत इति
किमर्थमयमकिञ्चित्करो हेतुरूपादीयते । न च हेतोरेव केवलस्य ततः सिद्धि

साध्यधर्मस्य तु नेति युक्तम्वक्तुं । हेतोरपि ततोऽसिद्धिप्रसङ्गात् तथा ह्येवमयं
हेतु तत्र धर्मिणि सिध्यति यद्यनेन साध्यधर्मेण विनेह नोपपद्यते सहैव तू

पद्यत इति सिध्येत् । तथा च कथन्तत एव प्रमाणात्साध्यधर्मस्यापि न सिद्धिः
सञ्जातेति चिन्तनीयमेतत् । एवञ्च तेनैव प्रमाणेन सहास्य साध्यधर्मस्य
। गम्य
गमकभावो न त्वनेन हेतुनेति महदनिष्टमापद्यते । एवम्विधपक्षधर्मत्वसमाश्रयणे
च यावत् साध्यस्यासिद्धिस्तावद्धेतोरपि यावच्च हेतोरसिद्धिस्तावत्सा
ध्यस्यापीति
परस्पराश्रयप्रसङ्गः । पक्षधर्मत्वनिश्चयवेलायाञ्च साध्यधर्मसिद्धिः सम्पद्यत इति
व्यर्थमुत्तरलिङ्गरूपानुसरणमित्त्थञ्च न द्विलक्षणश्चतुर्लक्षणः पञ्च
लक्षणश्च
हेतुर्वक्तव्यः । अस्मन्मते तु धर्मिणि सत्वमात्रं विज्ञाय च तदुत्तरकालमन्वयव्यति
रेकयोर्विज्ञानमन्वयव्यतिरेकौ वा सर्व्वोपसंहारेण विज्ञायत उत्तरकालं
89a धर्मिणि
सत्वमात्रं विज्ञातमतश्चानन्तर्येणैव तत्सामर्थ्यात्साध्यधर्मस्य तत्र प्रतीतिरुप
142 पद्यते तेनेदमत्र सकलं दोषजालं नभसीवामले जले नावस्थानमलं लभत
इत्यलमप्रतिष्ठित
मिथ्याप्रलापैरिति विरम्यते ।


यद्येवं किं पुनरत्रेष्टमिष्टमित्याह । हेत्वाभासास्तु यथान्यायमित्यादि 2a7
ये न्याया हेत्वाभासास्तदुक्तिर्न्निग्रहस्थानम्भवति । ते च येस्माभिरुक्ताः ॥

एकाप्रसिद्धिसंदेहेऽप्रसिद्धव्यभिचारभाक् ।

द्वयोर्व्विरुद्धोसिद्धौ च संदेहव्यभिचारभागि ४६
ति ।


ननु चायं वादन्यायमार्गः सकललोकानिबन्धनबन्धुना वादविधानादावार्य

वसुबन्धुना
महाराजपथीकृतः क्षुण्णश्च तदनु महत्यां न्यायपरीक्षा यां कुमति
मतमन्त181मातङ्गशिरःपीठपाटनपटुभिराचार्य दिग्नाग पादैस्तत्किमिदं पुनश्च
र्व्वितच
र्व्वणमास्थितं त्वयेति । एतच्चोद्यपरिहारपरमिमं श्लोकमुपन्यस्यतिपन्यस्यते
लोक 20a8 इत्यादि । तिमिरञ्च पटलञ्चेति तिमिरपटलं अविद्यैव तिमिरपटलम
विद्यातिमिर
पटलं भूतार्थदर्शनविबन्धकत्वात् । तस्योल्लेखनो वादन्याय इति
सम्बन्धः उल्लेखनशब्दः कर्तृसाधनः । कस्य पुनरविद्यातिमिरपटलमित्याह । तत्त्व
दृष्टेस्त
त्वदर्शनस्य । प्रज्ञालोचनस्येत्यर्थः । य एष समनन्तरमावेदितो वादन्यायः ।
सद् भिः पूर्वाचार्यैः परहितरतैः करुणापारतन्त्र्याल्लोकान् सम्यग्वर्त्त्मनि व्यवस्थाप
यितुं प्र
णीतः परां प्रसिद्धिं नीतो लोके सुष्टु स्फुटीकृत इत्यर्थः । न तु परस्पर्द्धया
नापि यशःकामतादिभिः ।त182द्येवन्तर्हि तदवस्थितं चोद्यमित्यत आह ।
तत्वस्यालोकमुद्योतम्वा
दन्यायमाचाचार्यैरूपदिष्टं तिमिरयत्यन्धकारीकरोति
कुदूषणतमसा प्रच्छादयतीति यावत् । कः पुनरसावतिसाहसिको यो महानागैः क्षुण्णं
पन्थानं रोद्धुमीहत इत्याह
89b दुर्विदग्धः सम्यग्विवेकरहिततया जनोय मुद्योतकर
प्रीतिचन्द्र183भाविविक्त
प्रभृतिः । यतश्च एवं तस्माद्यत्नः कृत इह वादन्याय प्रकरणे
मया तस्य महद्भिरुद्भावितस्या
न्तराजतैरवधूतस्य समुज्वालनाय । कुदूषणपरि
हारेण तन्नीत्युद्योतनेन मम व्यापृतत्वान्न मया पिष्टं पिष्टमिति संक्षेपार्थः ॥


143
अनर्घ 184 वनितावगाहनमनल्पधीशक्तिना

प्यदृष्टपरमार्थसारमधिकाभियोगैरपि ।

मतं मतितमः स्फुटम्प्रतिविभज्य सम्यग्मया

यदाप्तमकृशं शुभम्भवतु तेन शान्तो जनः ॥ ४७

अहञ्च


नैरात्म्यबोधपरिपाटि
तदोषशैलसम्बुद्धभारवहनक्षमभूरिशक्त-

मञ्जुश्रियः श्रियमवाप्य समस्तसत्त्वसर्वावृतिक्षयविधानपटुर्भवेयं ।

महारयेनैव न किञ्चिदत्र त्यक्तम्वि
विक्तं न विभज्यमेव ।

तथापि मन्दप्रतिबोधनार्थमालोक एष ज्वलितः प्रदीपः ॥ ४८

लोकेऽविद्यातिमिरपटलोल्लेखनस्तत्त्वदृष्टे

वादन्यायः परहितरतैरेष सम्य
क् प्रणीतः ।

तत्त्वालोकं तिमिरयति तं दुर्विंदग्धो जनोयन्

तस्माद् यत्नः कृत इह मया तत्समुज्वालनायेति ॥ ४९

विपञ्चितार्था नाम वादन्यायटीका समाप्ता ॥ ॥


कृतिरियंसान्तरिक्ष185पादानामिति ॥

सम्वत आचू२ (272 N.E.–1152 A.D.) श्रावणकृष्ण एकादश्यांलिखितं
मया । राजाधिराजपरमेश्वरपरमभट्टारकः श्रीमदानन्ददे
वपादीयविजयराज्ये
शुभदिने ॥


ग्रन्थस्यास्य प्रमाणञ्च निपुणैर्न्नवशताऽधिकं ।

सहस्रद्वितयं सम्पत्186संख्यातम्पूर्व्वशूरिभिः187॥ ० ॥

शुभमस्तु सर्व्वजगतां इ
...
...सर्वैः रक्षितव्यम्प्रयत्नत इति ॥
नमः सर्वज्ञाय ॥


  1. न्यायवात्स्यायनभाष्ये ५।२।१

  2. तत्रैव ५।२।२

  3. न्यायवात्तिंके ५।२।२

  4. ? णां

  5. ? से
  6. ? श
  7. ? सू
  8. ? शब्द
  9. ? षक्तो
  10. ? शा
  11. ? श
  12. ? णा
  13. ? णैव
  14. ? षि
  15. ? न
  16. ? धर्मिणि

  17. ? शङ्कते
  18. ? न
  19. ? शालि
  20. ? श
  21. ? षि
  22. ? मान
  23. ? ष्व
  24. न्यायभाष्ये २५९-६० अल्पभेदेन ।

  25. ? शा
  26. ? शा
  27. ? नृत्य
  28. ? दा
  29. ? शा
  30. ? र्शेन
  31. ? शा
  32. ? न्क्रमे
  33. ? षते ।
  34. ? ने
  35. ? शा
  36. ? पेक्ष
  37. व्याकरणमहाभाष्ये पस्पशाह्निके ।

  38. ?
  39. ? य
  40. ? शा
  41. ?
  42. ? र्म्य
  43. ? निमित्त
  44. ? ब्द
  45. ? णा
  46. ? दु
  47. ? त्
  48. ?
  49. ? सेन
  50. ? न
  51. ? पी
  52. ? सा
  53. ? सा
  54. ? सा
  55. ? शा
  56. ? च्छिन्न
  57. ? र्थ्यं
  58. ? न्
  59. ? ति
  60. ?
  61. ?
  62. ? षां
  63. ?
  64. ? श
  65. न्यायवार्त्तिके ५।२।२१ पृष्ठ ५५९

  66. ? एवमेव
  67. ? पनयः
  68. ? शं
  69. ? स
  70. ? भ्य
  71. ? वसा
  72. ?
  73. ?
  74. आचार्यधर्मकीर्तिप्रणीतेषु सप्तसु न्यायप्रबन्धेष्वन्यतमो ग्रथःbStan-ḥ gyur, mdo.XCV. 11

  75. ? षि
  76. ? श
  77. ? मत्त
  78. ? य
  79. ?
  80. ?
  81. ? शान्तरक्षित
  82. ? म्यक्
  83. ? सूरिभिः