214-b
बृहतीरससिद्धेन तैलेनाभ्यज्य बुद्धिमान् ।
शिलारोचनकाशीसचूर्णैर्वा प्रतिसारयेत् ॥ १६ ॥
दहेत्कदरमुद्धृत्य तैलेन दहनेन वा ।
चिप्पमुष्णाम्बुना स्विन्नमुत्कृत्याभ्यज्य तं ब्रणम् ॥ १७ ॥
दत्त्वा सर्जरसं चूर्णं बद्ध्वा व्रणवदाचरेत् ।
स्वरसेन हरिद्रायाः पात्रे कृष्णायसेऽभयाम् ॥ १८ ॥
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः ।
चिप्पे सटङ्कणास्फोतामूललेपो नखप्रदः ॥ १९ ॥
निम्बोदकेन वमनं पद्मिनीकण्टके हितम् ।
निम्बोदककृतं सर्पिः सक्षौद्रं पानमिष्यते ॥ २० ॥
पद्मनालकृतः क्षारः पद्मिनीं हन्ति लेपतः ।
निम्बारग्वधकल्कैर्वा मुहुरुद्वर्तनं हितम् ॥ २१ ॥
निलीपटोलमूलाभ्यां साज्याभ्यां लेपनं हितम् ।
जालगर्दभरोगे तु सद्यो हन्ति चवेदनाम् ॥ २२ ॥