234-b
१पञ्चमूलीशृतं क्षीरं स्याच्चित्रकहरीतकी ।
सर्पिर्गुडः षडङ्गश्च यूषः पीनसशान्तये ॥ १ ॥
२व्योषचित्रकतालीसतिन्तिडीचाम्लवेतसम्
सचव्याजाजीतुल्यांशमेलात्वक्पत्रपादिकम् ॥ २ ॥
व्योषादिकं चूर्णमिदं पुराणगुडसंयुतम् ।
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥ ३ ॥
३पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः ।
दन्त्या च तैलं संसिद्धं नस्यं सम्यक्तु पीनसे ॥ ४ ॥