299-a
त्वगेलापिप्पलीधान्यकर्पूरं नागकेशरम् ।
यथालाभं विनिक्षिप्य सिताक्षौद्रपलाष्टकम् ॥ २९ ॥
शत्त्वेक्षुदण्डेनालोड्य विधिवद्विनियोजयेत् ।
दाल्योदनेन भुञ्जीत पिबेन्मांसरसेन वा ॥ ३० ॥
केवलस्य पिबेदस्य पलमात्रां प्रमाणतः ।
न तस्य लिङ्गशैथिल्यं न च शुक्रक्षयो भवेत् ॥ ३१ ॥
बल्यं परं वातहरं शुक्रसञ्जननं परम् ।
मूत्रकृच्छ्रप्रशमनं वृद्धानां चापि शस्यते ॥ ३२ ॥
पलद्वयं तदश्नीयाद्दशरात्रमतन्द्रितः ।
स्त्रीणां शतं च भजते पीत्वा चानुपिबेत्पयः ॥ ३३ ॥
अश्विभ्यां निर्मितं चैतद्गोधूमाद्यं रसायनम् ।
जलद्रोणे तु गोधूमक्वाथे तच्छेषमाढकम् ॥ ३४ ॥
युञ्जातकस्य स्थाने तु तद्गुणं तालमस्तकम् ।
कल्कद्रव्यसमं मानं त्वगादेः साहचर्यतः ॥ ३५ ॥