123-a
शतावरीसयष्ट्याह्ववाट्यालकुशगोक्षुरैः ।
शृतशीतं पिबेत्तोयं सगुडक्षौद्रशर्करम् ॥ २५ ॥
पित्तासृग्दाहशूलघ्नं सद्यो दाहज्वरापहम् ।
त्रिफलानिम्बयष्ट्याह्वकटुकारग्वधैः शृतम् ॥ २६ ॥
पाययेन्मधुसंमिश्रं दाहशूलोपशान्तये ।
तैलमेरण्डजं वापि मधुकक्वाथसंयुतम् ॥ २७ ॥
शूलं पित्तोद्भवं हन्याद्गुल्मं पैत्तिकमेव च ।
त्रिफलारग्वधक्वाथं सक्षौद्रं शर्करान्वितम् ॥ २८ ॥
पाययेद्रक्तपित्तघ्नं दाहशूलनिवारणम् ।
प्रलिह्यात्पित्तशूलघ्नं धात्रीचूर्णं समाक्षिकम् ॥ २९ ॥