136-a
कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा ।
तिलैरण्डातसीबीजसर्षपैः परिलिप्य वा ॥ २९ ॥
श्लेष्मगुल्ममयःपात्रैः सुखोष्णैः स्वेदयेद्भिषक् ।
यमानीचूर्णितं तक्रं बिडेन लवणीकृतम् ॥ ३० ॥
पिबेत्सन्दीपनं वातमूत्रवर्चोऽनुलोमनम् ।
व्यामिश्रदोषे व्यामिश्रः सर्व एव क्रियाक्रमः ॥ ३१ ॥
सन्निपातोद्भवे गुल्मे त्रिदोषघ्नो विधिर्हितः ।
वचाबिडाभयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकाः ॥ ३२ ॥
द्वित्रिषट्चतुरेवाष्टसप्तपञ्चाशिकाः क्रमात् ।
चूर्णमद्यादिभिः पीतं गुल्मानाहोदरापहम् ॥ ३३ ॥
शूलार्शः श्वासकासघ्नं ग्रहणीदीपनं परम् ।
यमानीहिङ्गुसिन्धूत्थक्षारसौवर्चलाभयाः ॥ ३४ ॥
सुरामण्डेन पातव्या गुल्मशूलनिवारणाः ।