165-b
क्षारद्वयं स्याल्लवणानि चत्वा-
र्ययोरजो व्योषफलत्रिके च ।
सपिप्पलीमूलविडङ्गसारं
मुस्ताजमोदामरदारुबिल्वम् ॥ २२ ॥
कलिङ्गकश्चित्रकमूलपाठे
यष्ट्याह्वयं सातिविषं पलाशम् ।
सहिङ्गु कर्षं त्वथ शुष्कचूर्णं
द्रोणं तथा मूलकशुण्ठकानाम् ॥ २३ ॥
स्याद्भस्मनस्तत्सलिलेन साध्य-
मालोड्य यावद्धनमप्यदग्धम् ।
स्त्यानं ततः कोलसमां च मात्रां
कृत्वा सुशुष्कां विधिना प्रयुञ्ज्यात् ॥ २४ ॥
प्लीहोदरश्वित्रहलीमकार्शः-
पाण्ड्वामयारोचकशोथशोषान् ।
विषूचिकागुल्मगराश्मरीश्च
सश्वासकासान्प्रणुदेत्सकुष्ठान् ॥ २५ ॥
सौवर्चलं सैन्धवं च बिडमौद्भिदमेव च ।
चतुर्लवणमत्र स्याज्जलमष्टगुणं भवेत् ॥ २६ ॥
पुनर्नवाचित्रकदेवदारु-
पञ्चोषणक्षारहरीतकीनाम् ।
कल्केन पक्वं दशमूलतोये
घृतोत्तमं शोथनिषूदनं च ॥ २७ ॥