199

अन्यास्ता महिला यथा परिमलसुगन्धाः ।
मम कान्तस्य 932आश्रितो व्रणविस्रगन्धः ॥
933अत्रान्यासामसौभाग्यं तत्प्रियतमानामशौर्यं च स्वसौभाग्यप्रकटनेन 934स्वभर्तुः शौर्यप्रकटनेन च स्वात्मनो निन्दाव्याजेन935 काचिद् ब्रूते । अन्याः खलु ताः स्त्रियो यासामङ्गरागानुकूलश्चिरस्थायी परिमलः । मम तु निर्भाग्यायाः कृतेऽप्यङ्गरागे भर्तृव्रणकृतविस्रगन्ध एवेत्यर्थः । प्रकारान्करेण = अव्यवधानेन = अविरुद्धरसान्तराव्यवधानेन ।

ननु यत्रैकतात्पर्येणेतरेषां विरुद्धानामविरुद्धानां च न्यग्भूतत्वेनोपादानं तत्र भवत्वङ्गत्वेनाविरोधः । यत्र तु समप्रधानत्वेनानेकस्य भावस्योपनिबन्धनं तत्र कथम् । यथा—936

एक्कतो937 रुअइ पिआ अण्णत्तो समरतूरणिग्घोसो ।
पेम्मेण रणरसेण अ भडस्स डोलाइअं हिअअं ॥
इत्यादौ रत्युत्सादयोः,
मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥938
इत्यादौ रतिशमयोः,
इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दृष्टात्मा स्वसुरपकृतं येन मम तत् ।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः ॥

  1. T.MS. reads āśrite but M.G.T., Gr.MS. and Tr.MS.—all give āśrito, and so I have given this.

  2. The T.MS. reads atrāsām, etc. M.G.T. reads atrānyāsām, whereas the Tri.MS. gives yadanyāsām. I preferred atrānyāsām.

  3. The protion from svabhartuḥ to nindāvyājena is left out in the T.MS. whereas the M.G.T., Gr.MS. and Tri.MS.—all these contain the reading.

  4. The protion from svabhartuḥ to nindāvyājena is left out in the T.MS. whereas the M.G.T., Gr.MS. and Tri.MS.—all these contain the reading.

  5. एकतो रोदिति प्रियान्यतः समरतूर्यनिर्घोषः ।
    प्रेम्णा रणरसेन च भटस्य दोलायितं हृदयम् ॥
    इति च्छाया.
  6. This verse as quoted in Dhvanyāloka and H.K.A. has a slightly different reading.

  7. शृङ्गार॰ ३६