216 स्येति । काव्यवाक्यं खलु पौरुषेयम् । तेन तत्र सर्वत्र वक्तास्ति । ततस्तदुद्देश्यार्थपर्यवसायित्वं तेषां युज्यत एवेत्यर्थः ।

भाव्यभावकसंबन्ध इति । ननु तात्पर्यादधिकं व्यञ्जकत्वं निषेधयतः संबन्धान्तराङ्गीकरणं व्याहतमिव । उच्यते । कमप्यर्थमुद्दिश्य खलु सर्वोऽपि वक्ता वाक्यं प्रयुङ्क्ते । अतः काव्यवाक्येषु कथं सामाजिकानां रसास्वादो भवेदिति तानि प्रयुञ्जानस्य कवेस्तात्पर्यं, रसप्रतीतिश्च सामाजिकानां शब्दाद् भवति । तेन1036 अस्यां भावनायां सामाजिकः कर्ता । करणं शब्दाः । भाव्यो रसादिः । अतो वक्तुस्तात्पर्यमेव तदीयकाव्यद्वारा सामाजिकानां रसस्य भावकत्वेन निरूप्यते । न तु संबन्धान्तरमङ्गीक्रियत इति । ननु लोके शब्दान्तरेषु भाव्यभावकलक्षणः संबन्धो न दृष्ट इति चेत् । तत्राह न चेति । हेतुमाह भावनाक्रियावादिभिरिति । स्वर्गकामो यजेतेत्यत्र भाव्यं स्वर्गादिफलप् । भावको यजमानः । करणं यागादय इति फलयागयोः 1037भाव्यभावकसंबन्धो भावनैवात्र  । क्रियेति वदद्भिरङ्गीकृत एवेत्यर्थः । यद्वा, अन्यत्र सत्ताकारणमन्वयव्यतिरेकौ । ताविहापि भवतश्चेत् ताभ्यामेवालम् । किमन्यत्र तत्सत्तागवेषणयेत्याह मा वान्यत्रेति । मूलभरतस्यापीदमनुमतमित्याह भावाभिनयसंपन्नानिति ।1038 रङ्गेष्वनुकार्यगतसुखदुःखादिभावाभिनयेन नटगतेन जन्यान् रसान् सामाजिका यद् भावयन्ति तेन तज्जनका भावाः । तस्माद् रसस्य रसजनकानां च संबन्धो भाव्यभावकलक्षण एवेत्यर्थः ।

ननु नायकादिशब्दानां स्वाभिधेयैर्नायकादिभिरेव संबन्धः । रत्यादिभिः सह न संबन्धोऽस्ति । अगृहीतसंबन्धानि च पदानि रत्यादीन् प्रतिपादयिष्यन्ती- त्येतदतिप्रसञ्जकमिति पृच्छति कथं पुनरिति । उत्तरं लोक इति । लोके रत्यादियुक्तानां यथाविधाश्चेष्टा भवन्ति कविरपि तथाविधाश्चेष्टा दृष्ट्वा काव्येष्वपि रत्याद्युद्दिशन् ताश्चेष्टा निबध्नाति । तस्माच्चेष्टादिप्रतिपादकानां शब्दानां तदविनाभूतरत्यादिप्रतियपादने तात्पर्यम् । अतः काव्यपदानां रत्यादौ 1039वृत्तिर्लक्षणा 1040स्वाभिधेयचेष्टाद्यविनाभूतरत्यादिप्रतीतेरिति । भवतु काव्यस्य रसस्य च भाव्यभावकलक्षणः संबन्धः । तेषां तद्भावकत्वप्रकारो वक्तव्य इति चेत् तत्राह यथा चेति ।

  1. M.G.T. shows tenābhāvanāyām; perhaps it was intended as tena asyāṃ bhāvanāyām.

  2. Only M.G.T. reads bhāṭṭaiḥ bhāvyabhāvakalakṣaṇasaṃbandhaḥ, and here again bhāṭṭaiḥ in the transcript is underlined with red ink. Perhaps it was done later while comparing.

  3. Only Gr.MS. reads bhāvābhinayasaṃbandhān. In the G.O.S. ed. of the NS. (vol. I, 2nd ed., page 293) the reading is nānābhinayasaṃbaddhān and it is so according to Abhinava’s interpretation nānābhinayaiḥ samyag baddhān hṛdayaṃ gatān bhāvayantī saṃpādayanti rasāṃs tasmād bhāvāḥ.

  4. All MSS. read vṛttilakṣaṇā.

  5. MSS. seem to read svābhidheyaceṣṭādyavinābhūte ratyādau pratīter iti.