कथं च काव्याद् 1052रसास्वादोद्भूतिः, किमात्मा चासाविति व्युत्पाद्यते—
काव्यार्थेन विभावादिसंसृष्टस्थाय्यात्मकेन भावकचेतसः संभेदेऽन्योन्यसंवलने प्रत्यस्तमितस्वपरविभागे सति प्रबलतरस्वानन्दोद्भूतिः=स्वादः । तस्य च सामान्यात्मनैकत्वेऽपि प्रतिनियतविभावादिकारणजन्येन संभेदभेदेन चतुर्धा चित्तभूमयो भवन्ति । तद्यथा—शृङ्गारे विकासः, वीरे विस्तरः, बीभत्से क्षोभः रौद्रे विक्षेप इति । तत्रान्येषां चतुर्णां हास्याद्भुतभयानककरुणानां221 स्वसामग्रीलब्धपरिपोषान्तराणां1053 त एव चत्वारो विकासाद्याश्चेतसः संभेदाः । अत एव च—
ननु च युक्तं शृङ्गारवीरहास्यादिषु प्रमोदात्मकेषु काव्यार्थसंभेदादानन्दोद्भव इति । करुणादौ तु दुःखात्मकत्वे कथमिवासौ प्रादुःष्यात् । तथा हि—तत्र करुणात्मककाव्यश्रवणाद् दुःखाविर्भावोऽश्रुपातादयश्च रसिकानामपि प्रादुर्भवन्ति । न चैतदानन्दात्मकत्वे सति युज्यते । सत्यमेतत् । किंतु तादृश एवासावानन्दः सुखदुःखात्मको यथा प्रहरणताडनादिषु संभोगावस्थायां कुट्टमिते स्त्रीणाम् । अन्यश्च लौकिकात् करुणात् काव्यकरुणः । तथा हि—अत्रोत्तरोत्तरं रसिकानां प्रवृत्तयः । यदि च लौकिककरुणवद् दुःखात्मकत्वमेवेह स्यात् तदा न कश्चित् तत्र प्रवर्तेत । ततः करुणैकरसानां रामायणादिमाहाप्रबन्धानामुच्छेद एव भवेत् । अश्रुपातादयश्चेतिवृत्तवर्णनाकर्णनेन विनिपतितेष्टलौकिकवैक्लव्यादिबत्1057 प्रेक्षकेषु प्रादुर्भवन्तो न विरुध्यन्ते । तस्माद् रसान्तरवत् करुणस्याप्यानन्दात्मकत्वमेव ।
काव्याद् रसोत्पत्तिप्रकारः कीदृशः । किमात्मको वा रस इत्यपेक्षायां प्रतिपाद्यत इत्याह कथं चेति । स्वाद इति । काव्यार्थस्य विभावादे222 श्चेतसा संभेदात् स्वानन्दाभिव्यक्तिः स्वादः । स्वसंविदात्मैवानन्द इति कृत्वा स्वादस्वाद्ययोरविभागेन व्यपदेशः । स च जन्यमानैर्विकासविस्तरक्षोभविक्षेपात्मकैश्चित्तभूमिविशेषैर्विशिष्टश्चतुर्विधो1058 भवति । शृङ्गारवीरबीभत्सरौद्रेषु सत्सु मनसो विकासाद्याश्चतुर्विधाश्चित्तभूमयो भवन्ति । हास्यादीनामपि स्वसामग्रीलब्धपरिपोषाणां सद्भावे त एव विकासाद्याश्चत्वारो भवन्ति । अत एव शृङ्गारादिजन्यविकासाद्या एव हास्यादिषु सत्सु भवन्तीत्येतावता शृङ्गारादिभिर्हास्यादयो जायन्त इति भ्रमः1059 । ते तु वस्तुगत्या स्वसामग्रीभ्य एव जायन्ते । चतुर्विधविकासादिजनकतया1060 शृङ्गारादीनां हास्यादीनां चाष्टत्वव्यपदेशः । शृङ्गारादयोऽपि हि चतुरो विकासादीन् जनयन्ति । हास्यादयोऽपि चतुरो विकासादीन् । अतस्तेषाम् =शृङ्गारादिजन्यविकासादीनां चतुर्णां, हास्यादिजन्यविकासादीनां चतुर्णां च संकलनया अष्टत्वादष्टौ नाट्ये रसा इत्यवधारणमुपपद्यत इति । तथा व्याचष्टे काव्यार्थेनेत्यादिना । संभेदस्वरूपं कथयति अन्योन्यसंवलने सतीति । संवलनं नाम पृथग्वोधायोग्यत्वोपगमः । तदाह प्रत्यस्तमितेति । तस्य च सामान्यात्मनैकत्वेऽपीति । तस्य=रसात्मनो भेदाभावे1061 सत्यपीत्यर्थः । विकासादीनामेव भेदकारणमुक्तं प्रतिनियतविभावादिकारणजन्येन संभेदभेदेनेति ।1062 हेतुहेतुमद्भाव एवेति । संभेदापेक्षयैव हेतुहेतुमद्भावः, न पुनः शृङ्गारादयो हास्यादीनां कारणमिति शृङ्गारादीनां हास्यादीनां च कार्यकारणभावो दर्शित इत्यर्थः । एवमनभिप्रायत्वे हेतुमाह तेषामिति । कारणान्तरेण स्वस्वविभावादिसहितस्थाय्यात्मना जन्यत्वादित्यर्थः । अन्यत्रानुकृतिशब्ददर्शनात् शृङ्गाराद्यजन्यत्वं हास्यादीनां स्पष्टमित्याह शृङ्गारानुकृतिर्या त्विति । विकासादिसंभेदैकत्वस्य स्फुटीकरणादिति । शृङ्गारादिभिरपि ते विकासादयो जायन्ते हास्यादिभिरपि तादृशा इत्युभयत्रापि संभेदैकत्वस्य स्फुटीकरणादिति । संभेदानां1063 तावत्त्वादिति । अष्टानामष्टविधत्वादित्यर्थः । अष्टत्वं विरुद्वं न्यूनत्वादिति चोदयतिकथमिवासौ प्रादुःष्यादिति । कथम् असौ आनन्दः प्रादुर्भवेदित्यर्थः । परिहरति सत्यमेतदिति । लोके दुःखात्मकत्वमेव करुणस्य दृश्यत इति चेत् तत्राह अन्यश्चेति । अन्वयेन करुणस्योपादेयत्वमुक्त्वा व्यतिरेकेणाप्याह223 यदि चेति । 1064 करुणैकरसानामिति वीररसाङ्गित्वेऽपि करुणप्राचुर्येणोक्तम् । अङ्गी 1065तु वीर एवेति ।
-
N.S.P. kāvyāt svādodbhūtiḥ.
↩ -
N.S.P. paripoṣāṇām in place of paripoṣāntarāṇām (of A.T.A.).
↩ - ना॰ शा॰ [GOS] ६।३९↩
- ना॰ शा॰ [GOS] ६।४०↩
-
N.S.P. bhāvāt instead of tāvattvāt. After tāvattvāt some lines up to kiṃtu tādṛśa evāsāv ānandaḥ are missing in A.T.A. N.S.P. has here a number of wrong punctuation marks and expressions, which are cited by many scholars. See Bhoja’s Śṛṅgāra Prakāśa (1963), p. 436.
↩ -
N.S.P. vaiklavyadarśanādivat.
↩ -
Tri.MS. and A.T.A. (of Avaloka) read bhrami instead of bhūmi. Bh.Nṛ. the commentator on the S.K.Ā. seems to hold a different view regarding cittabhūmis, from that of our Bh.Nṛ. See Prof. Raghavan’s work on Ś.P. footnote on page 437, and the extract from Bh.Nṛ. (on page 423) referred to therein. Also see Note 247a to L.Ṭ.
↩ -
Here bhramaḥ is found in Gr.MS. and in Tri.MS. In M.G.T. however it is not found.
↩ -
Bahurūpamiśra’s interpretation of the following kārikā:
↩śṛṅgāravīrabībhatsaraudreṣu manasaḥ kramāt |hāsyādbhutabhayotkarṣakaruṇānāṃ ta eva hi || -
Kumārasvāmin says: nanu rasāsvāde viśeṣābhāvāt kathaṃ navadhā vibhāga iti cet ? satyam. (As Vidyānātha and Kumārasvāmin accept the śānta, the word navadhā is used in the question.) yathaikasya brahmānandasya candrakāntasopānapaṅktipratibimbitacandrabimbavad upādhibedād anekadhā kalpanam, tadvad atrāpi … vibhāvādibhedād vastuta ekasyāpi nānātvam iti veditavyam. (Balamanorama Press. ed, 1950, p. 209.)
↩ -
Previous printed editions read differently. But the pratīka cited by Bh.Nṛ. is also confirmed by A.T.A.
↩ -
Previous editions give different readings here too. But the pratīka cited by Bh. Nṛ. is correct and is confirmed by A.T.A. also.
↩ -
This is the reading in A.T.A. also.
↩ -
Thus Bh. Nṛ. says clearly that vīra is the aṅgirasa in the Rāmāyaṇa. Bahurūpamiśra also says under vīrarasa thus ayaṃ vīraḥ śrīmadrāmāyaṇe tadanubandheṣu prabandheṣu uttararāmacarivarjeṣu vīracaritādiṣūdāhartavyaḥ. But Ānandavardhana in his Dhvanyāloka (under IV. 5) and Viśvanātha in his Sāhityadarpaṇa (III.5) say that karuṇa is the pradhānarasa in the Rāmāyaṇa.
↩