विषयैक्यप्रसक्तं पौनरुक्त्यं परिहरति—
व्याकीर्णे विक्षिप्ते 38विस्तृते च शास्त्रे अल्पबुद्धीनां व्यामोहो भवति पुंसाम् । तेन तस्य नाट्यवेदस्यार्थस्तत्पदैरेव संक्षिप्य ऋजुवृत्त्या क्रियत इति ।
स्वकृतेरेव विषयकथनपरतया प्रतिभासमानस्योत्तरस्य श्लोकस्य39 तात्पर्यमाह विषयैक्येति । 40एकवक्तृकत्वेऽपि विषयैक्यमेव पौनरुक्त्यप्रयोजकम् । तस्यैव41 वक्तुर्भिन्नार्थवाक्यकथने पौनरुक्त्याभावात् । पुनःशब्दोऽप्युक्ता5 पेक्षया संगच्छते । ततः शास्त्रेण 42सह विषयैक्यप्रसक्तं पौनरुक्त्यमुत्तरश्लोकेन परिहरतीत्यर्थः । ननु शास्त्रेणोक्तस्य त्वयापि 43कथने किं प्रयोजनम् । अत आह व्याकीर्ण इति । यद्यपि शास्त्रेणोक्तोऽयमर्थः, तथापि तेन विक्षेपाद् विस्तरतश्चोक्तमर्थमहं44 संक्षेपेणार्जवेन च वदामीत्यर्थः । 45उत्तरोक्तपरिहारद्वयकटाक्षेण व्याचष्टे व्याकीर्णे विक्षिप्ते विस्तृते चेति । बुद्धेर्मान्द्यं नाम 46न विषयाणामग्रहः । किं तु अल्पविषयत्वम् । तेनाह अल्पबुद्धीनामिति । अल्पस्य बुद्धिरल्पबुद्धिः । अल्पविषया बुद्धिरित्यर्थः । विक्षिप्ते विभ्रमो भवति । विस्तीर्णे विस्मरणम्47 । उभयसंग्रहार्थं व्यामोह इत्युक्तम् । तस्येत्यत्र तद्वृत्तेन48 नाट्यवेदः परामृश्यते इत्याह तस्य नाट्यवेदस्येति । यद्यप्ययमर्थः विक्षिप्ते विभ्रमो भवतीति पूर्वश्लोकेनैव सूचितः, तथापि विक्षेपे विस्तरे च दर्शिते सति परिहारापेक्षा भवतीत्ययमेव परिहारः ।
-
MSS. of Avaloka read vistīrṇe instead of vistṛte and matimoho instead of vyāmoho. N.S.P. vistīrṇe ca rasaśāstre mandabuddhīnāṃ puṃsāṃ matimoho bhavati.
↩ -
T.MS. omits ślokasya.
↩ -
Tri.MS. gives this reading. M.G.T. reads ekavaktṛivo ’pi. T.MS. reads ekavaktṛkaraṇatve ’pi.
↩ -
Here M.G.T. is corrupt.
↩ -
T. MS. omits saha.
↩ -
M.G.T. reads vacane, Tri. MS. vivacane.
↩ -
M.G.T. omits aham.
↩ -
M.G.T. reads uttarottaraparihāra- etc.
↩ -
T. MS. omits na.
↩ -
M.G.T. and Tri.MS. give vistāraṇam.
↩ -
tadvṛttam means tacchabdaḥ (vibhaktyantaḥ), just as yadvṛttaṃ means yacchabdaḥ, and kiṃvṛttaṃ kiṃśabdaḥ. See the kārikā about uddeśya and vidheya:
↩yadvṛttayogaḥ prāthamyam ityādy uddeśyalakṣaṇam |tadvṛttayogaḥ paścāttvaṃ syād vidheyasya lakṣaṇam ||