अथ शक्तिः—
यथा रत्नावल्याम्— राजा सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्याधिकं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः । प्रत्यासत्तिमुपागता न हि तथा देवी रुदत्या यथा प्रक्षाल्येव तयैव बाप्पसलिलैः कोपोऽपनीतः स्वयम् ॥362 इत्यनेन सागरिकालाभविरोधिवासवदत्ताकोपोपशमनात् शक्तिः ।
यथा चोत्तरचरिते लवः प्राह— विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तदौद्धत्यं क्वापि व्रजति विनयः प्रह्वयति माम् । झटित्यस्मिन् दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥363
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.