58 अथ निर्णयः—
यथा रत्नावल्याम्—
देव, श्रूयताम् । इयं सिंहलेश्वरदुहिता सिद्धादेशेनोपदिष्टा, योऽस्याः पाणिं ग्रहीष्यति स सार्वभौमो राजा भविष्यतीति । तत्प्रत्ययादस्माभिः स्वाम्यर्थे बहुशः प्रार्थ्यमानापि सिंहलेश्वरेण देव्या वासवदत्तायाश्चित्तखेदं परिहरता यदा न दत्ता, तदा लावाणिके देवी दग्धेति प्रसिद्धिमुत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः ।408
यथा च वेणीसंहारे— इत्यनेन स्वानुभूतार्थकथनान्निर्णय इति ।