अथ मृदवम्—
यथा शाकुन्तले— मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामुपलक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । 148 उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥756 इति मृगयादोषस्य गुणीकारः ।
यथा च— सततमनिर्वृतमानसमायाससहस्रसंकुलक्लिष्टम् । गतनिद्रमविश्वासं जीवति राजा जिगीषुरयम् ॥ इति राज्यगुणस्य दोषीभावः ।
उभयं वा— सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ इति प्रस्तावनाङ्गानि ।
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.