अध्यायः 155

भीमेन सौगन्धिकसरोरक्षकान्प्रति स्वचिकीर्षितकथनपूर्वकं सौगन्धिकाहरणए प्रवर्तनम् ॥ 1 ॥ तथा सप्रतिषेधं स्वजिघांसूनां तेषां गदया ताडनम् ॥ 2 ॥ भीमगदाप्रहारमशक्नुवद्भिस्तैर्बीमवृत्तं निवेदितेन कुबेरेण तदनुमोदनम् ॥ 3 ॥

भीम उवाच ।
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥
अपश्यत्तत्रपाञ्चाली सौगन्धिकमनुत्तमम् ।
अनिलोढमितो नूनं सा बहूनि परीप्सति ॥
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् ।
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥
राक्षसा ऊचुः ।
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ ।
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा ॥
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर ।
आमन्त्र्य यक्षप्रवरं पिबन्ति च हरन्ति च ॥
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ।
`यक्षाधिपस्यानुमते कुबेरस् महात्मनः' ॥
अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् ।
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येन्न संशयः ॥
तमनादृत्य पद्मानि जिहीर्षसि बलादिह ।
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥
[आमन्त्र्य यक्षराजं वै ततः पिव हरस्व च ।
नातोऽन्यथा त्वया शक्यं किंचित्पुष्करमीक्षितुं ॥
भीमसेन उवाच ।
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके ।
दृष्ट्वाऽपिच महाराजं नाहं याचितुमुत्सहे ॥
न हि याचन्ति राजान एष धर्मः सनातनः ।
न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ॥
इयं च नलिनी रम्या जाता पर्वतनिर्झरे ।
नेयं भवनमासाद्यकुबेरस्य महात्मनः ॥
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च ।
एवं गतेषु द्रव्येषु कः कं याचितुमर्हति ॥
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत ।
तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः ॥
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ।
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥
कदर्थीकृत्यतु स तान्राक्षसान्भीमविक्रमः ।
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥
गृह्णीत बध्नीत विकर्ततेमं पचाम खादाम च भीमसेनम् ।
क्रुद्धा ब्रुवन्तोऽभिययुर्द्रतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥
प्रगृह्यतानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥
ते तं तदा तोमरपट्टसाद्यै- र्व्याविद्धशस्त्रैः सहसा निपेतुः ।
जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवव्रुरुग्राः ।
जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवब्रुरुग्राः ॥
वातेन कुन्त्यां बलवान्सुजातः शूरस्तरस्वी द्विषतां निहन्ता ।
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥
तेषां स मार्गान्विविधान्महात्मा निहत्य शस्त्राणि च शास्त्रवाणाम् ।
यथा प्रवीरान्निजघान भीमः परश्शतान्पुष्करिणीसमीपे ॥
ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलंबाहुबलं तथैव ।
अशक्नुवन्तः सहितं समन्ता- द्द्रुतं प्रवीरा सहसा निवृत्ताः ॥
विदीर्यमाणास्तत एव तूर्ण- माकाशमास्थाय विमूढसंज्ञाः ।
कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥
स शक्रवद्दानवदैत्यसङ्घान् विक्रम्य जित्वा च रणेऽरिसङ्घान् ।
विगाह्यतां पुष्करीणीं जितारिः कामं स जग्राह ततोऽम्बुजानि ॥
ततः स पीत्वाऽमृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः ।
उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति ॥
ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुन्नाः ।
भीमस्य वीर्यं च बलं च संख्ये यथावदाचख्युरतीव दीनाः ॥
तेषां वचस्तत्तु निशाम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच ।
गृह्णातु भीमो जलजानि कामं कृष्णानिमित्तं विदितं ममैतत् ॥
ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः ।
भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥

3-155-1 प्राप्तं मां निबोधत राक्षसाः इति ध. पाठः ॥ 3-155-2 अनिलोढं वायुना आनीतम् ॥ 3-155-22 सहितमेकीभूयाप्यशक्नुवन्तः ॥