अध्यायः 072

उत्तरेण राजाभ्यनुज्ञयाऽन्तःपुरमेत्य तदभिवादनम् ॥ 1 ॥ युधिष्ठिरघ्रणावलोकनभीतोत्तरचोदनया विराटेन युधिष्ठिरक्षमापनम् ॥ 2 ॥ ततोऽर्जुनस्यान्तःप्रवेशः ॥ 3 ॥ उत्तरस्यैव जेतृत्वभ्रमहृष्टेन विराटेन तत्प्रशंसनम् ॥ 4 ॥ तेन तंतपि कस्यचिद्देवपुत्रस्यैव जेतृत्वकथनम् ॥ 5 ॥ ततोऽर्जुनेनोत्तराप्रभृतिभ्यः कुरुवस्त्रप्रदानम् ॥ 6 ॥

वैशंपायन उवाच ।
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि ।
आसाद्यान्तःपुरद्वारं पित्रे संप्रत्यवेदयत् ॥
ततो द्वाःस्थः समासाद्य प्रणिपत्य कृताञ्जलिः ।
वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत् ॥
राजन्पृथुयशस्तुभ्यं जित्वा शत्रून्समागतः ।
उत्तरः सह सूतेन द्वारि तिष्ठति वारितः ॥
कुमारो योधमुख्यैस्च गणिकाभिस्च संवृतः ।
पौरजानपदैर्युक्तः पूज्यमानो जयाशिषाः ॥
ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत् ।
प्रवेशयोभौ तौ तूर्णं दर्शनेप्सुरहं तयोः ॥
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् ।
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नलाः ॥
तस्य हि महाबाहोर्व्रतं नित्यं महात्मनः । यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत् ।
अन्यत्र संग्रामगतान्न स जीवेत्कथंचन ॥
व्यक्तं भृसं सुसंक्रुद्धो मां दृष्ट्वैव सशोणितम् ।
विराटमिह सामात्यं हन्यात्सबलावाहनम् ॥
इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा ।
मम शोणितकर्तारं मृद्गीयात्किं पुनर्नरम् ॥
क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् ।
इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः ॥
इत्युक्त्वा क्षमया युक्तो धर्मराजो घृणान्वितः ।
सभायां सह मात्स्येन तूष्णीमुपविवेश ह ॥
ततो राजसुतो ज्येष्ठः प्राविशत्पृथिवींजयः ।
ववन्दे स पितुः पादौ कङ्कं चाप्युपतिष्ठत ॥
पश्यन्युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः । अभिवाद्य ततो दृष्ट्वा कङ्कस्य रुधिरप्लुतम् ।
हृदयेऽदह्यत तदा मृत्युग्रस्त इवोत्तरः ॥
ततो रुधिरसिक्ताङ्गमनेकाग्रमनागसम् । भूमावेकान्त आसीनं सैरन्ध्र्या समुपासितम् ।
ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः ॥
केनायं ताडितः कङ्कः केन पापमिदं कृतम् ।
को वा जिगमिषुर्मृत्युं केन स्पृष्टः पदोरगः ॥
श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः ।
पूजनीयोऽभिवाद्यश्च न प्रबाध्योऽयमीदृशः ॥
वैशंपायन उवाच ।
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः ।
प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः ॥
पुत्र ते विजयं श्रुत्वा प्रहृष्टोऽहं मुदा भृशम् ।
अक्षक्रीडनयाऽनेन कालक्षेपमकारिषम् ॥
तत्राजयत्कुरून्सर्वानुत्तरो राष्ट्रवर्धनः । इत्युक्तं हि मया पुत्र नेति कङ्को बृहन्नला ।
अजयत्सा कुरून्सर्वानिति मामब्रवीन्मुहुः ॥
प्रशंसिते मया पुत्र विजये तव विश्रुते ।
बृहन्नलाया विजयं कङ्कोऽस्तुवत वै रुषा ॥
मया प्रशस्यमाने तु त्वयि पण्डं प्रशंसति । बृहन्नलाप्रशंसाभिरभ्यसूयमहं तदा ।
ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत् ॥
ताडितोऽयं यतिः कङ्क इत्युक्तं तद्वचोत्तरः ।
श्रुत्वा पितुर्भृशं क्रुद्धः पितरं वाक्यमब्रवीत् ॥
अकार्यं ते कृतं राजन्क्षिप्रमेष प्रसाद्यताम् ।
मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत् ॥
यावन्न क्षयमायाति कुलं सर्वमशेषनः ।
स्फीतं वृद्धं च मात्स्यानामयं तावत्प्रसाद्यताम् ॥
प्रणम्य पादयोरस्य दण्डवत्क्षितिमण्डले ।
प्रगृह्य पादौ पाणिभ्यामयं तावत्प्रसाद्यताम् ॥
दक्षेण पाणिना स्पृष्ट्वा शपे त्वां क्षपितं मया ।
इति यावद्वदेत्कङ् अयं तावत्प्रसाद्यताम् ॥
स पुत्रस्य वचः श्रुत्वा विराटः साध्वसाकुलः ।
क्षमयामास कौन्तेयं छन्नं ब्राह्मणवर्चसा ॥
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत ।
चिरं क्षान्तं मया राजन्मन्युर्मम न विद्यते ॥
यदि स्म तत्पतेद्भूमौ रुधिरं मम पार्थिव ।
सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ ॥
न दूषयामि राजेन्द्र यस्तु हन्याददूषकम् ।
फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात् ॥
वैशंपायन उवाच ।
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला ।
अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत ॥
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् । परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम् ।
प्रशशंस ततो मात्स्यः शृण्वतः सव्यसाचिनः ॥
विराट उवाच ।
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन ।
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥
पदं पदसहस्रेण यश्चरन्नापराध्नुयात् ।
तेन कर्णेन ते तात कथमासीत्समागमः ॥
रणे यं प्रेक्ष्य सीदन्ति हृतवीर्यपराक्रमाः ।
कृपेन तेन ते तात कथमासीत्समागमः ॥
यस्य तद्विश्रुतं लोके महद्वृत्तमनुत्तमम् ।
पितुः कृते कृतं घोरं ब्रह्मचर्यमनुत्तमम् ॥
योऽयोधीत्समरे रामं जामदग्न्यं प्रतापिनम् ।
भीष्मोसौ पुरुषव्याघ्र न च युद्धे पराजितः ॥
पराक्रमी च दुर्धर्षो विद्वाञ्शूरो जितेन्द्रियः ।
दृढवेधी क्षिप्रकारी विश्रुतः सर्वकर्मसु ॥
तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे ।
युद्धमासीत्कथं तात सर्वमेतद्ब्रवीहि मे ॥
पर्वतं यो विनिर्भिन्द्याद्राजपुत्रो वरेषुभिः ।
दुर्योधनेन ते तात कथमासीत्समागमः ॥
आचार्यो वृष्णिरीराणां पाञ्चालानां च यः प्रभुः ।
कुरूणां पाण्डवानां च सर्वक्षत्रस्य यो गुरुः ॥
सर्वशस्त्रभृतां श्रेष्ठः सर्वलोकेषु विश्रुतः ।
तेन द्रोणेन ते तात कथमासीत्समागमः ॥
आचार्यपुत्रो यः शूरो द्रोणादनवमो रणे ।
तेन वीरेण ते तात कथमासीत्समागमः ॥
सर्वे चैव महावीर्या धार्तराष्ट्रः महारथाः ।
तैस्तैर्वीरैश्च ते तात कथमासीत्समागमः ॥
उत्तर उवाच ।
न मया निर्जिता गावो न मया कुरवो जिताः ।
कृतं च कर्म तत्सर्वं देवपुत्रेण केनचित् ॥
स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान्कुरून् ।
दृष्ट्वा विषण्णं संग्रामे देवपुत्रो न्यवारयत् ॥
स हि तिष्ठन्रथोपस्थे वज्रपाणिनिभो युवा ।
तेन ते निर्जिता गावस्तेन ते कुरवो जिताः ॥
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् । स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् ।ट
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥
दुर्योदनं च समरे प्रभिन्नमिव कुञ्जरम् ।
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥
न हास्तिनपुरे त्राणं तव पश्यामि किंचन ।
न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता ॥
व्यायामेन परीप्सस्व जीवितं कौरवात्मज । न मोक्ष्यसे पलायंस्त्वं लोके युद्धमना भव ।
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् । सचिवैः संवृतो राजा भीष्मद्रोणकृपादिभिः ।
ततो मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत् ॥
यदभूद्धनसंकाशमनीकं व्यधमच्छरैः । तत्प्रपुद्य रथानीकं सिंहदर्पसमो युवा ।
तान्कुरुन्द्रावयद्राजन्रणे नाग इव श्वसन् ॥
एकेन तेन शूरेण षड्रथाः परिनिर्जिताः ।
शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा ॥
हयानां च गजानां च शूराणां च धनुष्मताम् ।
निहतानि सहस्राणि भग्ना च कुरुवाहिनी ॥
सूतपुत्रं शतैर्विद्ध्वा हयान्हत्वा महारथः ।
अस्त्रेण मोहयित्वा तं रक्तवस्त्रं समाददे ॥
चतुर्भिः पुनरानर्च्छद्भीष्मं शान्तनवं शरैः ।
स तं विद्ध्वा हयांश्चाशु नास्य वस्त्रं समाददे ॥
दुर्योधनं च बलवान्बाणैर्विव्याध सप्तभिः ।
तं स विद्ध्वा हयांश्चास्य पीतवस्त्रं समाददे ॥
द्रोणं कृपं च बलवान्सोमदत्तं जयद्रथम् ।
भूरिश्रवसमिन्द्राभं शकुनिं च महारथम् ॥
त्रिभिस्त्रिभिः स विद्ध्वा तु दुःशासनमुखानपि ।
विविधानि च वस्त्राणि महार्हाण्याजहार सः ॥
द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे ।
चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी ॥
विराट उवाच ।
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः ।
यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे ॥
इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च ।
येन मे त्वं च गावश्च मोक्षिता देवसूनुना ॥
तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान् ।
स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च ॥
उत्तर उवाच ।
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् ।
अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥
वैशंपायन उवाच ।
एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम् ।
वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम् ॥
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना ।
सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः ॥
इत्येवं ब्रूहि राजानं विराटं समुपस्थितम् । इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम् ।
ददौ वस्त्राणि रन्तानि विराटदुहितुः स्वयम् ॥
उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च ।
प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत् ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विसप्ततितमोऽध्यायः ॥

4-72-5 क्षत्तारं सारथिम् ॥ 5 । 4-72-6 कर्ण उपाजपत् कर्णे इति च्छेदः ॥ 6 ॥ 4-72-7 ममाङ्ग इति मम युधिष्ठिरस्य । संग्रामाय गतात् गमनात् ॥ 7 ॥ 4-72-13 रुधिरप्लुतं रुधिरत्रावम् ॥ 13 ॥ 4-72-14 अनेकाग्रं व्यग्रम् । युधिष्ठिरं दृष्ट्वा राजानं पप्रच्छेत्यन्वयः ॥ 14 ॥ 4-72- 22 तद्वचः इति च्छेदः संधिरार्षः ॥ 22 ॥ 4-72-30 तस्येति । स इति शेषः । स हन्ता तस्य स्वकृतहननस्य ॥ 30 । 4-72-31 उपतिष्ठत उपातिष्ठत असेवत ॥ 31 ॥ 4-72- 33 दायादवान्पुत्रवान् ॥ 33 । 4-72-34 पदसहस्रेण लक्ष्यसहस्रार्थम् । हेत्वर्थे तृतीया । युगपत्सहस्रलक्ष्याणि वेद्धुमित्यर्थः । चरन् बाणैः । पदं एकमपि लक्ष्यं नापराध्नुयात् लक्ष्यात् च्युतसायको न भवेदित्यर्थः ॥ 34 ॥ 4-72-47 तिष्ठन् अयुध्यतेति शेषः ॥ 47 ॥ 4-72-52 स निवृत्तोऽभूदित्यन्वयः ॥ 52 ॥ 4-72-53 सिंहेन दर्पे रामः । द्रावयत् .........॥ 53 ॥ 4-72-54 तृणचरास्तृणभक्षकाः ॥ 54 ॥ 4-72-66 सत्रेण वेषान्तरेण ॥ 66 ॥ 4-72-68 श्व इतो ब्रूहि राजानं विराट......चेति शo पाठः ॥ 68 ॥