अध्यायः 058

सञ्जय उवाच ।

सञ्जय उवाच ।
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथाऽऽगतम् ।
प्रत्युद्ययावदीनात्मा वेगेन महता नदन् ॥
समापेततुरन्योन्यं शृङ्गिणौ वृषभाविव ।
महानिर्घातघोषश्च प्रहाराणामजायत ॥
अभवच्च तयोर्युद्वं तुमुलं रोमहर्षणम् ।
जिघृक्षतोर्यथाऽन्योन्यमिन्द्रप्रह्लादयोरिव ॥
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ ।
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे ।
खद्योतसङ्खैरिव खं दर्शनीयं व्यरोचत ॥
तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम् ।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ॥
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ ।
सम्प्रहारयतां चित्रे सम्प्रगृह्य गदे शुभे ॥
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ ।
बलिनौ वारणौ यद्वद्वासितार्थे मदोत्कटौ ॥
समानवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ ।
प्रहर्षं परमं जग्मुर्देवगन्धर्वदानवाः ॥
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ ।
संशयः सर्वभूतानां विजये समपद्यत ॥
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ ।
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् ।
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥
आविद्ध्यतो गतां तस्य भीमसेनस्य संयुगे ।
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥
आविद्ध्यन्तमरिं प्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् ।
गदामतुलवेगां तां विस्मितः सम्बभूव ह ॥
चरंश्च विविधान्मार्गान्मण्डलानि च भारत ।
अशोभत तदा वीरो भूय एव वृकोदरः ॥
तौ परस्परमासाद्य यत्तावन्योन्यसूदने ।
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः ॥
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा ।
मण्डलानि विचित्राणि गतप्रत्यागतानि च ॥
गोमूत्रिकाणि चित्राणि स्थानानि विविधानि च ।
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् ।
मत्स्योद्वृत्तं सोरुवृत्तमवप्लुतमुपप्लुतम् ॥
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ।
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ॥
वञ्चयानौ पुनश्चैव चेरतुः कुरुसत्तमौ ।
विक्रीडन्तौ सुबलिनौ मण्डलानि विचेरतुः ॥
[तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः ।
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ॥
परस्परं समासाद्य दंष्ट्राभ्यां द्विरदौ यथा ।
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥
एवं तदभवद्युद्धं घोररूपं परन्तप । परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥]
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली । दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत ।
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत ॥
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि ।
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् ॥
आहतस्तु ततो भीमः पुत्रेण तव भारत ।
आविध्यत गदां गुवीं प्रहारं तमचिन्तयन् ॥
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् ।
ददृशुस्ते महाराज भीमसेनस्य तां गदाम् ॥
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः ।
समुद्यम्य गदां घोरां प्रत्यविध्यत्परन्तपः ॥
गदामारुतवेगेन तव पुत्रस्य भारत ।
शब्द आसीत्सुतुमुलस्तेजश्च समजायत ॥
स चरन्विविधान्मार्गान्मण्डलानि च भागशः ।
समशोभत तेजस्वी भूयो भीमात्सुयोधनः ॥
आविद्धा सर्ववेगेन भीमेन महती गदा ।
सधूमं सार्चिषं चाग्निं मुमोचोग्रमहास्वना ॥
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः ।
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत ॥
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः ।
भयं विवेश पाण्डूंस्तु सर्वानेव ससात्यकीन् ॥
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः ।
गदाभ्यां सहसाऽन्योन्यमाजघ्नतुररिन्दमौ ॥
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा ।
अशोभेतां महाराज शोणितेन परिप्लुतौ ॥
एवं तदभवद्युद्धं घोररूपमसंवृतम् ।
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव ॥
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः ।
चरंश्चित्रतरान्मा र्गान्कौन्तेयमभिदुद्रुवे ॥
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् ।
अतिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् ॥
सविस्फुलिङ्गो निर्हादस्तयोस्तत्राभिघातजः ।
प्रादुरासीन्महाराज घृष्टयोर्वज्रयोरिव ॥
वेगवत्या तया तत्र भीमसेनप्रमुक्तया ।
निपतन्त्या महाराज पृथिवी समकम्पत ॥
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे ।
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् ॥
स सव्यं मण्डलं राजा उद्धाम्य कृतनिश्चयः ।
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया ॥
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः ।
नाकम्पत महाराज तदद्भुतमिवाभवत् ॥
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् ।
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् ॥
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् ।
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः ॥
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः ।
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् ॥
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता ।
चालयामास पृथिवीं महानिर्घातनिःस्वनाः ॥
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः ।
गदानिपातं प्रज्ञाय भीमसेनं च वञ्चितम् ॥
वञ्चयित्वा तदा भीमं गदया कुरुसत्तमः ।
ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः ॥
गदया निहतो भीमो मुह्यमानो महारणे ।
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव ॥
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण़्डवाः ।
भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् ॥
स तु तेन प्रहारेण मातङ्ग इव रोषितः ।
हस्तिवद्वस्तिसंकाशमभिदुद्राव ते सुतम् ॥
ततस्तु तरसा भीमो गदया तनयं तव ।
अभिदुद्राव वेगेन सिंहो वनगजं यथा ॥
उपसृत्य तु राजानं गदामोक्षविशारदः ।
आविध्यत गदां राजन्समुद्दिश्य सुतं तव ॥
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा ।
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् ॥
तस्मिन्कुरुकुलश्रेष्ठे जानुभ्यामवनीं गते ।
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते ॥
तेषां तु निनदं श्रुत्वा शृञ्जयानां नरर्षभः ।
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत ॥
उत्थाय तु महाबाहुर्महानाग इव श्वसन् ।
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत ॥
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवन् ।
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे ॥
स महात्मा महात्मानं भीमं भीमपराक्रमः ।
अताडयच्छङ्खदेशे न चचालाचलोपमः ॥
स भूयः शुशुभे पार्थस्ताडितो गदया रणे ।
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्चरः ॥
ततो गदां वीरहणीमयोमयीं प्रगृह्य वज्राशनितुल्यनिःस्वनाम् ।
अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनञ्जयाग्रजः ॥
स भीमसेनाभिहतस्तवात्मजः पपात सङ्कम्पितदेहबन्धनः ।
सुपुष्पितो मारुतवेगताडितो वने महासाल इवावघूर्णितः ॥
ततः प्रणेदुर्जहृषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव ।
ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा हदात् ॥
स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत्परिभ्रमन् ।
अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत् ॥
स सिंहनादं विननाद कौरवो निपात्य भूमौ युधि भीममोजसा ।
बिभेद चैवाशनितुल्यमोजसा गदानिपातेन शरीररक्षणम् ॥
ततोऽन्तरिक्षे निनदो महानभू-- द्दिवौकसामप्सरसां च नेदुषाम् ।
पपात चोच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम् ॥
ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम् ।
अहीयमानं च बलेन कौरवं निशाम्य भेदं सुदृढस्य वर्मणः ॥
ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिराक्तमात्मनः ।
धृतिं समालम्ब्य विवृत्य लोचने बलेन संस्तभ्य वृकोदरः स्थितः ॥
`ततो यमौ यमसदृशौ पराक्रमे सपार्षतः शिनितनयश्च वीर्यवान् ।
समाह्वयन्नहमहमित्यभित्वरं-- स्तवात्मजं समभिययुर्वधैषिणः ॥
निवर्त्य तान्पुनरपि पाण्डवो बली तवात्मजं स्वयमभिगम्य कालवत् ।
चचार चाप्यपगतखेदवेपथुः सुरेश्वरो नमुचिमिवोत्तमं रणे' ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि अष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥

9-58-3 जिगीषतोर्यथेति झ.पाठः ॥ 9-58-49 आस्थायेति । कौशिकान् कुश उन्मत्तस्तदाचरितान्मार्गानास्थाय पुनः पुनरुत्पतनेन वञ्चनेन च भीममुन्मत्तीकृत्य गदया ताडयामासेति द्वयोः सम्बन्धः ॥ 9-58-52 नहृष्टमनसः खिन्नचेतसः ॥ 9-58-61 शङ्खदेशे ललाटप्रान्त ॥ 9-58-69 नेदुषां नाद कृतवतीनाम् ॥ 9-58-58 अष्टपञ्चाशत्तमोऽध्यायः ॥

श्रीः