अध्यायः 004

दुर्योधनेन स्वयंवरमण्टपे कलिङ्गराजकन्याहरणम् ॥ 1 ॥ कर्णेन तमनुद्रुतवतो राज्ञां पराजयः ॥ 2 ॥

नारद उवाच ।
कर्णस्तु समवाप्यैवमस्त्रं भार्गवनन्दनात् ।
दुर्योधनेन सहितो मुमुदे भरतर्षभ ॥
ततः कदाचिदाजातः समाजग्मुः स्वयंवरे ।
कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च ॥
श्रीमद्राजपुरं नाम नगरं तत्र भारत ।
राजानः शतशस्तत्र कन्यार्थे समुपागमन् ॥
श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् ।
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ॥
ततः स्वयंवरे तस्मिन्नानादेश्या महारथाः ।
समाजग्मुर्नृपतयः कन्यार्थे नृपसत्तम ॥
शिशुपालो जरासन्धो भीष्मको वक्र एव च ।
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ॥
सृगालश्च महाराजः स्त्रीराज्याधिपतिश्च यः ।
विशोकः शतधन्वा च भोजो वीरश्च नामतः ॥
एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः ।
म्लेच्छाश्चार्याश्च राजानः प्राच्योदीच्यास्तथैव च ॥
काञ्चनाङ्गदिनः सर्वे शुद्धजाम्बूनदप्रभाः ।
सर्वे भास्वरदेहाश्च व्याघ्रा इव बलोत्कटाः ॥
ततः समुपविष्टेषु तेषु राजसु भारत ।
विवेश रङ्गं सा कन्या धात्रीवर्षवरान्विता ॥
ततः संश्राव्यमाणेषु राज्ञां नामसु भारत ।
अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी ॥
दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम् ।
प्रत्यपेधच्च तां कन्यामसत्कृत्य नराधिपान् ॥
स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः ।
रथमारोप्य तां कन्यामाजुहाव नराधिपान् ॥
तमन्वगाद्रथी खङ्गी बद्धगोधाङ्गुलित्रवान् ।
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ॥
ततो विमर्दः सुमहान्राज्ञामासीद्युयुत्सताम् । सन्नह्यतां तनुत्राणि रथान्योजयतामपि ।
तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ ।
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ॥
कर्णस्तेषामापततामेकैकेन शरेण ह ।
धनूंषि च शरव्रातान्पातयामास भूतले ॥
ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् ।
कांश्चिदुत्सृजतो बाणान्रथशक्तिगदास्तथा ॥
लाघवाव्द्याकुलीकृत्य कर्णः प्रहरतां वरः ।
हतसूतांश्च भूयिष्ठान्स विजिग्ये नराधिपान् ॥
ते स्वयं वाहयन्तोऽश्वान्याहि याहीति वादिनः ।
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ॥
दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा ।
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

12-4-2 विषये देशे ॥ 12-4-6 भीष्मको बक एव चेति थ. पाठः ॥ 12-4-7 त्रैलोक्याधिपतिश्च य इति ट. ड. पाठः । त्रैराज्येति थ. पाठ ॥ 12-4-10 वर्षवरः षण्ढः ॥ 12-4-17 शिरांसि सशरांश्चापानिति ट. ड. थ. पाठः ॥ 12-4-20 व्यपेयुः व्यपगताः ॥