अध्यायः 156

भीष्मेण युधिष्ठिरंप्रति लोभादीनामनर्थहेतुत्वकथपूर्वकं तद्वतां गर्हणम् ॥ 1 ॥ तथा सत्सङ्गस्य लोभादिजयीपायत्वसूचनाय सतां प्रशंसनपूर्वकं तत्पूजाविधानम् ॥ 2 ॥

युधिष्ठिर उवाच ।
पापस्य यदधिष्ठानं यतः पापं प्रवर्तते ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ ॥
भीष्म उवाच ।
पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप ।
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ॥
अतः पापमधर्मश्च तथा दुःखमनुत्तमम् ।
निकृत्या मूलमेतद्धि येन पापकृतो जनाः ॥
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते ।
लोभान्मोहश्च माया च मानस्तम्भः परासुता ॥
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः ।
अभिध्याऽप्रख्यता चैव सर्वं लोभात्प्रवर्तते ॥
अत्यागश्च कुतर्कश्च विकर्मसु च याः क्रियः ।
कुलविद्यामदश्चैव रूपैश्वर्यमदस्तथा ॥
सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः ।
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् ॥
हरणं परवित्तानां परदाराभिमर्शनम् ।
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च ॥
उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः ।
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुर्जयः ॥
रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसह । कुत्सा विकत्था मात्सर्यं पापं दुष्कर्मकारिता ।
साहसानां च सर्वेषामकार्याणां क्रियास्तथा ॥
आतौ बाल्ये च कौमारे यौवने चापि मानवाः ।
न त्यजन्त्यात्मकर्मैकं यन्न जीर्यति जीर्यतः ॥
यो न पूरयितुं शक्यो लोभः प्रीत्या कथंचन ।
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः ॥
न प्रहृष्यति यो लोभैः कामैर्यश्च न तृप्यति ।
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः ॥
ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा ।
स लोभः सह मोहेन विजेतव्यो जितात्मना ॥
दम्भो द्रोहश्च निन्दा च पैशून्यं मत्सरस्तथा ।
भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् ॥
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः ॥
द्वेपक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः ।
अन्तःक्षुरा वाङ्भधुराः कृपाश्छन्नास्तृणैरिव ॥
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् । कुर्वते च बहून्मार्गांस्तान्हेतुबलमाश्रिताः ।
सर्वमार्गान्विलुम्पन्ति लोभज्ञानेष्ववस्थिताः ॥
धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः ।
याया विक्रियते संस्था ततः साऽपि प्रपद्यते ॥
दर्पः बोधो मदः स्वप्नो हर्षः शोकोऽभिमानिता ।
एत हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ॥
एताना टान्बुद्धस्व नित्यं लोभसमन्वितान् ।
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् ॥
येष्वावृत्तिभयं नास्ति परलोकभयं न च ।
नामिपेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च ॥
शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः ।
सुखं दुःखं समं येषां सत्यं येषां परायणम् ॥
दातारो न ग्रहीतारो दयावन्तस्नथैव च ।
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च ॥
सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः ।
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत ॥
न ते चालयितुं शक्या धर्मव्याहारकारिणः ।
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ॥
न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः ।
ते सेव्याः साधुभिर्नित्यमसाधूंश्च विवर्जयेत् ॥
कामक्रोधव्यपेता ये निर्ममा निरहंकृताः ।
सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च ॥
न वागर्थं यशोर्थं वा धर्मस्तेपां युधिष्ठिर ॥
अवश्यं कार्य इत्येव शरीरस्य क्रियास्तथा ॥
त भयं क्रोधचापल्ये न शोकस्तेषु विद्यते ।
न धर्मध्वजिनश्चैव न गुह्यं किंचिदास्थिताः ॥
येष्वलोभस्तथाऽमोहो ये च सत्यार्जवे स्थिताः ।
तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः ॥
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च ।
निर्ममा निरहंकाराः सत्वस्थाः समदर्शिनः ॥
लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च ।
समानि येषां स्थिरविक्रमाणां बुभुत्सतां सत्यपथे स्थितानाम् ॥
धर्मप्रियांस्तान्सुमहानुभावान् दान्तोऽप्रमत्तश्च समर्चयेथाः ।
दैवात्सर्वे गुणवन्तो भवन्ति शुभाशुभे वाक्प्रलापास्तथाऽन्ये ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट््पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥

12-156-2 ग्राह इव ग्राहो ग्रासकर्ता ॥ 12-156-3 येन लोभेन जनाः पापकृतो भवन्ति ॥ 12-156-4 परासुता पराधीनप्राणत्वम् ॥ 12-156-5 अभिध्या चिन्ता । अप्रख्यता अप्रकीतिः । अभिध्याऽप्रावृता चैवेति ड. थ. पाठः ॥ 12-156-6 अत्यागादयोऽकार्यक्रियान्ताः सर्वे दोषाः लोभात् प्रवर्तन्त इति पूर्वोणान्वयः ॥ 12-156-11 जातौ जन्मनि ॥ 12-156-12 यो न पूरयितुं शक्य इत्यादीनां स लोभो जेतव्य इति तृतीयेनान्वयः ॥ 12-156-16 अल्पेऽपि धनादौ बुद्धिर्येषां पवुद्धयो लुब्धा इत्यर्थः ॥ 12-156-18 धर्मवैतंसिकाः धर्मव्याजेने एन् हिंसन्तः । ध्वजिनो धर्मख्यापकाः । हेतुबलमिति अन्यं संतोपहेतुतया पारदार्यादेरपि धर्मत्वं वर्णयन्तीति भावः ॥ 12-156-19 संस्था स्थितिः । विक्रियतेऽन्यथा भवति ॥ 12-156-25 सर्वं प्राणपर्यन्तमपि देयं परार्थे दातुं योग्यं येषां ते ॥ 12-156-28 पृच्छ च धर्ममिति शेषः ॥ 12-156-29 क्रिया आहारादयः । न धनार्थमिति झ. पाठः ॥ 12-156-30 गुह्यं गोपनीयम् ॥ 12-156-31 अमोह इति च्छेदः । येषां वृत्तमिति शेषः ॥ 12-156-34 हे शुभ हे भद्र, सर्वे वाक्प्रलापा गुणवन्तो भवन्ति । अन्ये तु मूढानां वाक्प्रलापा अशुभेऽशुभार्थमेव भवन्तीति शेषः ॥