अध्यायः 209

भीष्मेण युधिष्ठिरंप्रति वासुदेवतत्वकथनम् ॥ 1 ॥

`* युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ केशवस्य महात्मनः ।
वक्तुमर्हसि तत्त्वेन माहात्म्यं पुनरेव तु ॥
न तृप्याम्यहमप्येनं पश्यञ्शृण्वंश्च भारत ।
एवं कृष्णं महाबाहो तस्मादेतद्ब्रवीहि मे ॥
भीष्म उवाच ।
शृणु राजन्कथामेतां वैष्णवीं पापनाशनीम् ।
नारदो मां पुरा प्राह यामहं ते वदामि ताम् ॥
देवर्षिर्नारदः पूर्वं तत्वं वेत्स्यामि वै हरेः ।
इति संचिन्त्य मनसा दध्यौ ब्रह्म सनातनम् ॥
हिमालये शुभे दिव्ये दिव्यं वर्षशतं किल ।
अनुच्छ्वसन्निराहारः संयतात्मा जितेन्द्रियः ॥
ततोऽन्तरिक्षे वागासीत्तं मुनिप्रवरं प्रति ।
मेघगम्भीरनिर्घोषा दिव्या वाह्याऽशरीरिणी ॥
किमर्थं त्वं समापन्नो ध्यानं मुनिवरोत्तम ।
अहं ददामि ते ज्ञानं धर्माद्यं वा वृणीष्व माम् ॥
तच्छ्रुत्वा मुनिरालोच्य संभ्रमाविष्टमानसः ।
किंनु स्यादिति संचिन्त्य वाक्यमाहापरं प्रति ॥
कस्त्वं भवानण्डं बिभेद मध्ये समास्थितो वाक्यमुदीरयन्माम् ।
न रूपमन्यत्तव दृश्यते वै ईदृग्विधस्त्वं समधिष्ठितोऽसि ॥
पुनस्तमाह स मुनिमनन्तोऽहं बृहत्तरः ।
न मां मूढा विजानन्ति ज्ञानिनो मां विदन्त्युत ॥
तं प्रत्याह मुनिः श्रीमान्प्रणतो विनयान्वितः ।
भवन्तं ज्ञातुमिच्छामि तव तत्वं ब्रवीहि मे ॥
तस्य तद्वचनं श्रुत्वा नारदं प्राह लोकपः ।
ज्ञानेन मां विजानीहि नान्यथा शक्तिरस्ति ते ॥
नारद उवाच ।
कीदृग्विधं तु तज्ज्ञानं येन जानामि ते तनुम् ।
अनन्त तन्मे ब्रूहि त्वं यद्यनुग्रहवानहम् ॥
लोकपाल उवाच ।
विकल्पहीनं विपुलं तस्य चूरं शिवं परम् ।
ज्ञानं तत्तेन जानासि साधनं प्रति ते मुने ॥
अत्रावृत्य स्थितं ह्येतत्तच्छुद्धमितरन्मृषा ।
एतत्ते सर्वमाख्यातं संक्षेपान्मुनिसत्तम ॥
नारद उवाच ।
त्वमेव तव यत्तत्वं ब्रूहि लोकगुरो मम ।
भवन्तं ज्ञातुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥
ततः प्रहस्य भगवान्मेघगम्भीरया गिरा ।
प्राहेशः सर्वभूतानां न मे चास्यं श्रुतिर्न च ॥
न घ्राणजिह्वे दृक्चैव त्वचा नास्ति तथा मुने ।
कथं वक्ष्यामि चात्मानमशरीरस्तथाप्यहम् ॥
तज्ज्ञात्वा विस्मयाविष्टो मुनिराह प्रणम्य तम् । येन त्वं पूर्वमात्मानमनन्तोऽहं बृहत्तरः ।
शतोऽहमिति मां प्रीतः प्रोक्तवानसि तत्कथम् ॥
पुनस्तमाह भगवांस्तवाप्यक्षाणि सन्ति वै ।
त्वमेनं ब्रूहि चात्मानं यदि शक्नोषि नारद ॥
आत्मा यथा तव मुने विदितस्तु भविष्यति । मां च जानासि तेन त्वमेकं साधनमावयोः ।
इत्युक्त्वा भगवान्देवस्ततो नोवाच किंचन ॥
नारदोऽप्युत्स्मयन्खिन्नः क्व गतोऽसाविति प्रभुः ।
स्थित्वा स दीर्घकालं च मुनिर्व्यामूढमानसः ॥
आह मां भगवान्देवस्त्वनन्तोऽहं बृहत्तरः ।
तेनाहमिति सर्वस्य को वानन्तो बृहत्तरः ॥
केयमुर्वी ह्यनन्ताख्या बृहती नूनमेव सा । यस्यां जानन्ति भूतानि विलीनानि ततस्ततः ।
एनां पृच्छामि तरुणीं सैषा नूनमुवाच माम् ॥
इत्येवं स मुनिः श्रीमान्कृत्वा निश्चयमात्मनः ।
स भूतलं समाविश्य प्रणिपत्येदमब्रवीत् ॥
आश्चर्यासि च धन्यासि वृहती त्वं वसुन्धरे ।
त्वामत्र वेत्तुमिच्छामि याग्दृभूताऽसि शोभने ॥
तच्छ्रुत्वा धरणी देवी स्मयमानाऽब्रवीदिदम् ।
नाहं हि बृहती विप्र न चानन्ता च सत्तम ॥
कारणं मम यो गन्धो गन्धात्मानं ब्रवीहि तम् ।
ततो मुनिस्तद्धि तत्वं प्रणिपत्येदमब्रवीत् ॥
कारणं मे जलं मत्तो बृहत्तरतमं हि तत् ॥
स समुद्रं मुनिर्गत्वा प्रणिपत्येदमब्रवीत् ।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ॥
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्यमव्यय ।
तच्छ्रुत्वा सरितानाथः समुद्रो मुनिमब्रवीत् ॥
कारणं मेऽत्र संपृच्छ रसात्मानं बृहत्तरम् ।
ततो बृहत्तरं विद्वंस्त्वं पृच्छ मुनिसत्तम ॥
ततो मुनिर्यथायोगं जलं तत्वमवेक्ष्य तत् ।
जलात्मानं प्रणम्याह जलतत्वस्थितो मुनिः ॥
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं श्रोतुमिच्छामिकीदृग्भूतस्त्वमव्यय ॥
ततो रसात्म--मुनिमाह पुनः पुनः । ममापि कारणं पृच्छ तेजोरूपं विभावसुम् ।
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम् ॥
ततोऽग्निं प्रणिपत्याह मुनिर्विस्मितमानसः ।
यज्ञात्मानं महावासं सर्वभूतनमस्कृतम् ॥
आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥
ततः प्रहस्य भगवान्मुनिं स्विष्टकृदब्रवीत् । नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम ।
कारणं मम रूपं यत्तं पृच्छ मुनिसत्तम ॥
ततो योगक्रमेणैव प्रतीतं तं प्रविश्य सः ।
रूपात्मानं प्रणम्याह नारदो वदतांवरः ॥
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥
उत्स्मयित्वा तु रूपात्मा तं मुनिं प्रत्युवाच ह । वायुर्मे कारणं ब्रह्मंस्तं पृच्छ मुनिसत्तम ।
मत्तो बहुतरः श्रीमाननन्तश्च महाविलम् ॥
स मारुतं प्रणम्याह भगवान्मुनिसत्तमः ।
योगसिद्धो महायोगी ज्ञानविज्ञानपारगः ॥
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥
ततो वायुर्हि संप्राह नारदं मुनिसत्तमम् ।
कारणं पृच्छ भगवन्स्पर्शात्मानं ममाद्य वै ॥
मत्तो बृहत्तरः श्रीमाननन्तश्च तथैव सः ।
ततोस्य वचनं श्रुत्वा स्पर्शात्मानमुवाच सः ॥
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥
तस्य तद्वचनं श्रुत्वा स्पर्शात्मा मुनिमब्रवीत् ।
नाहं वृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम ॥
कारणं मम चैवेममाकाशं च बृहत्तरम् ।
तं पृच्छ मुनिशार्दूल सर्वव्यापिनमव्ययम् ॥
तच्छ्रुत्वा नारदः श्रीमान्वाक्यं वाक्यविशारदः ।
आकाशं समुपागम्य प्रणम्याह कृताञ्जलिः ॥
आश्चर्योसि न धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥
आकाशस्तमुवाचेदं प्रहसन्मुनिसत्तमम् । नाहं बृहत्तरो ब्रह्मञ्शब्दो वै कारणं मम ।
तं पृच्छ मुनिशार्दूल स वै मत्तो बृहत्तरः ॥
ततो ह्याविश्य चाकाशं शब्दात्मानमुवाच ह । स्वरव्यञ्जनसंयुक्तं नानाहेतुविभूषितम् ।
वेदाख्यं परमं गुह्यं वेदकारणमच्युतम् ॥
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं श्रोतुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥
वेदात्मा प्रत्युवाचेदं नारदं मुनिपुङ्गवम् ।
मया कारणभूतेन सर्ववेत्ता पितामहः ॥
ब्रह्मणो बुद्धिसंस्थानमास्थितोऽहं महामुने । तस्माद्वृहत्तरो मत्तः पद्मयोनिर्महामतिः ।
तं पृच्छ मुनिशार्दूल सर्वकारणकारणम् ॥
ब्रह्मलोकं ततो गत्वा नारदो मुनिपुङ्गवैः ।
सेव्यमानं महात्मानं लोकपालैर्मरुद्गणैः ॥
समुद्रैश्च सरिद्भिश्च भूततत्वैः सभूधरैः ।
गन्धर्वैरप्सरोभिश्च ज्योतिषां च गणैस्तथा ॥
स्तुतिस्तोमग्रहस्तोभैस्तथा वेदैर्मुनीश्वरैः ।
उपास्यमानं ब्रह्माणं लोकनाथं परात्परम् ॥
हिरण्यगर्भं विश्वेशं चतुर्वक्रेण भूषितम् ।
प्रणम्य प्राञ्जलिः प्रह्वस्तमाह मुनिपुङ्गवः ॥
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥
तच्छ्रुत्वा भगवान्ब्रह्मा सर्वलोकपितामहः ।
उत्स्मयन्मुनिमाहेदं कर्ममूलस्य लोपकम् ॥
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम ।
लोकानां मम सर्वेषां नाथभूतो बृहत्तरः ॥
नन्दगोपकुले गोपकुमारैः परिवारितः ।
समस्तजगतां गोप्ता गोपवेषेण संस्थितः ॥
मद्रूपं च समास्थाय जगत्सृष्टिं करोति सः ।
ऐशानमास्थितः श्रीमान्हन्ति नित्यं हि पाति च ॥
विष्णुः स्वरूपरूपोऽसौ कारणं स हरिर्मम ।
तं पृच्छ मुनिशार्दूल स चानन्तो बृहत्तरः ॥
ततोऽवतीर्य भगवान्ब्रह्मलोकान्महामुनिः ।
नन्दगोपकुले विष्णुमेनं कृष्णं जगत्पतिम् ॥
बालक्रीडनकासक्तं वत्सजालविभूषितम् ।
पाययित्वाथ बध्नन्तं धूलिधूम्राननं परम् ॥
गाहमानैर्हसद्भिश्च नृत्यद्भिश्च समन्ततः ।
पाणिवादनकैश्चैव संवृतं वेणुवादकैः ॥
प्रणिपत्याब्रवीदेनं नारदो भगवान्मुनिः । आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः ।
वेत्ताऽसि चाव्ययश्चासि वेत्तुमिच्छामि यादृशम् ॥
ततः प्रहस्य भगवान्नारदं प्रत्युवाच ह ।
मत्तः परतरं नास्ति मत्तः सर्वं प्रतिष्ठितम् ॥
मतो बृहत्तरं नान्यदहमेव बृहत्तरः ।
आकाशे च स्थितः पूर्वमुक्तवानहमेव ते ॥
न मां वेत्ति जनः कश्चिन्माया मम दुरत्यया ।
भक्त्या त्वनन्यया युक्ता मां विजानन्ति योगिनः ॥
प्रियोसि मम भक्तोसि मम तत्वं विलोकय ।
ददामि तव तज्ज्ञानं येन तत्वं प्रपश्यसि ॥
अन्येषां चैव भक्तानां मम योगरतात्मनाम् ।
ददामि दिव्यं ज्ञानं च येन तत्वं प्रपश्यसि ॥
अन्येषां चैव भक्तानां मम योगरतात्मनाम् ।
ददामि दिव्यं ज्ञानं च तेन ते यान्ति मत्पदम् ॥
एवमुक्त्वा ययौ कृष्णो नन्दगोपगृहं हरिः ॥
भीष्म उवाच ।
एतत्ते कथितं राजन्विष्णुतत्वमनुत्तमम् ।
भजस्वैनं विशालाक्षं जपन्कृष्णेति सत्तम ॥
मोहयन्मां तथा त्वां च शृणोत्येष मयेरितान् ।
धर्मात्मा च महाबाहो भक्तान्रक्षति नान्यथा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥