अध्यायः 227

भीष्मेण युधिष्ठिरंप्रति भगवत्स्वरूपनिरूपकमुनिसनत्कुमारसंवादानुवादः ॥ 1 ॥

`* युधिष्ठिर उवाच ।
केचिदाहुर्द्विधा लोके त्रिधा राजन्ननेकधा ।
न प्रत्ययो न चान्यच्च दृश्यते ब्रह्म नैव तत् ॥
नानाविधानि शास्त्राणि उक्ताश्चैव पृथग्विधाः ।
किमधिष्ठाय तिष्ठामि तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
स्वेस्वे युक्ता महात्मानः शास्त्रेषु प्रभविष्णवः ।
वर्तन्ते षण्डिता लोके को विद्वान्कश्च पण्डितः ॥
सर्वेषां तत्वमज्ञाय यथारुचि तथा भवेत् ।
अस्मिन्नर्थे पुराभूतमितिहासं पुरातनम् ॥
महाविवादसंयुक्तमृषीणां भावितात्मनाम् ।
हिमवत्पार्श्व आसीना ऋषयः संशितव्रताः ॥
षण्णां तानि सहस्राणि ऋषीणां गणमाहितम् ।
तत्र केचिद्धुवं विश्वं सेश्वरं तु निरीश्वरम् ॥
प्राकृतं कारणं नास्ति सर्वं नैवमिदं जगत् ।
अनेन चापरे विप्राः स्वभावं कर्म चापरे ॥
पौरुषं कर्म दैवं च यत्स्वभावादिरेव तम् ।
नानाहेतुशतैर्युक्ता नानाशास्त्रप्रवर्तकाः ॥
स्वभावाद्ब्राह्मणा राजञ्जिगीपन्तः परस्परम् ।
ततस्तु मूलमुद्भूतं वादिप्रत्यर्थिसंयुतम् ॥
पात्रदण्डविघातं च वल्कलाजिनवाससाम् ।
एके मन्युसमापन्नास्ततः शान्ता द्विजोत्तमाः ॥
वसिष्ठमब्रुवन्सर्वे त्वं नो ब्रूहि सनातनम् ।
नाहं जानामि विप्रेन्द्राःप्रत्युवाच स तान्प्रभुः ॥
ते सर्वे सहिता विप्रा नारदं ऋषिमनुवन् ।
त्वं नो ब्रूहि महाभाग तत्वविच्च भवानसि ॥
नाहं द्विजा विजानामि क्व हि गच्छाम संगताः ।
इति तानाह भगवांस्ततः प्राह च स द्विजान् ॥
को विद्वानिह लोकेऽस्मिन्नमोहोऽमृतमद्भुतम् ।
तच्च ते शुश्रुवुर्वाक्यं ब्राह्मणा ह्यशरीरिणः ॥
सनद्धाम द्विजा गत्वा पृच्छध्वं स च वक्ष्यति ॥
तमाह कश्चिद्विजवर्यसत्तमो विभाण्डको मण्डितवेदराशिः ।
कस्त्वं भवानर्थविभेदमध्ये न दृश्यसे वाक्यमुदीरयंश्च ॥
अथाहेदं तं भगवान्सनन्तं महामुने विद्धि मां पण्डितोऽसि
ऋषिं पुराणं सततैकरूपं यमक्षयं वेदविदो वदन्ति ॥
पुनस्तमाहेदमसौ महात्मा स्वरूपसंस्थं वद आह पार्थ ।
त्वमेकोऽस्मदृषिपुङ्गवाद्य नसत्स्वरूपमथवा पुनः किम् ॥
अथाह गम्भीरतरानुवादं वाक्यं महात्मा ह्यशरीर आदिः ।
न ते मुने श्रोत्रमुखेऽपि चास्यं न पादहस्तौ प्रपदात्मके न ॥
ब्रुवन्मुनीन्सत्यमथो निरीक्ष्य स्वमाह विद्वान्मनसा निगम्य ।
ऋषे कथं वाक्यमिदं ब्रवीषि न चास्य मन्ता न च विद्यते चेत् ॥
न शुश्रुवुस्ततस्तत्तु प्रतिवाक्यं द्विजोत्तमाः ।
निरीक्षमाणा आकाशं प्रहसन्तस्ततस्ततः ॥
आश्चर्यमिति मत्वा ते ययुर्हैमं महागिरिम् ।
सनत्कुमारसङ्काशं सगणा मुनिसत्तमाः ॥
तं पर्वतं समारुह्य ददृशुर्ध्यानमाश्रिताः ।
कुमारं देवमर्हन्तं वेदपाराविवर्जितम् ॥
ततः संवत्सरे पूर्णे प्रकृतिस्थं महामुनिम् ।
सनत्कुमारं राजेन्द्र प्रणिपत्य द्विजाः स्थिताः ॥
आगतान्भगवानाह ज्ञाननिर्धूतकल्मषः । ज्ञातं मया मुनिगणा वाक्यं तदशरीरिणः ।
कार्यमद्य यथाकामं पृच्छध्वं मुनिपुङ्गवाः ॥
तमब्रुवन्प्राञ्जलयो महामुनिं द्विजोत्तमं ज्ञाननिधिं सुनिर्मलम् ।
कथं वयं ज्ञाननिधिं वरेण्यं यक्ष्यामहे विश्वरूपं कुमार ॥
प्रसीद नो भगवञ्ज्ञानलेशं मधुप्रयाताय सुखाय सन्तः ।
यत्तत्पदं विश्वरूपं महामुने तत्र ब्रूहि किं तत्र महानुभाव ॥
स तैर्वियुक्तो भगवान्महात्मा यः सङ्गवान्सत्यवित्तच्छृणुष्व ।
अनेक साहस्रकलेषु चैव प्रसन्नधातुं च शुभाज्ञया सत् ॥
यथाह पूर्वं युष्मासु ह्यशरीरी द्विजोत्तमाः ।
तथैव वाक्यं तत्सत्यमजानन्तश्च कीर्तितम् ॥
शृणुध्वं परमं कारणमस्ति कथमवगम्यते । अहन्यहनि पाकविशेषो दृश्यते तेन मिश्रं सर्वं मिश्रयते । यथा मण्डली दृशि सर्वेषामस्ति निदर्शनम् । अस्ति चक्षुष्मतामस्ति ज्ञाने स्वरूपं पश्यति । यथा दर्पणान्तं निदर्शनम् ॥
स एव सर्वं विद्वान्न बिभेति न गच्छति कुत्राहं कस्य नाहं केन केनेत्यवर्तमानो विजानाति ॥
स युगतो व्यापी । स पृथक्स्थितः । तदपरमार्थः ॥
यथा वायुरेकः सन्बहुधेरितः । आश्रयविशेषो वा यस्याश्रयं यथावद्द्विजे मृगे व्याघ्रे च मनुजे वेणुंसश्रयो भिद्यते वायुरथैकः । आत्मा तथाऽसौ परमात्माऽसावन्य इव भाति ॥
एवमात्मा स एव गच्छति सर्वमात्मा पश्यञ्शृणोति न च घ्राति न भाषते ॥
चक्रेऽस्य तं महात्मानं परितो दश रश्मयः ।
विनिष्क्रम्य यथा सूर्यमनुगच्छन्ति तं प्रभुम् ॥
दिनेदिनेऽस्तमभ्येति पुनरुद्गच्छते दिशः ।
तावुभौ न रवौ चास्तां तथा वित्त शरीरिणम् ॥
पतिते वित्त विप्रेन्द्रं भक्षणे चरणे परः ।
ऊर्ध्वमेकस्तथाऽधस्तादेकस्तिष्ठति चापरः ॥
हिरण्यसदनं ज्ञेयं समेत्य परमं पदम् ।
आत्मना ह्यात्मदीपं तमात्मनि ह्यात्मपूरुषम् ॥
संचितं संचितं पूर्वं भ्रमरो वर्तते भ्रमम् ।
योऽभिमानीव जानाति न मुह्यति न हीयते ॥
न चक्षुषा पश्यति कश्चनैनं हृदा मनीषा पश्यति रुपमस्य ।
न शुक्लं न कृष्णं परमार्थभावं गुहाशयं ज्ञानदेवीकरस्थम् ॥
ब्राह्मणस्य न सादृश्ये वर्तते सोऽपि किं पुनः ।
इज्यते यस्तु मन्त्रेण यजमानो द्विजोत्तमः ॥
नैव धर्मी न चाधमीं द्वन्द्वातीतो विमत्सरः ।
ज्ञानतृप्तः सुखं शेते ह्यमृतात्मा न संशयः ॥
एवमेव जगत्सृष्टिं कुरुते मायया प्रभुः ।
न जानाति विमूढात्मा कारणं चात्मनो ह्यसौ ॥
ध्याता द्रष्टा तथा मन्ता बोद्धा दृष्टान्स एव सः । को विद्वान्परमात्मानमनन्तं लोकभावनम् ।
यत्तु शक्यं मया प्रोक्तं गच्छध्वं मुनिपुङ्गवाः ॥
भीष्म उवाच ।
एवं प्रणम्य विप्रेन्द्रा ज्ञानसागरसंभवम् ।
सनत्कुमारं संदृष्ट्वा जग्मुस्ते रुचिरं पुनः ॥
तस्मात्त्वमपि कौन्तेय ज्ञानयोगपरो भव ।
ज्ञानमेवं महाराज सर्वदुःखविनाशनम् ॥
इदं महादुःखसमाकराणां नृणां परित्राणविनिर्मितं पुरा ।
पुराणपुंसा ऋषिणा महात्मना महामुनीनां प्रवरेण तद्भुवम् ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ 227 ॥

* 227,228, एतदव्यायद्वयं थ. पुस्तक एव दृश्यते ।